61129: अप्लुतवदुपस्थिते¶
Padacheda: अप्लुतवत् | S | 0 | 0 |
उपस्थिते | S | 7 | 1 |
Sutrartha¶
संहितायाम् अवैदिके ‘इति’ शब्दे परे प्लुतः अप्लुतवत् भवति ।
उपस्थिते परे प्लुतः अप्लुतवत् भवति — इति अस्य सूत्रस्य पदशः अर्थः । ‘उपस्थितः’ इत्युक्ते अवैदिकवाङ्मये प्रयुज्यमानः ‘इति’ शब्दः । इत्युक्ते, लौकिकसंस्कृते वाक्येषु प्रयुज्यमानः इति अयं शब्दः उपस्थितः नाम्ना ज्ञायते । अस्मिन् शब्दे परे प्लुतस्वरः अप्लुतवत् कार्यं करोति — इत्युक्ते, तस्य प्लुतप्रगृह्या अचि नित्यम् (6.1.125) इत्यनेन अच्-सन्धौ प्रकृतिभावः न जायते — इति प्रकृतसूत्रस्य आशयः । यथा, “सुश्लोक3 इति” इत्यत्र ककारात् परः अकारः प्लुतः अस्ति, अतः प्लुतप्रगृह्या अचि नित्यम् (6.1.125) इत्यनेन प्रकृतिभावे प्राप्ते; प्रकृतसूत्रेण अयं प्लुतस्वरः अप्लुतवत् कार्यम् करोति, अतः संहितायाः विवक्षायाम् आद्गुणः (6.1.87) इत्यनेन गुण-एकादेशे कृते “सुश्लोकेति” एतादृशं रूपं सिद्ध्यति । एवमेव “सुमङ्गल3 इति → सुमङ्गलेति” इति प्रयोगः अपि सिदध्यति । ** इदं सूत्रम् वैकल्पिकविधानम् न करोति । अनेन सूत्रेण उक्तः अप्लुतवद्भावः नित्यः (compulsory) अस्ति इति ज्ञेयम् । **
अप्लुतवत् इत्यत्र ‘वत्’ ग्रहणस्य प्रयोजनम्
प्रकृतसूत्रे अप्लुतवत् इति उक्तमस्ति, अप्लुतम् इति न । इत्युक्ते, अनेन सूत्रेण प्लुत-स्वरे परिवर्तनं कृत्वा तस्य ह्रस्वादेशः दीर्घादेशः वा न क्रियते । प्लुत-स्वरः प्लुतः एव तिष्ठति, परन्तु अच्-वर्णे परे तस्य कार्यम् अप्लुत-स्वरवत् भवति इत्याशयः । अतः अस्य प्लुतस्य उच्चारणं त्रिमात्रिकम् एव भवति । यथा - “अग्नी3 इति” इत्यत्र यद्यपि प्लुतः अप्लुतवत् कार्यं करोति, तथापि “अग्नी” शब्दः प्रगृह्यः अस्ति अतः प्लुतप्रगृह्या अचि नित्यम् (6.1.125) इत्यनेन प्रगृह्यत्वात् प्रकृतिभावः अवश्यं जायते । अस्यां स्थितौ अत्र सन्धिः न भवति, “अग्नी3 इति” इत्येव तिष्ठति । अत्र “अग्नी3” शब्दान्ते विद्यमानस्य ईकारस्य उच्चारणम् त्रिमात्रिकम् एव करणीयम् ।
Sutrartha (English)¶
When followed by an अवैदिक ‘इति’ word, a प्लुत behaves as if it is not प्लुत in the context of संहिता.
Vasu English Summary¶
Before the word इति in the पदपाठ , a प्लुत vowel is treated like an ordinary अप्लुत vowel.
Vasu English Translation¶
Before the word इति in the पदपाठ , a प्लुत vowel is treated like an ordinary अप्लुत vowel. The word उपस्थित means the affixing of इति in non-Rishi texts; i, e. when a Vedic text is split up into its various padas or words and इति is added. That is in Padapatha, the Pluta is treated like an ordinary vowel, and hence there being no प्रकृतिभाव (6.1.125), there is sandhi. Thus सुश्लोका ३ इति = सुश्लोकेति, सुमङ्गला इति = सुमंगलेति ॥ Why have we used the word वत् “like as”; instead of saying “the Pluta becomes Apluta” why do we say “Pluta is treated like apluta”? By not using वत्, the whole Pluta itself would be changed into Apluta, and would give rise to the following incongruity. There is prakriti bhava in the case of pluta and pragrihya. A vowel which is pluta need not be pragrihya, nor a pragrihya, a pluta. But where a vowel is both a pluta and a pragrihya at one and the sametime, there will arise the difficulty. Thus in the dual अग्नी or वायू, the इ and ऊ are pragrihya. They may be made pluta also as अग्ना ३ or वायू ३ ॥ Now if before इति, the pluta became apluta, then we shall not hear the prolation at all in अग्नी इति वायू इति formed by अग्नी ३ + इति &c. For here the vowels will retain their form by being pragrihya by (6.1.125), and in addition to that they will lose their pluta, by the present rule. But this is not intended. Hence the pluta is heard in अग्नी ३ इति, वायू ३ इति ॥
Bhashya¶
अप्लुतवदुपस्थिते (2566) (उपस्थितपदार्थबोधकभाष्यम्) उपस्थिते इत्युच्यते, किमिदमुपस्थितं नाम ? अनार्ष इतिकरणः । सुश्लोका 3 इति, सुश्लोकेति ॥ (पदकृत्यभाष्यम्) अथ वद्वचनं किमर्थम् ? (6236 वद्वचनप्रयोजनवार्तिकम् ॥ 1 ॥) - वद्वचनं प्लुतकार्यप्रतिषेधार्थम् - वद्वचनं क्रियते प्लुतकार्यप्रतिषेधार्थम् । प्लुतकार्यं प्रतिषिध्यते, त्रिमात्रता न प्रतिषिध्यते । किं चेदानीं त्रिमात्रताया अप्रतिषेधे प्रयोजनम्, यावता प्लुतकार्ये प्रतिषिद्धे स्वरसन्धिना भवितव्यम् ? (6237 त्रिमात्रताया अप्रतिषेधे फलबोधकवार्तिकम् ॥ 2 ॥) - प्लुतप्रतिषेधे हि प्रगृह्यप्लुतप्रतिषेधप्रसङ्गोऽन्येन विहितत्वात् - प्लुतप्रतिषेधे हि सति प्रगृह्यस्यापि प्लुतस्य त्रिमात्रतायाः प्रतिषेधः प्रसज्येत । अग्नी3इति । वायू3इति । किं चेदानीं तस्या अपि त्रिमात्रताया अप्रतिषेधे प्रयोजनम् ? यावता प्लुतकार्ये प्रतिषिद्धे स्वरसन्धिना भवितव्यम् । न भवितव्यम् । किं कारणम् ? अन्येन विहितत्वात् । अन्येन हि लक्षणेन प्लुतप्रगृह्यस्य प्रकृतिभाव उच्यते । प्रगृह्यः प्रकृत्येति ॥
Kashika¶
उपस्थितं नामानार्ष इतिकरणः, समुदायादवच्छिद्य पदं येन स्वरूपेऽवस्थाप्यते। तस्मिन् परतः प्लुतोऽप्लुतवद् भवति। प्लुतकार्यं प्रकृतिभावं न करोति। सुश्लोक३ इति सुश्लोकेति। सुमङ्गल३ इति सुमङ्गलेति। वत्करणं किम् ? अप्लुत इत्युच्यमाने प्लुत एव प्रतिषिध्यते। तत्र को दोषः ? प्रगृह्याश्रये प्रकृतिभावे प्लुतस्य श्रवणं न स्यात्। अग्नी३ इति। वायू३ इति॥
Siddhanta Kaumudi¶
उपस्थितोऽनार्ष इति शब्दः तस्मिन्परे प्लुतोऽप्लुतवद्भवति । अप्लुतकार्यं यणादिकं करोतीत्यर्थः । सुश्लोकेति । वत्किम् । अप्लुत इत्युक्तेऽप्लुत एव विधीयेत प्लुतश्च निषिध्येत । तथा च प्रगृह्याश्रये प्रकृतिभावे प्लुतस्य श्रवणंन स्यात् । अग्नी3 इति ॥
Balamanorama¶
अप्लुतवदुपस्थिते - तदाह — उपस्थितोऽनार्ष इति । अप्सुतवद्भावस्य प्रयोजनमाह — प्लुतकार्यं प्रकृतिभावमिति ।अप्लुतकार्यं यणादिकं करोती॑ति पाठान्तरम् । सुश्लोकं३ इतीति । तैत्तिरीये ‘सुश्लोक३’ इति प्लुतान्तो मन्त्रः पठितः । पदकालेऽवग्रहे तस्मात्परत इतिशब्दं पदकाराः पठन्ति । तत्रसुश्लोक३ इती॑ति स्थितेऽप्लुतवद्भावेन प्रकृतिभावाऽभावे सत्याद्गुणे सुश्लोकेतीति भवति । अत्रेतिशब्दः पदकारप्रक्षिप्तत्वादवैदिकः । तदेव ‘सुश्लोकेति’ इत्युदाहरणं भाष्ये स्थितम् । पदकारास्तुसुश्लोक३ इति सुश्लोक३ इती॑त्येव अवगृह्णन्ति । तदपि संहिताया अविवक्षितत्वान्निर्वाह्रम् । संहितायामेव यणादिसन्धिविधानात् । वत्किमिति ।अप्लुत्तव॑दित्यत्र वद्ग्रहणस्य किं प्रयोजनमिति प्रश्नः । उत्तरमाह — अप्लुत इत्यादिना । वद्ग्रहणं विहायाऽप्लुत उपस्थित इत्युक्तेप्लुतस्य स्थानेऽप्लुत एव विधीयते । अतः प्लुत एव निवर्तेत । ततश्च अग्नी३ इतीत्यत्र सम्बोधनप्रथमाद्विवचनान्तस्यानुकरणे प्रगृह्र ईकारस्त्रिमात्रो न श्रूयते । वत्करणे तु प्लुतकार्यस्य प्रकृतिभावस्यैव निवृत्तिर्गम्यते न तु प्लुतस्यापीति नोक्तदोष इत्यर्थः ।
Tattvabodhini¶
अप्लुतवदुपस्थिते - यणादिकं करोतीति । अत्र नव्याः-॒यद्येवम्अग्नी इति ॑ विष्णू इति ॑ इत्यत्र प्रगृह्राश्रयं प्रकृतिभावं बाधित्वा परत्वादनेन यणादिकार्यं स्यात्, ततश्च वत्करणप्रयोजन यणादिकमेव स्यात्, तस्मात्प्लुतकार्यं प्रकृतिभावं न करोतीत्यर्थः॑ इति प्राचां व्याख्यैव ज्यायसी । एवं चइको यणची॑त्यत्रेग्ग्रहणस्य वैयथ्र्यशङ्रकाऽपि नास्ति । तथाहि — तत्रेग्ग्रहणाऽभावेऽपिह्रस्वस्य पिति कृति तुक्दीर्घा॑दित्यतो ह्रस्वदीर्घपदानुवृत्त्या तयोर्यण्विधानान्न व्यञ्जनस्य भविष्यति । प्लुतस्य तु प्रकृतिभावेनैव न भवितव्यमेव । योदयोऽपवादाहरय॑ इत्यादौ ।उपेन्द्रः॑कृष्णैकत्व॑मित्यादौ तुआद्गुणः॑वृद्धिरेचि॑ इति बाधके भविष्यतः । यथा सत्यपीग्ग्रहणेश्रीश॑ इत्यादौ सवर्णदीर्घत्वं बाधकम् । अतो नार्थ इग्ग्रहणेन । तथापिएहि करभोरु ३ इति॑सुतनु ३ इति॑ चिनुहि ३ अत्रे॑त्यादौअप्लुतवदुपस्थिते॑ई ३ चाक्रवर्मणस्ये॑ति प्रकृतिभावनिषेधेऽपि आभ्यां यणादिकार्याऽविधानात् प्लुतस्याऽस्य यण्न स्यात् । ह्रस्वदीर्घपदाननुवृत्तौ तु व्यञ्जनस्य स्यात् । तस्मादिग्ग्रहणं व्यर्थमिति न शक्यते शङ्कितु॑मित्याहुः । अन्ये त्विग्ग्रहणस्य प्रयोजनान्तरमप्याहुः,-इको यणेव क्वचिद्यथा स्याद्यदन्यत्प्राप्नोति तन्मा भूत् । किंचाऽन्यत् प्राप्नोति ,इकोऽसवर्णे॑ इति शाकलम् । एवं च यदुक्तंन समासे॑सिति चे॑ति, तदनेन सङ्गृहीतं भवती॑ति ।
Padamanjari¶
ऋषिःउवेदः तत्र भव आर्षः, ततोऽन्योनार्षः, समुदायाद्वाक्यादवच्छिद्य पृथककृत्य स्वरूपेऽवस्थाप्यते। कैः? पदकारैः। पदस्येयतापरिज्ञानाय अप्लुतेन तुल्यं वर्तत इत्यप्लुतवत्। तत्र येन साधर्म्येणाप्लुतवत्वम्, तद्दर्शयति - अप्लुतकार्यमिति। तत्रापि प्लुतशब्देन विहितस्य कार्यस्य प्रतिषेध इति दर्शयति - प्रकृतिभावं करोतीति। अन्यथा स्वरसन्धेरपि प्रतिषेधः स्यात्, तस्यापि प्लुकार्यत्वात्। उदाहरणेषु प्लुतकार्यपब्रतिषेधादेकादेशो भवत् प्लुतमेवोपमृद्य भवति; स्वरसन्धिप्रकरणे प्लुतस्य सिद्वत्वात्। तत्र को दोष इति। एकादेशेन निवर्त्यमानत्वात् प्लुतस्य श्रवणेन न भवितव्यमिति प्लुत एव निषिध्यताम्, किमर्थमतिदेशाश्रयणमिति प्रशनः। अग्नी3 इतीति। यत्र प्लुताश्रयोऽपि प्रकृतिभावः प्राप्नोति, प्रगृह्याश्रयोऽपि; तत्र प्लुताश्रयस्य प्रतिषेधेऽपि प्रगृह्याश्रयस्य प्रकृतिभावस्य प्रतिषेधाभावात् प्लुतस्य श्रवणं सिद्ध्यति, प्लतप्रतिषेधे तु क्रियमाणेऽत्रापि श्रवणं न स्यात् ॥
Nyaas¶
ऋषौ=वेदे भव आर्षः, तस्मादन्यो लौकिकोऽनार्षः। समुदायात् इति। वाक्यादित्यर्थः। कुत एतत? पदरहितस्य वक्यस्याप्रयोगात्। वाक्यस्य च समुदयात्मकत्वात्। अवच्छिद्य इति। पृथक्? कृत्वेत्यर्थः। स्वरूपे व्यवस्थाप्यते [स्वरूपेऽवस्थाप्यते - काशिका] इति। शब्दपदात्मकतायां व्यवस्थाप्यत इत्यर्थः। अप्लुतवत् इति। अप्लुतेन तुल्यं वर्तत इत्यप्लुतवत्। येन साधम्र्येणाप्लुतवद्भवति तद्दर्शयितुमाह - प्लुतकार्यम् इत्यादि। तदनेन प्लुतकार्यस्यार्थं प्रतिषेधः, न तु प्लुतस्येति दर्शितं भवति। सुश्लोका 3 इति। दूराद्धूते च (8.2.84) इति प्लुतः। सुश्लोका इति। प्लुतकार्यस्याकरणादेकादेशो भवत्येव। ननु चैकादेशेनापि न भवितव्यम्, तस्यापि प्लुतकार्यत्वात्? नैतदस्ति; एवं हि वचनस्य वैयथ्र्यं स्यात्। तस्मात्? प्लुतसंशब्दनेनैव प्लुतस्य यत्कार्यं विहितं तस्यैव प्रतिषेधः, न सर्वस्य प्लृतकार्यस्य। न चैकादेश एवं विहितः। वत्करणं किम् इति। कार्यमात्रस्य प्रतिषेधे सति प्लुतस्य धवणं यथा स्यादित्येवमर्थं वत्करणं स्यात्। सत्यपि च कार्यमात्रस्य प्रकृतिभावस्य प्रतिषेधेनैव प्लुतश्रुत्या भवितव्यम्; एकदेशेन निवर्त्तितत्वात्। तत्? कस्मात्? प्लुतस्यैव प्रतिषेधो न क्रियत इत्यभिप्रायः। प्लुतप्रतिषेधे वक्ष्यमाणं दोषं चेतसि कृत्वाऽऽह - प्लुत इत्युच्यमाने इत्यादि। तत्र को दोषः इति। यो वत्करणे सति न भवतीति भावः। प्रगृह्राश्रये इत्यादि। प्रगृह्र आश्रयो यस्य तस्मिन्? प्रतिभावे सति प्रगृह्रसंज्ञको यः प्लुतस्तस्य श्रवणं न स्यात्, यदि प्लुत एव प्रतिषिध्येत। वत्करणे तु सति प्लुतकार्यस्यायं प्रतिषेधो भवति न प्लुतस्यैव। तत्र प्लुताश्रये प्रकृतिभावे प्रतिषिद्धेऽपि प्रगृह्राश्रयस्याप्रतिषिद्धत्वादसत्येकादेश एव दोषो न भवति। अग्नी इति। इदूदेद्द्विवचनम् (1.1.11) इत्यादिना प्रगृहयसंज्ञा, गुरोरनृत (8.2.86) इत्यादिना प्लुतः॥
Prakriyasarvasvam¶
उपस्थितमित्यनार्ष इति शब्दः । तस्मिन् प्लुतोऽप्लुतवत्स्यात् । प्लुतकृतः सन्ध्यभावो न । सन्धिः स्यादित्यर्थः । विन्दतीति विन्दती ३ । ‘ई ३ चाक्रवर्मणस्य’ (६–५–१३०) इति विकल्पः इतावपि स्यात् ।