61128: ऋत्यकः¶
Padacheda: ऋति | S | 7 | 1 |
अकः | S | 6 | 1 |
Sutrartha¶
पदान्त-अक्-वर्णस्य ह्रस्व-ऋकारे/ऌकारे परे संहितायाम् शाकल्यस्य मतेन ह्रस्वादेशः भवति, तदनन्तरं च सन्धिकार्यं न भवति ।
पदस्य अन्ते विद्यमानस्य अक्-वर्णस्य असवर्णे ह्रस्व-ऋकारे/ऌकारे परे यणादेशं/सवर्णदीर्घं/गुणम् बाधित्वा शाकल्यस्य मतेन (इत्युक्ते, विकल्पेन) ह्रस्वादेशः, प्रकृतिभावः च भवति ।
क्रमेण उदाहरणानि एतानि — <hlb>1. अवर्णात् ऋकारे/ऌकारे परे गुणैकादेशं बाधित्वा ह्रस्वादेशः, प्रकृतिभावः —</hlb>
सप्त ऋषिः → सप्तऋषिः । अग्रे गुणैकादेशः न भवति । पक्षे, आद्गुणः (6.1.87) इत्यनेन गुणैकादेशे कृते “सप्तर्षिः” अपि सिद्ध्यति ।
सप्त ऌकारः → सप्तऌकारः, सप्तल्कारः ।
ब्रह्मा ऋषिः → ब्रह्मऋषिः, ब्रह्मर्षिः ।
ब्रह्मा ऌकारः → ब्रह्मऌकारः, ब्रह्मल्कारः ।
<hlb>2. इवर्णात् ऋकारे/ऌकारे परे यणादेशं बाधित्वा ह्रस्वादेशः, प्रकृतिभावः —</hlb>
मति ऋषिः→ मतिऋषिः । अग्रे यणादेशः न भवति । पक्षे, इको यणचि (6.1.77) इत्यनेन यणादेशे कृते “मत्यृषिः” इति अपि सिद्ध्यति ।
नदी ऋषिः → नदिऋषिः, नद्यृषिः ।
मति ऌकारः → मतिऌकारः, मत्यॢलकारः ।
नदी ऌकारः → नदिऌकारः, नद्यॢकारः ।
<hlb>3. उवर्णात् ऋकारे/ऌकारे परे यणादेशं बाधित्वा ह्रस्वादेशः, प्रकृतिभावः —</hlb>
साधु ऋषिः → साधुऋषिः । अग्रे यणादेशः न भवति । पक्षे, इको यणचि (6.1.77) इत्यनेन यणादेशे कृते “साध्वृषिः” इति अपि सिद्ध्यति ।
वधू ऋषिः → वधुऋषिः, वध्वृषिः ।
साधु ऌकारः → साधुऌकारः, साध्वॢकारः ।
वधू ऌकारः → वधुऌकारः, वध्वॢकारः ।
<hlb>4. ऋवर्णात् ऋकारे/ऌकारे परे सवर्णदीर्घं बाधित्वा ह्रस्वादेशः, प्रकृतिभावः —</hlb>
पितृ ऋषिः → पितृऋषिः । अग्रे सवर्णदीर्घः न भवति । पक्षे, अकः सवर्णे दीर्घः (6.1.101) इत्यत्र पाठितेन <!ऋति सवर्णे र्रृ वा !> इति वार्त्तिकेन ‘र्रृ’ इति नरसिंह-ऋकारे कृते “पित्र्रृकारः” इति वैकल्पिकं रूपम्, तदभावे च अकः सवर्णे दीर्घः (6.1.101) इत्यनेन सवर्णदीर्घे कृते “पितॄकारः” इति रूपम् ।
तॄ ऋषिः → तृऋषिः । पक्षे अकः सवर्णे दीर्घः (6.1.101) इत्यनेन सवर्णदीर्घे कृते “तॄषिः” इति रूपम् ।
ऌ ऋषिः → ऌऋषिः । पक्षे सवर्णदीर्घं कृत्वा “ॠषिः” इति रूपम् ।
पितृ ऌकारः → पितृऌकारः । पक्षे, अकः सवर्णे दीर्घः (6.1.101) इत्यत्र पाठितेन <!ऌति सवर्णे ल्लॢ वा !> इति वार्त्तिकेन ‘ल्लॢ’ इति नरसिंह-ऌकारे कृते “पित्ल्लॢकार” इति वैकल्पिकं रूपम्, तदभावे च अकः सवर्णे दीर्घः (6.1.101) इत्यनेन सवर्णदीर्घे कृते “पितॄकारः” इति रूपम् ।
तॄ ऌकारः → तृऌकारः । पक्षे सवर्णदीर्घं कृत्वा “तॄकारः” इति रूपम् ।
ऌ ऌकारः → ऌऌकारः । पक्षे सवर्णदीर्घं कृत्वा “ॠकारः” रूपम् ।
**इकोऽसवर्णे शाकल्यस्य ह्रस्वश्च (6.1.127) तथा च ऋत्यकः (6.1.128) इत्येतयोमर्ध्ये भेदः**
इवर्णात् उवर्णात् वा ऋकारे / ऌकारे परे ऋत्यकः (6.1.128) इत्यनेन यद् रूपम् सिद्ध्यति, तदेव रूपम् सामान्यतः इकोऽसवर्णे शाकल्यस्य ह्रस्वश्च (6.1.127) इत्यनेन अपि सिद्ध्यति । परन्तु **इकोऽसवर्णे शाकल्यस्य ह्रस्वश्च (6.1.127) इति सूत्रम् <! सित्-समासयोः शाकलप्रतिषेधो वक्तव्यः!> इति वार्त्तिकसामर्थ्यात् समासस्य विषये न प्रवर्तते । ऋत्यकः (6.1.128) इति सूत्रम् तु समासस्य विषये अपि प्रवर्तते ।** अतः “नद्याः ऋषिः” इत्यत्र षष्ठीसमासे कृते इकोऽसवर्णे शाकल्यस्य ह्रस्वश्च (6.1.127) इत्यनेन ह्रस्वादेशः प्रकृतिभावः वा नैव सम्भवति । अत्र तत्कार्यं कर्तुम् ऋत्यकः (6.1.128) इत्येव सूत्रम् प्रयोक्तव्यम् ।
दलकृत्यम्
1. ऋति इत्यत्र तपरकरणम् किमर्थम् ? अत्र ऋकारस्य तपरकरणेन तपरस्तत्कालस्य (1.1.70) इति तात्कालिकभेदस्य एव ग्रहणं भवति, अतः अस्य सूत्रस्य प्रसक्तिः केवलम् ऋकारे/ऌकारे परे च सम्भवति, न हि दीर्घ-ॠकारे परे । अतः “पितृ + ॠकारः” इत्यत्र केवलम् सवर्णदीर्घं कृत्वा “पितॄकारः” इति शब्दः सिद्ध्यति । 2. पदान्तस्य इति किमर्थम् ? अक्-वर्णः पदान्ते नास्ति चेत् प्रकृतसूत्रेण ह्रस्वादेशः प्रकृतिभावः वा न भवति । यथा, “ऋच्छ्” धातोः लङ्लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रियायाम् आडागमे कृते “आ + ऋच्छ् + त्” इति स्थिते अत्र प्रकृतसूत्रम् नैव प्रवर्तते, यतः अत्र “आ” इति भिन्नम् पदम् नास्ति । अत्र आटश्च (6.1.90) इत्यनेन वृद्धि-एकादेशं कृत्वा “आर्च्छत्” इत्येव रूपं सिद्ध्यति ।
Sutrartha (English)¶
According to शाकल्य, In the context of संहिता a पदान्त-अक्-letter, when followed by a ह्रस्व ऋ/ऌ-letter undergoes ह्रस्वादेशः and then no other sandhi happens.
Vasu English Summary¶
According to the opinion of शाकल्य , the simple vowel followed by ऋ retains its original form, and if the vowel is long, it is shortened.
Vasu English Translation¶
According to the opinion of शाकल्य , the simple vowel followed by ऋ retains its original form, and if the vowel is long, it is shortened. Thus खट्वा ऋश्यः, कुमारि ऋश्यः, होतृ ऋश्यः ॥ Why do we say when followed by ऋ? Observe, खट्वेन्द्रः ॥ Why do we say “the simple vowels (अकः)”? Observe वृक्षावृश्यः (वृक्षा + ऋश्य) ॥ This rule applies even when the vowels are homogenous (which were excepted by the last rule), and it is not confined to इक् vowels as the last, but applies to अ and आ also.
Bhashya¶
ऋत्यकः (2565) (वार्तिकावतरणभाष्यम्) किमर्थमिदमुच्यते ? (6233 सूत्रप्रयोजनवार्तिकम् ॥ 1 ॥) - ऋत्यकः सवर्णार्थः - सवर्णार्थोऽयमारम्भः । होतृ ऋश्यः ॥ (6234 सूत्रप्रयोजनवार्तिकम् ॥ 2 ॥) - अनिगन्तार्थं च - खट्व ऋश्यः । माल ऋश्यः ॥ (6235 विप्रतिषेधोपसंख्यानवार्तिकम् ॥ 3 ॥) - ऋति ह्रस्वादुपसर्गाद्वृद्धिर्विप्रतिषेधेन - ऋति ह्रस्वो भवतीत्येतस्मादुपसर्गाद्वृद्धिर्भवति विप्रतिषेधेन । ऋति ह्रस्वो भवतीत्येतस्यावकाशः - खट्व ऋश्यः, माल ऋश्यः । उपसर्गाद्वृद्धेरवकाशः - विभाषा ह्रस्वत्वम्, यदा न ह्रस्वत्वं सोऽवकाशः । ह्रस्वप्रसङ्ग उभयं प्राप्नोति - प्रार्ध्नोति, उपार्ध्नोति । उपसर्गाद्वृद्धिर्भवति विप्रतिषेधेन ॥ (विप्रतिषेधानर्थक्यबोधकभाष्यम्) स तर्हि विप्रतिषेधो वक्तव्यः ? न वक्तव्यः । उक्तं तत्र धातुग्रहणस्य प्रयोजनम् - उपसर्गादृति धातौ वृद्धिरेव यथा स्यात्, यदन्यत्प्राप्नोति तन्मा भूदिति ॥
Kashika¶
शाकल्यस्य ह्रस्वश्चेत्येतदनुवर्तते। ऋकारे परतः शाकल्यस्याचार्यस्य मतेनाकः प्रकृत्या भवन्ति, ह्रस्वश्च तस्याकः स्थाने भवति। खट्व ऋश्यः। माल ऋश्यः। कुमारि ऋश्यः। होतृ ऋश्यः। ऋतीति किम् ? खट्वेन्द्रः। अक इति किम् ? वृक्षावृश्यः। सवर्णार्थमनिगर्थं च वचनम्॥
Siddhanta Kaumudi¶
ऋति परेऽकः प्राग्वत् । ब्रह्म ऋषिः । ब्रह्मर्षिः । पदान्ताः इत्येव । आर्च्छत् । समासेऽप्ययं प्रकृतिभावः । सप्तऋषीणाम् - सप्तर्षीणाम् ॥
Laghu Siddhanta Kaumudi¶
ऋति परे पदान्ता अकः प्राग्वद्वा । ब्रह्म ऋषिः, ब्रह्मर्षिः पदान्ताः किम् ? आर्च्छत् ॥
Balamanorama¶
ऋत्यकः - ऋत्यकः । ‘अकः’ इति षष्ठी ।शाकल्यस्य ह्रस्वश्चे॑त्यनुवर्तते । असवर्णं इति निवृत्त्म् ।एङः पदान्ता॑दित्यतः पदान्तादित्यनुवर्तते । तच्च षष्ठ्यन्ततया विपरिणम्यते । ततःपदान्तस्याऽक ऋति ह्रस्वो वा स्या॑दित्येकं वाक्यं सम्पद्यते । चकारात्प्रकृत्येत्यनुकृष्यते ।उक्तो ह्रस्वः प्रकृत्या अवतिष्ठते॑ इति द्वितीयं वाक्यं संपद्यते । तदाह — ऋति परेऽकः प्राग्वदिति । ब्राहृ ऋषिरिति । ब्राहृआ — ऋषिरिति स्थिते आकारस्य ह्रस्वः प्रकृतिभावश्च । ततश्चाद्गुण इति परपः अकारो न भवति । अत्रा.ञऽकारस्य इक्त्वाऽभावादिकोऽसवर्णे इत्यप्राप्ते इदं वचनम् । ब्राहृर्षिरिति । उक्तह्रस्वसमुच्चितप्रकृतिभावाऽभावपक्षे आद्गुण इति अकारः । रपरत्वम् ।ऋत्यस्ये॑त्येव तु न सूत्रितम् । होतृ-ऋकार इत्यत्र प्रकृतिभावार्थमग्ग्रहणस्यावश्यरकत्वात् । पदान्ता इत्येवेति । पदान्तग्रहणमत्राप्यनुवर्तनीयमेवेत्यर्थः । आच्र्छदिति । ऋ गतौ । लङ् तिप् शप् । पाघ्राध्मेति ऋच्छादेशः ।इतश्चे॑ति इकारलोपः,आडजादीना॑मित्याडागमः, आटश्चेति वृद्धिः । आ ऋच्छदिति स्थिते आकारस्याऽकः पदान्तत्वाऽभावान्नोक्तः प्रकृतिभावः । न समास इति पूर्वसूत्रस्थं निषेधवार्तिकमिह न संबध्यत इत्याह — समासेऽपीति । सप्तऋषीणामिति ।दिक्संख्ये संज्ञाया॑मिति समासः । सप्तऋषीणासिति प्रकृतिभावपक्षे रूपं तदभावपक्षे तु आद्गुण इति गुणे रपरत्वे सप्तर्षीणामिति भवति ।
Tattvabodhini¶
ऋत्यकः - ऋत्यकः । ब्राहृ ऋषिरिति । ननुऋत्यस्ये॑त्येव सूत्रमस्तु ।दधि ऋच्छती॑त्यादौइकोऽसवर्णे॑इत्यनेनैव प्रकृतिभावसिद्धेः । मैवम् ।होतृ-ऋकार॑ इत्यत्र प्रकृतिभावार्थमग्ग्रहणस्यावश्यकत्वात् । एतेनअकोऽसवर्णे॑ इत्येकमेव सूत्रमस्त्विति शङ्काया निरवकाश एव, उक्तदोषाऽनिवृत्तेः, सप्तॠषीणामित्यत्रन समासे॑ इति निषेधापत्तेश्च ।न समासे॑ इति निषेधवार्तिकं हिइकोऽसवर्णे॑ इति सूत्र एव, न तुऋत्यकः॑ इत्यत्रेति सिद्धान्तः । अत एवाह — समासे ऽप्ययमिति । एवं चऋऌवर्णयोः॑ इति पूर्वोक्तो निर्देशः सङ्गच्छते ।
Padamanjari¶
सवर्णर्थमनिगर्थं च वचनमिति। होतृ ऋश्यः, खट्व ऋश्य इत्यादौ; इन्यत्र पूर्वेणैव सिद्धत्वात् ॥
Nyaas¶
सवर्णार्थमनिगर्थञ्च वचनम् इति। अन्यत्र पूर्वेणैव सिद्धत्वात्। यदि सवर्णार्थं वचनम्, कथं तर्हि खट्वश्र्य इत्युदाहरणम्, न ह्यत्र सवर्णोऽच्परः नैतदस्ति; अनिगर्थञ्च इति यदुक्तं तस्योदाहरणम्। अत एवाक इत्युपात्तं सूत्रे; अन्यथेक इत्यनुवर्तनीयं स्यात्। सत्यस्मिन्? योगे सवर्णार्थेऽप्यकोऽनेनैव युक्तो ह्रस्वप्रकृतिभावो परत्वादत्यस्योदाहरणस्योपन्यासः॥
Prakriyasarvasvam¶
अकः ऋति परे प्रकृतिभावो ह्रस्वश्च स्यात् । रम ऋषिः । रमर्षिः । हरि ऋद्धिः । हर्यृद्धिः । दातृ ऋषभः । दातृषभः । हैंहयोः प्रगृह्यत्वमिति केचिदिति कौमुदी । है अच्युत । हे अच्युत । अप्रगृह्यत्व आयादेशः पूर्वरूपं च । हायच्युत । हेच्युत । महत्+चक्रम्, दैत्यान्+जेतुम्, इति स्थिते । ‘स्तोः श्चुना श्चुः’ (८-४-४०) इति श्चुत्वम् । महच्चक्रम् । दैत्याञ्जेतुम् । बृहत् टङ्कम् । वहन् ढौकते ।
Sarala¶
इकोऽसवर्णे शाकल्यस्य ह्रस्वश्च (६.१.१२७) इत्यनुवर्तते । एङः पदान्तादति (६.१.१०९) इति इकोऽसवर्णे शाकल्यस्य ह्रस्वश्च (६.१.१२७) इत्यतः “शाकल्यस्य ह्रस्वः” इति चानुवर्त्त्योक्तं - प्राग्वदिति । आडजादीनाम् (६.४.७२) इति जातस्याऽऽडागमस्य धात्ववयवत्वेन पदान्तत्वाऽभाव इति भावः ॥
Sudha¶
ब्रह्मा ऋषि इति । ** “ब्रह्मा ऋषिः” इति स्थितौ **ऋत्यकः (6.1.128) इत्यनेन पदान्तस्य अक्-प्रत्याहारान्तर्गतमकारोत्तवर्तिनः आकारस्य ह्रस्वत्वे कृते “ब्रह्म ऋषिः” इति जायते । पक्षे आद्गुणः (6.1.87) इति पूर्वपरयोः स्थाने गुणे रपरे च कृते “ब्रह्मर्षिः” इति रूपंम्भवति । पदान्ता किमिति । अत्र पदान्ताः इत्यस्याग्रहणे तु “आ ऋच्छत्” इत्यत्र ह्रस्वत्वमापद्येत । तन्मा भूदेतदर्थं “पदान्ताः” इति । तेनात्र आटश्च (6.1.90) इत्यनेन वृद्धौ सत्याम् “आर्च्छत्” इति सिद्ध्यतीति दिक् ॥ इत्यच्सन्धिः ॥
Sutra Prayogas¶
हिमऋतावपि (शिशुपालवधम्): ऋत्यकः इति प्रकृतिभावः ।