61127: इकोऽसवर्णे शाकल्यस्य ह्रस्वश्च¶
Padacheda: इकः | S | 6 | 1 |
असवर्णे | S | 7 | 1 |
शाकल्यस्य | S | 6 | 1 |
ह्रस्वः | S | 1 | 1 |
च | S | 0 | 0 |
Sutrartha¶
पदान्त-इक्-वर्णस्य असवर्णे अचि परे संहितायाम् शाकल्यस्य मतेन ह्रस्वादेशः भवति, तदनन्तरं च सन्धिकार्यं न भवति ।
पदस्य अन्ते विद्यमानस्य इक्-वर्णस्य असवर्णे अच्-वर्णे परे इको यणचि (6.1.77) इत्यनेन यणादेशे प्राप्ते; तद्बाधित्वा शाकल्यस्य मतेन (इत्युक्ते, विकल्पेन) ह्रस्वादेशः, प्रकृतिभावः च भवति । यथा - “चक्री अत्र” इत्यत्र प्रकृतसूत्रेण ह्रस्वादेशं प्रकृतिभावम् च कृत्वा “चक्रि अत्र” इति सिद्ध्यति । अत्र पुनः अग्रे यणादेशः न भवति । पक्षे, “चक्री अत्र” इत्यत्रैव इको यणचि (6.1.77) इत्यनेन यणादेशे कृते “चक्र्यत्र” इत्यपि रूपं सिद्ध्यति ।
दलकृत्यम्
1. पदान्तस्य इति किमर्थम् ? ** यत्र अपदान्तः इक्-वर्णः अस्ति तत्र अस्य सूत्रस्य प्रसक्तिः न विद्यते । यथा, “नदी + औ → नद्यौ”इत्यत्र नदीशब्दस्य पदसंज्ञायाः अभावे ह्रस्वादेशः अपि न भवति, केवलम् यणादेशं कृत्वा रूपं सिद्ध्यति । **2. असवर्णे इति किमर्थम् ? ** पदान्त-इक्-वर्णात् सवर्णे इक्-वर्णे परे प्रकृतसूत्रं नैव प्रवर्तते । यथा, “नदी + इयम् → नदीयम्” इत्यत्र केवलं सवर्णदीर्घं कृत्वा रूपं सिद्ध्यति । **3. ह्रस्वश्च इत्यत्र चकारः किमर्थम् ? ** ह्रस्वादेशः भवति, ततः प्रकृतिभावः अपि भवति इति दर्शयितुम् अत्र सूत्रे चकारः स्थापितः अस्ति । वस्तुतस्तु अत्ह्रर स्वादेशसामर्थ्याद् एव प्रकृतिभावः अपि सिद्ध्यति, यतः ह्रस्वादेशात् अनन्तरम् यणादेशः क्रियते चेत् ह्रस्वादेशः व्यर्थः एव स्यात् । अतः ह्रस्वादेशेनैव प्रकृतिभावे अपि सिद्धे चकारग्रहणम् अस्मिन् सूत्रे अनावश्यकम् । **4. शाकल्यग्रहणम् विकल्पार्थम् उत पूजार्थम् ? ** इक्-वर्णात् असवर्णे अच्-वर्णे परे **इको यणचि (6.1.77) इत्यनेन यणादेशे प्राप्ते; प्रकृतसूत्रेण पदान्त-इक्-वर्णस्य विषये ह्रस्वादेशः उच्यते । अतः अस्मिन् सूत्रे यदि शाकल्यग्रहणम् नैव क्रियते, तर्हि अत्र इदं सूत्रम् पदान्त-इक्-वर्णस्य विषये इको यणचि (6.1.77) इति सूत्रम् नित्यं बाधेत । तादृशं मा भूत् अतः अस्मिन् सूत्रे शाकल्यग्रहणम् कृतम् अस्ति । शाकल्यमुनेः नाम उक्त्वा ‘तन्मतेन’ (इत्युक्ते विकल्पेन) इदं सूत्रं प्रवर्तते, इति पाणिनेः आशयः । पूजार्थम् (to show respect / to give credit) ग्रहणम् कृतम् अस्ति इत्यत्र तु नैव कश्चन संदेहः । परन्तु विकल्पार्थम् अपि कृतम् अस्ति इति विशेषः । <note>काशिकायाम् अत्र — शाकल्यस्य ग्रहणं पूजार्थम्, आरम्भसामर्थ्यादेव हि यणादेशेन सह विकल्पः सिद्धः — इति उच्यते । एतत् तु चिन्त्यमेव, यतः यणादेशः अपदान्त-इक्-वर्णस्य विषये चारितार्थ्यं प्राप्य पदान्त-इक्-वर्णस्य विषये अवश्यं बाधं स्वीकुर्यात् ।</note>
बाध्यबाधकभावः
प्लुतप्रगृह्या अचि नित्यम् (6.1.125) इति सूत्रेण प्रकृतसूत्रम् नित्यम् बाध्यते । इत्युक्ते, यत्र प्लुतप्रगृह्या अचि नित्यम् (6.1.125) इत्यस्य प्रसक्तिः अस्ति तत्र प्रकृतसूत्रम् नैव प्रवर्तते । अतएव “मुनी एतौ” इत्यत्र प्रकृतसूत्रेण ह्रस्वादेशः न भवति, अपि च प्लुतप्रगृह्या अचि नित्यम् (6.1.125) इत्यनेन नित्यम् प्रकृतिभावः एव विधीयते ।
वार्त्तिकद्वयम्
<! 1. सित्-नित्यसमासयोः शाकलप्रतिषेधो वक्तव्यः!> सित्-प्रत्यये परे, तथा च समासे प्रकृतसूत्रस्य प्रयोगः न भवति — इति अस्य वार्त्तिकस्य अर्थः । <light>यद्यपि अत्र वार्त्तिके ‘नित्यसमास’ इति निर्देशः कृतः अस्ति, तथापि सः अंशः भाष्यकारेण प्रत्याख्यातः अस्ति । नित्येषु अनित्येषु च समासेषु प्रकृतसूत्रस्य प्रयोगः नैव भवति, इति अत्र भाष्यकारस्य आशयः वर्तते।</light> क्रमेण उदाहरणे एते — <listsp> 1.1) ** सित्-प्रत्यये परे प्रकृतसूत्रस्य निषेधः ** — यस्याः प्रकृतेः सित्-प्रत्ययः विधीयते, तस्याः सिति च (1.4.16) इति सूत्रेण पदसंज्ञा भवति । अतः एतादृशः सित्-प्रत्ययः यदि अजादिः अस्ति, तर्हि तत्र प्रकृतसूत्रेण विकल्पेन ह्रस्वादेशः प्रकृतिभावश्च प्राप्नोति । अस्य ह्रस्वादेशस्य, प्रकृतिभावस्य च निषेधं कर्तुम् इदं वार्त्तिकम् पाठ्यते । सित्-प्रत्यये परे प्रकृतसूत्रस्य प्रयोगः न भवति, इति अस्य वार्त्तिकस्य आशयः । अस्य द्वे उदाहरणे एतादृशे — <listsp> i) ब्राह्मणमाणववाडवाद्यन् (4.2.42) अस्मिन् सूत्रे पाठितेन <! पर्श्वा णस् वक्तव्यः !> इति वार्त्तिकेन “पर्शु”-शब्दात् णस्-प्रत्ययः भवति । अयम् सित्-प्रत्ययः अस्ति, अयम् अजादिः अपि अस्ति, अतः अस्मिन् प्रत्यये परे प्रकृतसूत्रेण प्राप्तः वैकल्पिकः ह्रस्वादेशः प्रकृतिभावश्च <!सित्-नित्यसमासयोः शाकलप्रतिषेधो वक्तव्य!> इति वार्त्तिकेन निषिध्यते । प्रक्रिया इयम् —
पर्शूनां समूहः
= पर्शु + णस् [<! पर्श्वा णस् वक्तव्यः !> इति वार्त्तिकेन पर्शु-शब्दात् णस्-प्रत्ययः]
→ पर्शु + अ [इत्संज्ञालोपः । अत्र सकारस्यापि इत्संज्ञा अस्तीति स्मर्तव्यम् ]
→ पार्शु + अ [**तद्धितेष्वचामादेः** (7.2.117) इति आदिवृद्धिः । ]
→ पार्श्व [**सिति च** (1.4.16) इत्यनेन प्रकृतेः पदसंज्ञायां सत्याम् पदान्त-उकारस्य अच्-वर्णे परे प्रकृतसूत्रेण निर्दिष्टः ह्रस्वादेशः प्रकृतिभावः च <! सित्-नित्यसमासयोः शाकलप्रतिषेधो वक्तव्यः!> अनेन वार्त्तिकेन निषिध्यते । अतः अत्र **इको यणचि** इति यणादेशं कृत्वा रूपं सिद्ध्यति ।]
‘ऋतु’ शब्दात् वेदेषु ‘अस्य प्राप्तम्’ अस्मिन् अर्थे छन्दसि घस् (5.1.106) इति सूत्रेण घस्-प्रत्ययः कृतः दृश्यते । अस्मिन् प्रत्यये सकारस्य इत्संज्ञा भवति । अयम् प्रत्ययः अजादिः अस्ति, अतः अस्मिन् प्रत्यये परे प्रकृतसूत्रेण प्राप्तः वैकल्पिकः ह्रस्वादेशः प्रकृतिभावश्च <!सित्-नित्यसमासयोः शाकलप्रतिषेधो वक्तव्य!> इति वार्त्तिकेन निषिध्यते । प्रक्रिया इयम् —
ऋतुः अस्य प्राप्तः
ऋतु + घस् [**छन्दसि घस्** (5.1.106) इति घस्]]
→ ऋतु + इय [**आयनेयीनीयीयः फढखच्छघां प्रत्ययादीनाम्** (7.1.2) इति इय-आदेशः]
→ ऋत्विय [**सिति च** (1.4.16) इत्यनेन प्रकृतेः पदसंज्ञायां सत्याम् पदान्त-उकारस्य अच्-वर्णे परे प्रकृतसूत्रेण निर्दिष्टः ह्रस्वादेशः प्रकृतिभावः च <! सित्-नित्यसमासयोः शाकलप्रतिषेधो वक्तव्यः!> अनेन वार्त्तिकेन निषिध्यते । अतः अत्र **इको यणचि** इति यणादेशं कृत्वा रूपं सिद्ध्यति ।]
</listsp> 1.2) ** समासे प्रकृतसूत्रस्य निषेधः ** — यत्र समस्तपदस्य पूर्वपदम् इगन्तम् अस्ति, उत्तरपदस्य आदौ च असवर्णः स्वरः विद्यते, तत्र प्रकृतसूत्रेण ह्रस्वादेशे, प्रकृतिभावे च प्राप्ते <! सित्-नित्यसमासयोः शाकलप्रतिषेधो वक्तव्यः!> अनेन वार्त्तिकेन सः निषिध्यते । अस्य कानिचन उदाहरणानि अधः दत्तानि सन्ति । तत्र आदिस्थे द्वे उदाहरणे नित्यसमासस्य विषये स्तः, अग्रिमे द्वे उदाहरणे अनित्यसमास्य विषये स्तः ।
व्याक्रियते अनेन इति → वि + आ + कृ + ल्युट् → वि + आ + कृ + अन → व्याकरण । अत्र कृ-धातोः ऋकारस्य अकारे परे प्रकृतिभावः न भवति ।
कुमार्यै इति → कुमारी + अर्थम् → कुमार्यर्थम् । अत्र ईकारस्य अकारे परे ह्रस्वः प्रकृतिभावः च न भवति ।
वाप्याम् अश्वः → वापी + अश्वः → वाप्यश्वः । अत्र ईकारस्य अकारे परे ह्रस्वः प्रकृतिभावः च न भवति ।
नद्याम् आतिः → नदी + आतिः → नद्यातिः । अत्र ईकारस्य आकारे परे ह्रस्वः प्रकृतिभावः च न भवति ।
</listsp> <! 2. ईषाअक्षादिषु छन्दसि प्रकृतिभावमात्रं वक्तव्यम्!> <light>सिद्धान्तकौमुद्याम् इदं वार्त्तिकम् आङोऽनुनासिकश्छन्दसि (6.1.126) इत्यत्र पाठितम् अस्ति ।</light> वेदेषु — “ईशा अक्ष”, “का ईर्मिरे”, “यथा अङ्गदः”, “पथा अगमन्”, “ज्या इयम्”, “पूषा अविष्टु” —एतादृशेषु केषुचित् प्रयोगेषु संहितायाम् सत्याम् अपि प्रकृतिभावः कृतः दृश्यते । एतेषाम् सर्वेषाम् शब्दानाम् साधुत्वार्थम् वार्त्तिककारेण इदं वार्त्तिकम् पाठितम् अस्ति । एतेषु सर्वेषु शब्देषु ह्रस्वादेशः न भवति परन्तु प्रकृतिभावः अवश्यं भवति, इति अस्य वार्त्तिकस्य अर्थः ।
Sutrartha (English)¶
According to शाकल्य, In the context of संहिता a पदान्त-इक्-letter, when followed by an असवर्ण अच्-letter undergoes ह्रस्वादेशः and then no other sandhi happens.
Vasu English Summary¶
According to the opinion of शाकल्य , the simple vowels with the exception of अ , when followed by a non-homogenous vowel, retain their original forms; and if the vowel is long, it is shortened.
Vasu English Translation¶
According to the opinion of शाकल्य , the simple vowels with the exception of अ , when followed by a non-homogenous vowel, retain their original forms; and if the vowel is long, it is shortened. Thus दधि अत्र, मधु अत्र, कुमारि अत्र, किशोरि अत्र ॥ In the alternative we have दध्यत्र, मध्वत्र, कुमार्यत्र, किशोर्यत्र ॥ Why do we say ‘the इक् vowels i.e. simple vowels with the exception of अ’? Observe खट्वेन्द्रः ॥ Why do we say ‘followed by a non-homogenous vowel’? Observe कुमारीन्द्रः ॥ The name of Sakalya is mentioned for the sake of respect. Because the alternative nature of this sutra is clear from its very formation.
Vart:- This rule of Sakalya is prohibited in the case of words formed by an affix having an indicatory स् and of words which form invariable compounds (nitya samasa):- Thus अयं ते योनिर्ऋत्वियः, प्रज्ञां विदाम ऋत्वियाम् The word ऋत्विय is formed by a सित् affix, namely by घस् (5.1.106), added to ऋतु; and therefore the उ is changed to व ॥ Before a सित् affix the previous word is considered a pada (1.4.16) Of nitya-compounds are वैयाकरणः, सौवश्वः, व्याकरणं, कुमार्यर्थम् which are so by (2.2.18) &c. Vart:- In the Vedas ईषा अक्षः &c are found uncombined. As, इषा अक्षा, का ईमिरे पिशंगिला, यथा अङ्गदः, पथा अगमन् &c.
Bhashya¶
इकोऽसवर्णे शाकल्यस्य ह्रस्वश्च ( 2564) (चकारप्रत्याख्यानभाष्यम्) किमर्थश्चकारः ? प्रकृत्येत्येतदनुकृष्यते । किं प्रयोजनम् ? स्वरसन्धिर्मा भूदिति ॥ नैतदस्ति प्रयोजनम् । ह्रस्ववचनसार्मथ्यान्न भविष्यति ॥ भवेत् - दीर्घाणां ह्रस्ववचनसार्मथ्यात्स्वरसन्धिर्न स्यात्, ह्रस्वानां तु खलु स्वरसन्धिः प्राप्नोति । ह्रस्वानामपि ह्रस्ववचनसार्मथ्यात्स्वरसन्धिर्न भविष्यति । न ह्रस्वानां ह्रस्वाः प्राप्नुवन्ति । न हि भुक्तवान् पुनर्भुङ्क्ते, न वा कृतश्मश्रुः पुनः श्मश्रूणि कारयति । ननु च पुनः प्रवृत्तिरपि दृष्टा । भुक्तवानपि पुनर्भुङ्क्ते, कृतश्मश्रुरपि पुनः श्मश्रूणि कारयति । सार्मथ्यात्तत्र पुनः प्रवृत्तिर्भवति - भोजनविशेषात्, शिल्पिविशेषाद्वा । ह्रस्वानां पुनर्ह्रस्ववचने न किंचित् प्रयोजनमस्ति । अकृतकारि खल्वपि शास्त्रमग्निवत् । तद्यथा - अग्निर्यददग्धं तद्दहति ॥ ह्रस्वानामपि ह्रस्ववचन एतत् प्रयोजनम् - स्वरसन्धिर्मा भूदिति । कृतकारि खल्वपि शास्त्रं पर्जन्यवत् । तद्यथा - पर्जन्यो यावदूनं पूर्णं च सर्वमभिवर्षति ॥ इदं तर्हि प्रयोजनम् - प्लुतप्रगृह्या अनुकृष्यन्ते । इकोऽसवर्णे शाकल्यस्य ह्रस्वश्च प्लुतप्रगृह्याश्च प्रकृत्या । नित्यग्रहणस्याण्येतत् प्रयोजनमुक्तम् । अन्यतरच्छक्यमवक्तुम् ॥ (6231 प्रतिषेधोपसंख्यानवार्तिकम् ॥ 1 ॥) - सिन्नित्यसमासयोः शाकलप्रतिषेधः - सिन्नित्यसमासयोः शाकलप्रतिषेधो वक्तव्यः । अयं ते योनिर्ऋत्वियः, प्रजां विदाम ऋत्वियाम्, वैयाकरणः, सौवश्वः ॥ (वार्तिकस्थनित्यग्रहणप्रत्याख्यानभाष्यम्) नित्यग्रहणेन नार्थः । सित्समासयोः शाकलं न भवतीत्येव । इदमपि सिद्धं भवति - वाप्यामश्वो वाप्यश्वः, नद्यामातिर्नद्यातिः ॥ (6232 उपसंख्यानवार्तिकम् ॥ 2 ॥) - इर्षा अक्षादिषु छन्दसि प्रकृतिभावमात्रम् - इर्षा अक्षादिषु च छन्दसि प्रकृतिभावमात्रं द्रष्टव्यम् । इर्षा अक्षः, का इर्मिरे पिशङि्गला, यथा अङ्गदः ॥
Kashika¶
इकोऽसवर्णेऽचि परतः शाकल्यस्याचार्यस्य मतेन प्रकृत्या भवन्ति, ह्रस्वश्च तस्येकः स्थाने भवति। दधि अत्र, दध्यत्र। मधु अत्र, मध्वत्र। कुमारि अत्र, कुमार्यत्र। किशोरि अत्र, किशोर्यत्र। इक इति किम् ? खट्वेन्द्रः। असवर्ण इति किम् ? कुमारीन्द्रः। शाकल्यस्य ग्रहणं पूजार्थम्। आरम्भसामर्थ्यादेव हि यणादेशेन सह विकल्पः सिद्धः॥ सिन्नित्यसमासयोः शाकलप्रतिषेधो वक्त व्यः॥ सिति — अ॒यं ते॒ योनि॑॑र्ऋ॒त्वियः॒ (ऋ॰ ३.२९.१०)। नित्यसमासे — व्याकरणम्। कुमार्यर्थम्॥ ईषाअक्षादिषु छन्दसि प्रकृतिभावमात्रं वक्त व्यर्म्॥ इ॒षा अक्षा॑े॑ हिर॒ण्ययः॑ (ऋ० ८.५.२९)। का ई॑मरे पिशङ्गि॒ला (मा॰ सं॰ २३.५५)। पथा अगमन्॥
Siddhanta Kaumudi¶
पदान्ता इकोऽसवर्णेऽचि परे प्रकृत्या स्युर्ह्रस्वश्च वा । अत्र ह्रस्वविधिसामर्थ्यादेव प्रकृतिभावे सिद्धे तदनुकर्षणार्थश्चकारोन कर्तव्यः इति भाष्ये स्थितम् । चक्रि अत्र । चक्र्यत्र । पदान्ताः इति किम् । गौर्यौ ।<!न समासे !> (वार्तिकम्) ॥ वाप्यश्वः ।<!सिति च !> (वार्तिकम्) ॥ पार्श्वम् ॥
Laghu Siddhanta Kaumudi¶
पदान्ता इको ह्रस्वा वा स्युरसवर्णेऽचि। ह्रस्वविधिसामर्थ्यान्न स्वरसन्धिः। चक्रि अत्र, चक्र्यत्र। पदान्ता इति किम्? गौर्यौ -
Balamanorama¶
इकोऽसवर्णे शाकल्यस्य ह्रस्वश्च - भाष्यकारमतमाह — अत्र ह्रस्वेति । अत्र चकारो न कर्तव्यः, प्रकृत्येत्यनुकर्षस्य व्यर्थत्वात् । नच विहितस्य ह्रस्वस्य यण्निवृत्त्यर्थः स इति वाच्यं, ह्रस्वविधिसामर्थ्यादेव यणो निवृत्तिसिद्धेः । अन्यथा यणमेव विदध्यात् । अतः प्रकृत्येत्यनुकर्षणार्थश्चकारो न कर्तव्य इति भाष्ये स्थितमित्यर्थः । चक्रि-अत्रेति ह्रस्वमनुच्चितप्रकृतिभावपक्षे रूपम् । तदभावपक्षे तु यणि चक्र्यत्रेति रूपम् । नचात्र ककारस्यस्कोः संयोगाद्यो॑रिति लोपः शङ्क्यः,अचः परस्मि॑न्निति यणः स्थानिवत्त्वेनाऽच्त्वेन पदान्तसंयोगाऽभावात् । नचपूर्वत्रासिद्धे न स्थानिव॑दिति तन्निषेधः शङ्क्यः,तस्य दोषः संयोगादिलोपलत्वणत्वे॑ष्विति वचनात् । न समासे । वार्तिकमेतत् । समासे उक्तशाकलविधिर्न भवतीत्यर्थः । वाप्यआ इति । वाप्यामआ इति विग्रहः । शौण्डादेराकृतिगणत्वात्सुप्सुपेति वा समासः ।सिति च । सकार इद्यस्य स सित्, तस्मिन् परे उक्तः शाकलविधिर्न भवतीत्यर्थः । पार्ामिति । पर्शु=पार्ाआस्थि । पर्शूनां समूहः पार्ाम् ।पर्ाआ णस् वक्तव्यः॑ इति णस् । आदिवृद्धिः । यणादेशः । अत्र पार्शु-अ इति स्थिते उक्तः शाकलो विधिर्न भवति । ओर्गुणस्तु न, भस्यैव तद्विधानात्,सिति चे॑ति पदत्वेन भत्वबाधात् ।अचो ञ्णिती॑ति वृद्धिरपि न भवति, आदिवृद्ध्या तद्बाधात् । तथाच मूलकारो वक्ष्यति-॒आदिवृद्धिरन्त्योपधावृद्धी बाधते॑ इति । अत्र सिन्नित्यसमासयोः शाकलप्रतिषेधः॑ इति वार्तिकं, तदिह द्विधा विभज्य व्याख्यातम् । नचैव सति वोप्यआ इत्यत्र कथं शाकलप्रतिषेधः, तत्र समासस्य वैकल्पिकत्वादिति वाच्यम्, भाष्ये नित्यग्रहणस्य प्रत्याख्यातत्वात् ।
Padamanjari¶
किमर्थश्चकारः, प्रकृत्येत्येतदनुकृष्यतेऽनेन ? ननु च ह्रस्वविधानसामर्थ्यादेव स्वरसन्धिर्न भविष्यति ? भवेद्दीर्घाणां ह्रस्ववचनसामर्थ्यादेव स्वरसन्धिर्न स्यादिति ह्रस्वानां तु प्राप्नोति। न हि ह्रस्वानां ह्रस्वो भवति; प्रयोजनाभावात्। अस्ति प्रयोजनम् -स्वरसन्धिर्मा भूदिति? इदं तर्हि प्रयोजनम् - प्रकृतिभावमात्रं क्वचिद्यथा स्यादिति, तेनेषा अक्षादिषु च्छन्दसि प्रकृतिभावमात्रं सिद्धं भवति। शाकल्यग्रहणं पूजार्थमिति। अथ विकल्पार्थं कस्मान्न भवति? इत्याह -आरम्भसामर्थ्यादेवेति। सवर्णेऽचि दीर्घविधानाद्यणादेशस्यासवर्ण एवाज्विषयः, अस्यापि विधेः स एव विषयः, ततश्च विषयैक्यादेव विकल्पे सिद्धे न तदर्थक माचार्यग्रहणम् । सिन्नित्यसमासयोरिति। नित्याधिकारविहितोऽस्वपदविग्रहश्च समासो नित्यसमासः, एकापि सप्तमी विषयभेदाद्भिद्यते, सिति परतो नित्यसमासे च विषय इति, शाक्ल्यस्यायां विधिः शाकलः,’कण्वादिभ्यो गोत्रे’ इत्यण्। ऋत्विय इति। ऋतुरस्य प्राप्त इति ठृतोरण्ऽ,’च्छन्दसि घस्’ । व्याकरणमिति।’कुगतिप्रादय’ इति समासः, तत्र’नित्यम्’ इत्यनुवर्तते। कुमार्यथमिति। कुमार्यै इदं कुमार्यर्थम्, अस्वपदविग्रहोऽयं नित्यसमासः ॥
Nyaas¶
ह्रस्वश्च तस्येकः स्थाने भवति इति। यद्येवम्, प्रकृत्या (6.1.111) इत्यस्यानुकर्षणार्थश्चकारो न कर्तव्यः, ह्रस्वविधानसामर्थ्यादेव हि स्वरसन्धिर्न भविष्यति? अत्रैतत्? स्यात् -दीर्घाणामेव ह्रस्वविधानसामर्थ्यात्? स्वरसन्धिर्न स्यात्। ह्रस्वानां तु स्यादेव, न हि तेषां ह्रस्वा भवन्ति। प्रयोजनाभावादित्येतच्च नास्ति; ह्रस्वानामपि हि स्वरसन्धिबाधनार्थं ह्रस्वो भवत्येव। कृतकारि खल्विदं शास्त्रम्, पर्जन्यवत्; नाकृतकारि दहनवत्। एवं तर्हि चकारेणैतदाख्यायते -क्वचिद्? ईषा+अक्षादौ प्रकृतिभाव एव भवति, न ह्रस्वत्वमिति। तेन यदुक्तामीषा अक्षादौ प्रकृतभावमात्रमिति, तन्न वक्तव्यं भवति। यणादेशेन सह विकल्पार्थं शाकल्यग्रहणं कस्मान्न भवति? इत्याह -आरम्भसामर्थ्यादेव हि इत्यादि। यणादेशस्य ह्रसवर्ण एवाज्विषयः; सवर्णे तु अकः सवर्णे दीर्घः (6.1.101) इति दीर्घविधानात्। अयमपि च शाकलो ह्रस्वो विधीयते। अत एवास्मिन्? विषय आरम्भसामर्थ्यादेवास्य विधेर्यणादेशेन सह विकल्पः सिद्ध इति न तदर्थमाचार्यग्रहणम्। सिन्नित्यसमासयोः इत्यादि। एकापि सप्तमी द्विधा भिद्यते; अपेक्षाभेदात्। सिदपेक्षया परसप्तमी, नित्ससमासापेक्षया विषयसप्तमी। सिच्च नित्यसमासश्चेति द्वन्द्वः -स इद्यस्य स सित्। नित्याधिकारे विहितः समासो नित्यसमासः। शाकल्यस्यायं विधिः शाकलः -कण्वादिभ्यो गोत्रे (4.2.111) इत्यण्? यस्येति च (6.4.148) इत्यकारलोपः, आपत्यस्य च तद्धितेऽनाति (6.4.151) इति यकारलोपः। शाकलस्य प्रतिषेधः शाकलप्रतिषेधः। वक्तव्य इति। व्याख्येय इत्यर्थः। तत्रेदं व्याख्यानम्, सर्वत्र विभाषा गोः (6.1.122) इत्यतो विभाषाग्रहणमनुवर्तते, सा च व्यवस्थितविभाषा विज्ञायते। तेन सिन्नित्यसमासयोः शाकलप्रतिषेधो भविष्यति। ऋत्वियः इति। ऋतुः प्राप्तोऽस्येति ऋतोरण् (5.1.104) छन्दसि घस् (5.1.106) इति घस्। व्याकरणम् इति। कुगतिप्रादयः (2.2.18) इति समासः। अत्र हि नित्यं क्रीडाजीविकयोः (2.2.17) इत्यतो नित्यग्रहणानुवृत्तेर्नितयसमासोऽयम्। कुमार्यर्थम इति। कुमार्या इदं कुमार्यर्थमिति। अर्थशब्देन सह समासवचनं सर्वलिङ्गता च` (वा।78) इत्ययमपि नित्यसमास एव। सर्वत्र शाकलविधौ प्रतिषिद्धे यणादेशो भवत्येव॥
Praudhamanorama¶
चक्र्यत्रेति। इह स्कोः— (8.2.29) इति कलोपो न। यणः कार्यकालपक्षे बहिरङ्गपरिभाषयाऽसिद्धत्वात्, स्थानिवद्भावाच्च। ‘पूर्वत्रासिद्धीये न—’ इति तु नास्ति, ‘तस्य दोषः संयोगादिलोप—’ इत्याद्युक्तेः॥
Prakriyasarvasvam¶
शाकल्यमतेऽसवर्णेऽचि परे इकः प्रकृतिभावे दीर्घेकां ह्रस्वश्च स्यात् । तेन वा सन्ध्यभावः सुधीशब्दस्य ह्रस्वश्च । सुधि अर्च्यः । मधु अरिः । पितृ उक्त्या । गम्लु आह । ‘नित्यसमासेऽयं प्रकृतिभावो नेति वांच्यम्’ । सुध्यर्थम् । अभ्यस्तम् । अर्थेन प्रादीनां च नित्यसमासो वक्ष्यते । हरि अर्चा । बहु इष्टा इत्यत्र प्राग्वद् यण् । हर् य अर्चा । बह् व् इष्टा ।
Sarala¶
एङः पदान्तादति (६.१.१०९) इत्यतः “पदान्तात्” इति विभक्तिविपरिणतम्, प्लुतप्रगृह्या अचि नित्यम् (६.१.१२५) इत्यतः “अचि” इति चानुवर्तते । अत आह - अचीति । ह्रस्वोत्तरमपि यदि यण् स्यात् तर्हि ह्रस्वविधानमेव व्यर्थं स्यादिति भावः ॥
Sudha¶
चक्रि अत्रेति । “चक्रि-अत्र” इत्यत्र इकोऽसवर्णे शाकल्यस्य ह्रस्वश्च (6.1.127) इत्यनेन विकल्पेन ह्रस्वे कृते “चक्रि अत्र” इति भवति । तदभावे च इको यणचि (6.1.77) इत्यनेन यणि “चक्र्यत्र” इति जायते ॥ पदान्ता इति किमिति । ** पदान्ता इति यदि आचार्या न अपठिष्यन् तदा “गौरी-औ” इत्यत्रापि **इकोऽसवर्णे शाकल्यस्य ह्रस्वश्च (6.1.127) इत्यनेन ह्रस्वसमुच्चितप्रकृतिभावोऽभविष्यत्, तन्निवारणाय “पदान्ता” इत्युक्तम् । अत्र पदान्ताभावात् न ह्रस्वत्वं, किन्तु इको यणचि (6.1.77) इत्यनेन यणि अचो रहाभ्यां द्वे (8.4.46) इत्यनेन विकल्पेन य-द्वित्वे “गौर्यौ” इति । पक्षे द्वित्वाभावे “गौर्यौ” इति ।
Vartika¶
न समासे ।