61127: इकोऽसवर्णे शाकल्यस्य ह्रस्वश्च ===================================== **Padacheda:** इकः | S | 6 | 1 | असवर्णे | S | 7 | 1 | शाकल्यस्य | S | 6 | 1 | ह्रस्वः | S | 1 | 1 | च | S | 0 | 0 | Sutrartha --------- **पदान्त-इक्-वर्णस्य असवर्णे अचि परे संहितायाम् शाकल्यस्य मतेन ह्रस्वादेशः भवति, तदनन्तरं च सन्धिकार्यं न भवति ।** पदस्य अन्ते विद्यमानस्य इक्-वर्णस्य असवर्णे अच्-वर्णे परे **इको यणचि** (6.1.77) इत्यनेन यणादेशे प्राप्ते; तद्बाधित्वा शाकल्यस्य मतेन (इत्युक्ते, विकल्पेन) ह्रस्वादेशः, प्रकृतिभावः च भवति । यथा - "चक्री अत्र" इत्यत्र प्रकृतसूत्रेण ह्रस्वादेशं प्रकृतिभावम् च कृत्वा "चक्रि अत्र" इति सिद्ध्यति । अत्र पुनः अग्रे यणादेशः न भवति । पक्षे, "चक्री अत्र" इत्यत्रैव **इको यणचि** (6.1.77) इत्यनेन यणादेशे कृते "चक्र्यत्र" इत्यपि रूपं सिद्ध्यति । **दलकृत्यम्** **1. पदान्तस्य इति किमर्थम् ? ** यत्र अपदान्तः इक्-वर्णः अस्ति तत्र अस्य सूत्रस्य प्रसक्तिः न विद्यते । यथा, "नदी + औ → नद्यौ"इत्यत्र नदीशब्दस्य पदसंज्ञायाः अभावे ह्रस्वादेशः अपि न भवति, केवलम् यणादेशं कृत्वा रूपं सिद्ध्यति । **2. असवर्णे इति किमर्थम् ? ** पदान्त-इक्-वर्णात् सवर्णे इक्-वर्णे परे प्रकृतसूत्रं नैव प्रवर्तते । यथा, "नदी + इयम् → नदीयम्" इत्यत्र केवलं सवर्णदीर्घं कृत्वा रूपं सिद्ध्यति । **3. ह्रस्वश्च इत्यत्र चकारः किमर्थम् ? ** ह्रस्वादेशः भवति, ततः प्रकृतिभावः अपि भवति इति दर्शयितुम् अत्र सूत्रे चकारः स्थापितः अस्ति । वस्तुतस्तु अत्ह्रर स्वादेशसामर्थ्याद् एव प्रकृतिभावः अपि सिद्ध्यति, यतः ह्रस्वादेशात् अनन्तरम् यणादेशः क्रियते चेत् ह्रस्वादेशः व्यर्थः एव स्यात् । अतः ह्रस्वादेशेनैव प्रकृतिभावे अपि सिद्धे चकारग्रहणम् अस्मिन् सूत्रे अनावश्यकम् । **4. शाकल्यग्रहणम् विकल्पार्थम् उत पूजार्थम् ? ** इक्-वर्णात् असवर्णे अच्-वर्णे परे **इको यणचि** (6.1.77) इत्यनेन यणादेशे प्राप्ते; प्रकृतसूत्रेण पदान्त-इक्-वर्णस्य विषये ह्रस्वादेशः उच्यते । अतः अस्मिन् सूत्रे यदि शाकल्यग्रहणम् नैव क्रियते, तर्हि अत्र इदं सूत्रम् पदान्त-इक्-वर्णस्य विषये **इको यणचि** (6.1.77) इति सूत्रम् नित्यं बाधेत । तादृशं मा भूत् अतः अस्मिन् सूत्रे शाकल्यग्रहणम् कृतम् अस्ति । शाकल्यमुनेः नाम उक्त्वा 'तन्मतेन' (इत्युक्ते विकल्पेन) इदं सूत्रं प्रवर्तते, इति पाणिनेः आशयः । पूजार्थम् (to show respect / to give credit) ग्रहणम् कृतम् अस्ति इत्यत्र तु नैव कश्चन संदेहः । परन्तु विकल्पार्थम् अपि कृतम् अस्ति इति विशेषः । काशिकायाम् अत्र — **शाकल्यस्य ग्रहणं पूजार्थम्, आरम्भसामर्थ्यादेव हि यणादेशेन सह विकल्पः सिद्धः** — इति उच्यते । एतत् तु चिन्त्यमेव, यतः यणादेशः अपदान्त-इक्-वर्णस्य विषये चारितार्थ्यं प्राप्य पदान्त-इक्-वर्णस्य विषये अवश्यं बाधं स्वीकुर्यात् । **बाध्यबाधकभावः** **प्लुतप्रगृह्या अचि नित्यम्** (6.1.125) इति सूत्रेण प्रकृतसूत्रम् नित्यम् बाध्यते । इत्युक्ते, यत्र **प्लुतप्रगृह्या अचि नित्यम्** (6.1.125) इत्यस्य प्रसक्तिः अस्ति तत्र प्रकृतसूत्रम् नैव प्रवर्तते । अतएव "मुनी एतौ" इत्यत्र प्रकृतसूत्रेण ह्रस्वादेशः न भवति, अपि च **प्लुतप्रगृह्या अचि नित्यम्** (6.1.125) इत्यनेन नित्यम् प्रकृतिभावः एव विधीयते । **वार्त्तिकद्वयम्** **** सित्-प्रत्यये परे, तथा च समासे प्रकृतसूत्रस्य प्रयोगः न भवति —‌ इति अस्य वार्त्तिकस्य अर्थः । यद्यपि अत्र वार्त्तिके 'नित्यसमास' इति निर्देशः कृतः अस्ति, तथापि सः अंशः भाष्यकारेण प्रत्याख्यातः अस्ति । नित्येषु अनित्येषु च समासेषु प्रकृतसूत्रस्य प्रयोगः नैव भवति, इति अत्र भाष्यकारस्य आशयः वर्तते। क्रमेण उदाहरणे एते — 1.1) ** सित्-प्रत्यये परे प्रकृतसूत्रस्य निषेधः ** — यस्याः प्रकृतेः सित्-प्रत्ययः विधीयते, तस्याः **सिति च** (1.4.16) इति सूत्रेण पदसंज्ञा भवति । अतः एतादृशः सित्-प्रत्ययः यदि अजादिः अस्ति, तर्हि तत्र प्रकृतसूत्रेण विकल्पेन ह्रस्वादेशः प्रकृतिभावश्च प्राप्नोति । अस्य ह्रस्वादेशस्य, प्रकृतिभावस्य च निषेधं कर्तुम् इदं वार्त्तिकम् पाठ्यते । सित्-प्रत्यये परे प्रकृतसूत्रस्य प्रयोगः न भवति, इति अस्य वार्त्तिकस्य आशयः । अस्य द्वे उदाहरणे एतादृशे — i) **ब्राह्मणमाणववाडवाद्यन्** (4.2.42) अस्मिन् सूत्रे पाठितेन इति वार्त्तिकेन "पर्शु"-शब्दात् णस्-प्रत्ययः भवति । अयम् सित्-प्रत्ययः अस्ति, अयम् अजादिः अपि अस्ति, अतः अस्मिन् प्रत्यये परे प्रकृतसूत्रेण प्राप्तः वैकल्पिकः ह्रस्वादेशः प्रकृतिभावश्च इति वार्त्तिकेन निषिध्यते । प्रक्रिया इयम् — .. code-block:: text पर्शूनां समूहः = पर्शु + णस् [ इति वार्त्तिकेन पर्शु-शब्दात् णस्-प्रत्ययः] → पर्शु + अ [इत्संज्ञालोपः । अत्र सकारस्यापि इत्संज्ञा अस्तीति स्मर्तव्यम् ] → पार्शु + अ [**तद्धितेष्वचामादेः** (7.2.117) इति आदिवृद्धिः । ] → पार्श्व [**सिति च** (1.4.16) इत्यनेन प्रकृतेः पदसंज्ञायां सत्याम् पदान्त-उकारस्य अच्-वर्णे परे प्रकृतसूत्रेण निर्दिष्टः ह्रस्वादेशः प्रकृतिभावः च अनेन वार्त्तिकेन निषिध्यते । अतः अत्र **इको यणचि** इति यणादेशं कृत्वा रूपं सिद्ध्यति ।] ii) 'ऋतु' शब्दात् वेदेषु 'अस्य प्राप्तम्' अस्मिन् अर्थे **छन्दसि घस्** (5.1.106) इति सूत्रेण घस्-प्रत्ययः कृतः दृश्यते । अस्मिन् प्रत्यये सकारस्य इत्संज्ञा भवति । अयम् प्रत्ययः अजादिः अस्ति, अतः अस्मिन् प्रत्यये परे प्रकृतसूत्रेण प्राप्तः वैकल्पिकः ह्रस्वादेशः प्रकृतिभावश्च इति वार्त्तिकेन निषिध्यते । प्रक्रिया इयम् — .. code-block:: text ऋतुः अस्य प्राप्तः ऋतु + घस् [**छन्दसि घस्** (5.1.106) इति घस्]] → ऋतु + इय [**आयनेयीनीयीयः फढखच्छघां प्रत्ययादीनाम्** (7.1.2) इति इय-आदेशः] → ऋत्विय [**सिति च** (1.4.16) इत्यनेन प्रकृतेः पदसंज्ञायां सत्याम् पदान्त-उकारस्य अच्-वर्णे परे प्रकृतसूत्रेण निर्दिष्टः ह्रस्वादेशः प्रकृतिभावः च अनेन वार्त्तिकेन निषिध्यते । अतः अत्र **इको यणचि** इति यणादेशं कृत्वा रूपं सिद्ध्यति ।] 1.2) ** समासे प्रकृतसूत्रस्य निषेधः ** — यत्र समस्तपदस्य पूर्वपदम् इगन्तम् अस्ति, उत्तरपदस्य आदौ च असवर्णः स्वरः विद्यते, तत्र प्रकृतसूत्रेण ह्रस्वादेशे, प्रकृतिभावे च प्राप्ते अनेन वार्त्तिकेन सः निषिध्यते । अस्य कानिचन उदाहरणानि अधः दत्तानि सन्ति । तत्र आदिस्थे द्वे उदाहरणे नित्यसमासस्य विषये स्तः, अग्रिमे द्वे उदाहरणे अनित्यसमास्य विषये स्तः । i) व्याक्रियते अनेन इति → वि + आ + कृ + ल्युट् → वि + आ + कृ + अन → व्याकरण । अत्र कृ-धातोः ऋकारस्य अकारे परे प्रकृतिभावः न भवति । ii) कुमार्यै इति →‌ कुमारी + अर्थम् → कुमार्यर्थम् । अत्र ईकारस्य अकारे परे ह्रस्वः प्रकृतिभावः च न भवति । iii) वाप्याम् अश्वः →‌ वापी + अश्वः → वाप्यश्वः । अत्र ईकारस्य अकारे परे ह्रस्वः प्रकृतिभावः च न भवति । iv) नद्याम् आतिः →‌ नदी + आतिः → नद्यातिः । अत्र ईकारस्य आकारे परे ह्रस्वः प्रकृतिभावः च न भवति । **** सिद्धान्तकौमुद्याम् इदं वार्त्तिकम् **आङोऽनुनासिकश्छन्दसि** (6.1.126) इत्यत्र पाठितम् अस्ति । वेदेषु — "ईशा अक्ष", "का ईर्मिरे", "यथा अङ्गदः", "पथा अगमन्", "ज्या इयम्", "पूषा अविष्टु" —एतादृशेषु केषुचित् प्रयोगेषु संहितायाम् सत्याम् अपि प्रकृतिभावः कृतः दृश्यते । एतेषाम् सर्वेषाम् शब्दानाम् साधुत्वार्थम् वार्त्तिककारेण इदं वार्त्तिकम् पाठितम् अस्ति । एतेषु सर्वेषु शब्देषु ह्रस्वादेशः न भवति परन्तु प्रकृतिभावः अवश्यं भवति, इति अस्य वार्त्तिकस्य अर्थः । Sutrartha (English) ------------------- According to शाकल्य, In the context of संहिता a पदान्त-इक्-letter, when followed by an असवर्ण अच्-letter undergoes ह्रस्वादेशः and then no other sandhi happens. Vasu English Summary -------------------- According to the opinion of शाकल्य , the simple vowels with the exception of अ , when followed by a non-homogenous vowel, retain their original forms; and if the vowel is long, it is shortened. Vasu English Translation ------------------------ According to the opinion of शाकल्य , the simple vowels with the exception of अ , when followed by a non-homogenous vowel, retain their original forms; and if the vowel is long, it is shortened. Thus दधि अत्र, मधु अत्र, कुमारि अत्र, किशोरि अत्र ॥ In the alternative we have दध्यत्र, मध्वत्र, कुमार्यत्र, किशोर्यत्र ॥ Why do we say 'the इक् vowels i.e. simple vowels with the exception of अ'? Observe खट्वेन्द्रः ॥ Why do we say 'followed by a non-homogenous vowel'? Observe कुमारीन्द्रः ॥ The name of *Sakalya* is mentioned for the sake of respect. Because the alternative nature of this *sutra* is clear from its very formation. Vart:- This rule of *Sakalya* is prohibited in the case of words formed by an affix having an indicatory स् and of words which form invariable compounds (*nitya* *samasa*):- Thus अयं ते योनिर्ऋत्वियः, प्रज्ञां विदाम ऋत्वियाम् The word ऋत्विय is formed by a सित् affix, namely by घस् (5.1.106), added to ऋतु; and therefore the उ is changed to व ॥ Before a सित् affix the previous word is considered a *pada* (1.4.16) Of *nitya*-compounds are वैयाकरणः, सौवश्वः, व्याकरणं, कुमार्यर्थम् which are so by (2.2.18) &c. Vart:- In the Vedas ईषा अक्षः &c are found uncombined. As, इषा अक्षा, का ईमिरे पिशंगिला, यथा अङ्गदः, पथा अगमन् &c. Bhashya ------- इकोऽसवर्णे शाकल्यस्य ह्रस्वश्च ( 2564) (चकारप्रत्याख्यानभाष्यम्) किमर्थश्चकारः ? प्रकृत्येत्येतदनुकृष्यते । किं प्रयोजनम् ? स्वरसन्धिर्मा भूदिति ॥ नैतदस्ति प्रयोजनम् । ह्रस्ववचनसार्मथ्यान्न भविष्यति ॥ भवेत् - दीर्घाणां ह्रस्ववचनसार्मथ्यात्स्वरसन्धिर्न स्यात्, ह्रस्वानां तु खलु स्वरसन्धिः प्राप्नोति । ह्रस्वानामपि ह्रस्ववचनसार्मथ्यात्स्वरसन्धिर्न भविष्यति । न ह्रस्वानां ह्रस्वाः प्राप्नुवन्ति । न हि भुक्तवान् पुनर्भुङ्क्ते, न वा कृतश्मश्रुः पुनः श्मश्रूणि कारयति । ननु च पुनः प्रवृत्तिरपि दृष्टा । भुक्तवानपि पुनर्भुङ्क्ते, कृतश्मश्रुरपि पुनः श्मश्रूणि कारयति । सार्मथ्यात्तत्र पुनः प्रवृत्तिर्भवति - भोजनविशेषात्, शिल्पिविशेषाद्वा । ह्रस्वानां पुनर्ह्रस्ववचने न किंचित् प्रयोजनमस्ति । अकृतकारि खल्वपि शास्त्रमग्निवत् । तद्यथा - अग्निर्यददग्धं तद्दहति ॥ ह्रस्वानामपि ह्रस्ववचन एतत् प्रयोजनम् - स्वरसन्धिर्मा भूदिति । कृतकारि खल्वपि शास्त्रं पर्जन्यवत् । तद्यथा - पर्जन्यो यावदूनं पूर्णं च सर्वमभिवर्षति ॥ इदं तर्हि प्रयोजनम् - प्लुतप्रगृह्या अनुकृष्यन्ते । इकोऽसवर्णे शाकल्यस्य ह्रस्वश्च प्लुतप्रगृह्याश्च प्रकृत्या । नित्यग्रहणस्याण्येतत् प्रयोजनमुक्तम् । अन्यतरच्छक्यमवक्तुम् ॥ (6231 प्रतिषेधोपसंख्यानवार्तिकम् ॥ 1 ॥) - सिन्नित्यसमासयोः शाकलप्रतिषेधः - सिन्नित्यसमासयोः शाकलप्रतिषेधो वक्तव्यः । अयं ते योनिर्ऋत्वियः, प्रजां विदाम ऋत्वियाम्, वैयाकरणः, सौवश्वः ॥ (वार्तिकस्थनित्यग्रहणप्रत्याख्यानभाष्यम्) नित्यग्रहणेन नार्थः । सित्समासयोः शाकलं न भवतीत्येव । इदमपि सिद्धं भवति - वाप्यामश्वो वाप्यश्वः, नद्यामातिर्नद्यातिः ॥ (6232 उपसंख्यानवार्तिकम् ॥ 2 ॥) - इर्षा अक्षादिषु छन्दसि प्रकृतिभावमात्रम् - इर्षा अक्षादिषु च छन्दसि प्रकृतिभावमात्रं द्रष्टव्यम् । इर्षा अक्षः, का इर्मिरे पिशङि्गला, यथा अङ्गदः ॥ Kashika ------- इकोऽसवर्णेऽचि परतः शाकल्यस्याचार्यस्य मतेन प्रकृत्या भवन्ति, ह्रस्वश्च तस्येकः स्थाने भवति। दधि अत्र, दध्यत्र। मधु अत्र, मध्वत्र। कुमारि अत्र, कुमार्यत्र। किशोरि अत्र, किशोर्यत्र। इक इति किम् ? खट्वेन्द्रः। असवर्ण इति किम् ? कुमारीन्द्रः। शाकल्यस्य ग्रहणं पूजार्थम्। आरम्भसामर्थ्यादेव हि यणादेशेन सह विकल्पः सिद्धः॥ सिन्नित्यसमासयोः शाकलप्रतिषेधो वक्त व्यः॥ सिति — अ॒यं ते॒ योनि॑॑र्ऋ॒त्वियः॒ (ऋ॰ ३.२९.१०)। नित्यसमासे — व्याकरणम्। कुमार्यर्थम्॥ ईषाअक्षादिषु छन्दसि प्रकृतिभावमात्रं वक्त व्यर्म्॥ इ॒षा अक्षा॑े॑ हिर॒ण्ययः॑ (ऋ० ८.५.२९)। का ई॑मरे पिशङ्गि॒ला (मा॰ सं॰ २३.५५)। पथा अगमन्॥ Siddhanta Kaumudi ----------------- पदान्ता इकोऽसवर्णेऽचि परे प्रकृत्या स्युर्ह्रस्वश्च वा । अत्र ह्रस्वविधिसामर्थ्यादेव प्रकृतिभावे सिद्धे तदनुकर्षणार्थश्चकारोन कर्तव्यः इति भाष्ये स्थितम् । चक्रि अत्र । चक्र्यत्र । पदान्ताः इति किम् । गौर्यौ । (वार्तिकम्) ॥ वाप्यश्वः । (वार्तिकम्) ॥ पार्श्वम् ॥ Laghu Siddhanta Kaumudi ----------------------- पदान्ता इको ह्रस्वा वा स्युरसवर्णेऽचि। ह्रस्वविधिसामर्थ्यान्न स्वरसन्धिः। चक्रि अत्र, चक्र्यत्र। पदान्ता इति किम्? गौर्यौ - Balamanorama ------------ **इकोऽसवर्णे शाकल्यस्य ह्रस्वश्च** - भाष्यकारमतमाह — अत्र ह्रस्वेति । अत्र चकारो न कर्तव्यः, प्रकृत्येत्यनुकर्षस्य व्यर्थत्वात् । नच विहितस्य ह्रस्वस्य यण्निवृत्त्यर्थः स इति वाच्यं, ह्रस्वविधिसामर्थ्यादेव यणो निवृत्तिसिद्धेः । अन्यथा यणमेव विदध्यात् । अतः प्रकृत्येत्यनुकर्षणार्थश्चकारो न कर्तव्य इति भाष्ये स्थितमित्यर्थः । चक्रि-अत्रेति ह्रस्वमनुच्चितप्रकृतिभावपक्षे रूपम् । तदभावपक्षे तु यणि चक्र्यत्रेति रूपम् । नचात्र ककारस्यस्कोः संयोगाद्यो॑रिति लोपः शङ्क्यः,अचः परस्मि॑न्निति यणः स्थानिवत्त्वेनाऽच्त्वेन पदान्तसंयोगाऽभावात् । नचपूर्वत्रासिद्धे न स्थानिव॑दिति तन्निषेधः शङ्क्यः,तस्य दोषः संयोगादिलोपलत्वणत्वे॑ष्विति वचनात् । न समासे । वार्तिकमेतत् । समासे उक्तशाकलविधिर्न भवतीत्यर्थः । वाप्यआ इति । वाप्यामआ इति विग्रहः । शौण्डादेराकृतिगणत्वात्सुप्सुपेति वा समासः ।सिति च । सकार इद्यस्य स सित्, तस्मिन् परे उक्तः शाकलविधिर्न भवतीत्यर्थः । पार्ामिति । पर्शु=पार्ाआस्थि । पर्शूनां समूहः पार्ाम् ।पर्ाआ णस् वक्तव्यः॑ इति णस् । आदिवृद्धिः । यणादेशः । अत्र पार्शु-अ इति स्थिते उक्तः शाकलो विधिर्न भवति । ओर्गुणस्तु न, भस्यैव तद्विधानात्,सिति चे॑ति पदत्वेन भत्वबाधात् ।अचो ञ्णिती॑ति वृद्धिरपि न भवति, आदिवृद्ध्या तद्बाधात् । तथाच मूलकारो वक्ष्यति-॒आदिवृद्धिरन्त्योपधावृद्धी बाधते॑ इति । अत्र सिन्नित्यसमासयोः शाकलप्रतिषेधः॑ इति वार्तिकं, तदिह द्विधा विभज्य व्याख्यातम् । नचैव सति वोप्यआ इत्यत्र कथं शाकलप्रतिषेधः, तत्र समासस्य वैकल्पिकत्वादिति वाच्यम्, भाष्ये नित्यग्रहणस्य प्रत्याख्यातत्वात् । Padamanjari ----------- किमर्थश्चकारः, प्रकृत्येत्येतदनुकृष्यतेऽनेन ? ननु च ह्रस्वविधानसामर्थ्यादेव स्वरसन्धिर्न भविष्यति ? भवेद्दीर्घाणां ह्रस्ववचनसामर्थ्यादेव स्वरसन्धिर्न स्यादिति ह्रस्वानां तु प्राप्नोति। न हि ह्रस्वानां ह्रस्वो भवति; प्रयोजनाभावात्। अस्ति प्रयोजनम् -स्वरसन्धिर्मा भूदिति? इदं तर्हि प्रयोजनम् - प्रकृतिभावमात्रं क्वचिद्यथा स्यादिति, तेनेषा अक्षादिषु च्छन्दसि प्रकृतिभावमात्रं सिद्धं भवति। शाकल्यग्रहणं पूजार्थमिति। अथ विकल्पार्थं कस्मान्न भवति? इत्याह -आरम्भसामर्थ्यादेवेति। सवर्णेऽचि दीर्घविधानाद्यणादेशस्यासवर्ण एवाज्विषयः, अस्यापि विधेः स एव विषयः, ततश्च विषयैक्यादेव विकल्पे सिद्धे न तदर्थक माचार्यग्रहणम् । सिन्नित्यसमासयोरिति। नित्याधिकारविहितोऽस्वपदविग्रहश्च समासो नित्यसमासः, एकापि सप्तमी विषयभेदाद्भिद्यते, सिति परतो नित्यसमासे च विषय इति, शाक्ल्यस्यायां विधिः शाकलः,'कण्वादिभ्यो गोत्रे' इत्यण्। ऋत्विय इति। ऋतुरस्य प्राप्त इति ठृतोरण्ऽ,'च्छन्दसि घस्' । व्याकरणमिति।'कुगतिप्रादय' इति समासः, तत्र'नित्यम्' इत्यनुवर्तते। कुमार्यथमिति। कुमार्यै इदं कुमार्यर्थम्, अस्वपदविग्रहोऽयं नित्यसमासः ॥ Nyaas ----- `ह्रस्वश्च तस्येकः स्थाने भवति` इति। यद्येवम्, `प्रकृत्या` (6.1.111) इत्यस्यानुकर्षणार्थश्चकारो न कर्तव्यः, ह्रस्वविधानसामर्थ्यादेव हि स्वरसन्धिर्न भविष्यति? अत्रैतत्? स्यात् -दीर्घाणामेव ह्रस्वविधानसामर्थ्यात्? स्वरसन्धिर्न स्यात्। ह्रस्वानां तु स्यादेव, न हि तेषां ह्रस्वा भवन्ति। प्रयोजनाभावादित्येतच्च नास्ति; ह्रस्वानामपि हि स्वरसन्धिबाधनार्थं ह्रस्वो भवत्येव। कृतकारि खल्विदं शास्त्रम्, पर्जन्यवत्; नाकृतकारि दहनवत्। एवं तर्हि चकारेणैतदाख्यायते -क्वचिद्? ईषा+अक्षादौ प्रकृतिभाव एव भवति, न ह्रस्वत्वमिति। तेन यदुक्तामीषा अक्षादौ प्रकृतभावमात्रमिति, तन्न वक्तव्यं भवति। यणादेशेन सह विकल्पार्थं शाकल्यग्रहणं कस्मान्न भवति? इत्याह -`आरम्भसामर्थ्यादेव हि` इत्यादि। यणादेशस्य ह्रसवर्ण एवाज्विषयः; सवर्णे तु **अकः सवर्णे दीर्घः** (6.1.101) इति दीर्घविधानात्। अयमपि च शाकलो ह्रस्वो विधीयते। अत एवास्मिन्? विषय आरम्भसामर्थ्यादेवास्य विधेर्यणादेशेन सह विकल्पः सिद्ध इति न तदर्थमाचार्यग्रहणम्। `सिन्नित्यसमासयोः` इत्यादि। एकापि सप्तमी द्विधा भिद्यते; अपेक्षाभेदात्। सिदपेक्षया परसप्तमी, नित्ससमासापेक्षया विषयसप्तमी। सिच्च नित्यसमासश्चेति द्वन्द्वः -स इद्यस्य स सित्। नित्याधिकारे विहितः समासो नित्यसमासः। शाकल्यस्यायं विधिः शाकलः -**कण्वादिभ्यो गोत्रे** (4.2.111) इत्यण्? **यस्येति च** (6.4.148) इत्यकारलोपः, **आपत्यस्य च तद्धितेऽनाति** (6.4.151) इति यकारलोपः। शाकलस्य प्रतिषेधः शाकलप्रतिषेधः। `वक्तव्य` इति। व्याख्येय इत्यर्थः। तत्रेदं व्याख्यानम्, **सर्वत्र विभाषा गोः** (6.1.122) इत्यतो विभाषाग्रहणमनुवर्तते, सा च व्यवस्थितविभाषा विज्ञायते। तेन सिन्नित्यसमासयोः शाकलप्रतिषेधो भविष्यति। `ऋत्वियः` इति। ऋतुः प्राप्तोऽस्येति `ऋतोरण्` (5.1.104) **छन्दसि घस्** (5.1.106) इति घस्। `व्याकरणम्` इति। **कुगतिप्रादयः** (2.2.18) इति समासः। अत्र हि **नित्यं क्रीडाजीविकयोः** (2.2.17) इत्यतो नित्यग्रहणानुवृत्तेर्नितयसमासोऽयम्। `कुमार्यर्थम` इति। कुमार्या इदं कुमार्यर्थमिति। `अर्थशब्देन सह` समासवचनं सर्वलिङ्गता च` (वा।78) इत्ययमपि नित्यसमास एव। सर्वत्र शाकलविधौ प्रतिषिद्धे यणादेशो भवत्येव॥ Praudhamanorama --------------- **चक्र्यत्रेति।** इह **स्कोः—** (8.2.29) इति कलोपो न। यणः कार्यकालपक्षे बहिरङ्गपरिभाषयाऽसिद्धत्वात्, स्थानिवद्भावाच्च। 'पूर्वत्रासिद्धीये न—' इति तु नास्ति, 'तस्य दोषः संयोगादिलोप—' इत्याद्युक्तेः॥ Prakriyasarvasvam ----------------- शाकल्यमतेऽसवर्णेऽचि परे इकः प्रकृतिभावे दीर्घेकां ह्रस्वश्च स्यात् । तेन वा सन्ध्यभावः सुधीशब्दस्य ह्रस्वश्च । सुधि अर्च्यः । मधु अरिः । पितृ उक्त्या । गम्लु आह । 'नित्यसमासेऽयं प्रकृतिभावो नेति वांच्यम्' । सुध्यर्थम् । अभ्यस्तम् । अर्थेन प्रादीनां च नित्यसमासो वक्ष्यते । हरि अर्चा । बहु इष्टा इत्यत्र प्राग्वद् यण् । हर् य अर्चा । बह् व् इष्टा । Sarala ------ **एङः पदान्तादति** (६.१.१०९) इत्यतः "पदान्तात्" इति विभक्तिविपरिणतम्, **प्लुतप्रगृह्या अचि नित्यम्** (६.१.१२५) इत्यतः "अचि" इति चानुवर्तते । अत आह - **अचीति** । ह्रस्वोत्तरमपि यदि यण् स्यात् तर्हि ह्रस्वविधानमेव व्यर्थं स्यादिति भावः ॥ Sudha ----- **चक्रि अत्रेति ।** "चक्रि-अत्र" इत्यत्र **इकोऽसवर्णे शाकल्यस्य ह्रस्वश्च** (6.1.127) इत्यनेन विकल्पेन ह्रस्वे कृते "चक्रि अत्र" इति भवति । तदभावे च **इको यणचि** (6.1.77) इत्यनेन यणि "चक्र्यत्र" इति जायते ॥ **पदान्ता इति किमिति । ** पदान्ता इति यदि आचार्या न अपठिष्यन् तदा "गौरी-औ" इत्यत्रापि **इकोऽसवर्णे शाकल्यस्य ह्रस्वश्च** (6.1.127) इत्यनेन ह्रस्वसमुच्चितप्रकृतिभावोऽभविष्यत्, तन्निवारणाय "पदान्ता" इत्युक्तम् । अत्र पदान्ताभावात् न ह्रस्वत्वं, किन्तु **इको यणचि** (6.1.77) इत्यनेन यणि **अचो रहाभ्यां द्वे** (8.4.46) इत्यनेन विकल्पेन य-द्वित्वे "गौर्यौ" इति । पक्षे द्वित्वाभावे "गौर्यौ" इति । Vartika ------- न समासे ।