61122: सर्वत्र विभाषा गोः¶
Padacheda: सर्वत्र | S | 0 | 0 |
विभाषा | S | 1 | 1 |
गोः | S | 6 | 1 |
Sutrartha¶
पदसंज्ञकस्य गो-शब्दस्य अन्ते विद्यमानस्य ओकारस्य ह्रस्व अकारे परे संहितायाम् लोके वेदे च विकल्पेन प्रकृतिभावः भवति ।
पदसंज्ञकस्य गो-शब्दस्य अन्ते विद्यमानस्य ओकारस्य ह्रस्व-अकारे परे एङः पदान्तादति (6.1.109) इत्यनेन नित्यम् पूर्वरूपैकादेशे प्राप्ते, प्रकृतसूत्रेण वैकल्पिकः प्रकृतिभावः (इत्युक्ते, अच्-सन्धेः अभावः) विधीयते । पक्षे (प्रकृतिभावस्य अभावे) एङः पदान्तादति (6.1.109) इत्यनेन पूर्वरूप-एकादेशः अपि भवति । यथा —
गोः अग्रम् [**षष्ठी** (2.2.8) इति समासः]
→ गो + अग्र [**कृत्तद्धितसमासाश्च** (1.2.46) इति प्रातिपदिकसंज्ञा । **सुपो धातुप्रातिपदिकयोः** (2.4.71) इति सुप्-प्रत्यययोः लुक् । समासे पूर्वपदस्य पदान्तत्वम् नैव विनश्यति अतः 'गो' इति शब्दः पदसंज्ञकः एव स्वीक्रियते ।]
→ गोग्रम्, गोअग्रम् [पदसंज्ञकस्य गो-शब्दस्य ओकारात् परः ह्रस्वः अकारः विद्यते, अतः ओकारस्य **सर्वत्र विभाषा गोः** (6.1.122) इति पाक्षिकः प्रकृतिभावः विधीयते । पक्षे **एङः पदान्तादति** (6.1.109) इति पूर्वरूपम् अपि भवति । ततः सुबुत्पत्तिं कृत्वा 'अग्रम्' इति शब्दः सिद्ध्यति । अत्र प्रक्रियायाः अन्ते सिद्धे गोऽग्रम् तथा गोअग्रम् इति द्वे अपि समस्तपदे एव स्तः इति ज्ञेयम् ।]
<br>अत्र प्रक्रियायाम् गो-शब्दस्य **अवङ् स्फोटायनस्य** (6.1.123) इत्यनेन वैकल्पिकः अवङ्-आदेशः अपि सम्भवति, अतः 'गवाग्रम्' इति अपि अन्यत् वैकल्पिकम् रूपम् जायते ।
<note>अस्मिन् सूत्रे अनुवृत्तिरूपेण ‘एङ्’ इति शब्दः स्वीक्रियते । यद्यपि एङ्-प्रत्याहारे एकार-ओकारौ स्तः, तथापि गो-शब्दस्य अन्ते एकारः नैव सम्भवति । अतः अत्र सूत्रार्थे ओकारस्यैव उदाहरणम् विद्यते ।</note>
दलकृत्यम्
1. सर्वत्र इति किमर्थम् ? **प्रकृतसूत्रात् पूर्वम् विद्यमानानि प्रकृतिभावप्रकरणे पाठितानि सर्वाणि अपि सूत्राणि (**प्रकृत्याऽन्तःपादमव्यपरे (6.1.115) इत्यतः अवपथासि च (6.1.121) इति यावन्ति सप्त सूत्राणि) केवलम् वैदिकप्रयोगानां विषये एव प्रवर्तन्ते । परन्तु इदं सूत्रम् वैदिकप्रयोगार्थम् लौकिकप्रयोगार्थम् च अपि पाठितम् अस्ति । अतः अस्मिन् सूत्रे ‘सर्वत्र’ इति शब्देन ‘वेदेषु लोकेषु च’ इतो अर्थः ज्ञाप्यते । 2. विभाषा इति किमर्थम् ? ** प्रकृतसूत्रेण उक्तः प्रकृतिभावः विकल्पेनैव भवति, अतः पक्षे **एङः पदान्तादति (6.1.109) इत्यनेन पूर्वरूपसन्धिः अपि भवति इति ज्ञापयितुम् अस्मिन् सूत्रे ‘विभाषा’ इति शब्दः स्वीक्रियते ।
3. एङः इत्यस्य अनुवृत्तिः किमर्थम् ? ** यदि पदसंज्ञक-गो-शब्दस्य अन्ते कश्चन अन्यः वर्णः (यथा, उकारः) विद्यते तर्हि प्रकृतसूत्रस्य प्रयोगः न भवति । यथा, “चित्राः गावः यस्य तत् (कुलम्)” इत्यत्र “चित्रगु” इति ह्रस्व-उकारान्तशब्दस्य विषये इदं सूत्रं नैव प्रवर्तते, अतः “चित्रगुणः अग्रम्” अस्मिन् समासे “चित्रगु + अग्रम्” इति स्थिते **इको यणचि इति यणादेशः एव भवति येन “चित्रग्वम्” इति शब्दः सिद्ध्यति ।
4. पदान्ते इति किम्? **गो शब्दस्य अपदान्त-ओकारस्य विषये इदं सूत्रम् नैव प्रवर्तते । अतएव गो-शब्दस्य पञ्चम्येकवचनस्य/षष्ठ्येकवचनस्य प्रक्रियायाम् ‘गो + अस्’ इति स्थिते अत्र गो-शब्दस्य पदसंज्ञायाः अभावात् प्रकृतसूत्रम् नैव प्रवर्तते, अतः **ङसिङसोश्च (6.1.110) इत्यनेन पूर्वरूप-एकादेशे कृते गोः इत्येव सिद्ध्यति । एवमेव, पदस्य *मध्ये * विद्यमानस्य ओकारस्य विषये अपि इदं सूत्रं नैव प्रवर्तते, अतः “गोः + अत्र” इत्यत्र अपि प्रकृतसूत्रस्य प्रसक्तिः नास्ति ।
प्रतिपदोक्तस्यैव ओकारस्य ग्रहणम्, न हि सूत्रनिर्मितस्य
गो-शब्दस्य अन्ते मूलरूपेण (प्रातिपदिकस्वरूपे) ओकारः विद्यते चेदेव प्रकृतसूत्रम् प्रवर्तते । यदि तत्र मूलरूपेण कश्चन अन्यः वर्णः अस्ति, प्रक्रियायां च तस्य ओकारादेशः भवति, तर्हि लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम् अनया परिभाषया तस्य विषये इदं सूत्रं न प्रवर्तते । यथा, “चित्रगु”-इति उकारान्तशब्दस्य सम्बोधनस्य एकवचने उकारस्य गुणादेशे कृते ओकारः जायते, येन ‘चित्रगो’ इति ओकारान्तः शब्दः सिद्ध्यति । यद्यपि अत्र पदान्ते ‘गो’ शब्दस्य ओकारः अस्ति, तथापि अयम् ओकारः प्रातिपदिकस्य नास्ति अपितु लाक्षणिकः (सूत्रनिर्मितः) अस्ति इति कारणात् प्रकृतसूत्रम् अत्र न प्रवर्तते, अतः “चित्रगो + अत्र” इत्यत्र केवलम् एङः पदान्तादति (6.1.109) इत्यनेन पूर्वरूपं कृत्वा “चित्रगोऽत्र” इत्येव प्रयोगः सिद्ध्यति ।
Sutrartha (English)¶
In the context of संहिता, an ओकार occurring at the end of the पदसंज्ञक गो शब्द exhibits optional प्रकृतिभाव when followed by a ह्रस्व अकार.
Vasu English Summary¶
After गो the subsequent अ may optionally be retained everywhere, in the Vedas as well as in the secular literature.
Vasu English Translation¶
After गो the subsequent अ may optionally be retained everywhere, in the Vedas as well as in the secular literature. Thus गोऽग्रं or गो अग्रं ॥ In the Vedas also अपशवो वा अन्ये गो अश्वेभ्यः, पशवो गोऽश्वाः ॥
Kashika¶
सर्वत्र छन्दसि भाषायां चाति परतो गोरेङ् प्रकृत्या भवति विभाषा। गोऽग्रम्, गो अग्रम्। छन्दसि — अप॑॑शवो॒ वा अ॒न्ये गो॑॑अ॒श्वेभ्य॑ः॑ प॒शवो॑॑ गोअ॒श्वान् (तै० सं० ५.२.९४)॥
Siddhanta Kaumudi¶
लोके वेदे चैङन्तस्य गोरति वा प्रकृतिभावः स्यात्पदान्ते । गो अग्रम् । गोऽग्रम् । एङन्तस्य किम् । चित्रग्वग्रम् । पदान्ते किम् । गोः ॥
Laghu Siddhanta Kaumudi¶
लोके वेदे चैङन्तस्य गोरति वा प्रकृतिभावः पदान्ते। गोअग्रम्, गोऽग्रम्। एङन्तस्य किम्? चित्रग्वग्रम्। पदान्ते किम्? गोः॥
Laghu Shabdendushekhar¶
सर्वत्र वि । प्रकृत्याऽन्तः पादमव्यपरे (६.१.११५) इति सूत्रात्प्रकृत्येत्यनुवर्त्तते । प्रकृतिशब्दोऽत्र स्वभाववाची “दुस्त्यजा प्रकृतिः” इत्यादौ तथा दर्शनात् । प्रकृत्या स्वभावेनावस्थानमित्यर्थः । अत एव प्रकृतिभावे न पूर्वरूपं नाप्ययादय इति भावः । नान्तः पादम् इति पाठे त्वनेन सूत्रेण गोशब्दस्य यत्प्राप्तं तन्नेति व्याख्यानेन नान्त: पादमित्यनेनैव पूर्वरूपत्वादिकं विकल्पेन निषिद्ध्यत इति बोद्ध्यम् ॥
Balamanorama¶
सर्वत्र विभाषा गोः - सर्वत्र विभाषा । पदान्तादित्यनुवर्तते ।प्रकृत्यान्तः पाद॑मित्यतःप्रकृत्ये॑त्यनुवर्तते । प्रकृत्या=स्वभावेन निर्विकारस्वरूपेणाऽवतिष्ठते इत्यर्थः । ‘यजुष्युर’ इत्यतो यजुषीति निवृत्तं । तत्सूचनायसर्वत्रे॑त्युपात्तम् । तेन लोके वेदे चेति लभ्यते । तदाह — लोक इत्यादि । प्रकृतिभाव इति । स्वभावेनावस्थानमित्यर्थः । एवं च पूर्वरूपमवादेशश्च न । गो-अग्रमिति प्रकृतिभावे रूपम् । पूर्वरूपे गोऽग्रमिति । अत्र एङ इत्यप्यनुवर्तते । ततश्चैकदेशविकृतमनन्यवद्भवतीति न्यायेन चित्रग्वग्रमित्यत्र नातिप्रसङ्गः । हे चित्रगोऽग्रमित्यत्रापि न प्रकृतिभावः, प्रतिपदोक्तस्यैवैङो ग्रहणात् । प्रकृते च ‘ह्रस्वस्य गुण’ इत्योकारस्य लाक्षणिकत्वात् । गोरिति । गो असिति स्थिते गो इत्योकारस्य पदान्तत्वाऽभावान्न प्रकृतिभावः । नचैवमपदान्तत्वादेङः पदान्तादिति पूर्वरूपमपि दुर्लभमिति वाच्यम्, अत एवङसिङसोश्चे॑ति तत्र पूर्वरूपारम्भात् ।
Tattvabodhini¶
सर्वत्र विभाषा गोः - सर्वत्र विभाषा । यद्यपीहछन्दसि॑ इति न पकृतम्, तथापियजुष्युरः॑ इत्यादिप्रक्रमाच्छन्दस्येवेति संभाव्येत, अतःसर्वत्रेत्युक्तम् । तद्व्याचश्टे-लोके वेदे चेति । इहएङ॑ इत्यनुवर्त्त्यएङन्तस्य गो॑रिति व्याख्येयम् । तेनेह न — चित्रग्वग्रम् । प्रकृतिभाव इति । एतच्चप्रकृत्यान्तःपाद॑मिति सूत्रात्प्रकृत्येत्यनुवृत्त्या लभ्यते ।नान्तःपाद॑मिति पाठे तुसर्वत्र विभाषे॑ति सूत्रेण पूर्वरूपमेव विभाषा निषिध्यत इत्यवधेयम् । निषेधविकल्पे विधिविकल्पः फलित इत्याशयेन पूर्वरूपमेवविकल्प्यत इति मनोरमायां स्थितम् ।
Padamanjari¶
सर्वत्र च्छन्दसि भाषायां चेति। यद्यपि’च्छन्दसि’ इति न प्रकृतम्, तथापि ठन्तः पादं यजुषिऽ इति वचनात् अवक्रमुः, अव्रतावस्युरिति छान्दसानुकरणाच्च छान्दसानि पूर्वसूत्राणीति भावः। सर्वत्रग्रहणं तु यजुषि, अन्यत्र चेत्यप्युपपन्तम्। पदान्तादित्येव - गोरागतं गोः स्वम् ॥
Praudhamanorama¶
यद्यपि छन्दसीति न प्रकृतं तथापि यजुष्युरः (6.1.117) इत्यादिप्रक्रमाच्छन्दस्येवेदमिति सम्भाव्येत, अतः सर्वत्रेत्युक्तम्। तद्व्याचष्टे- लोके वेदे चेति। इह ‘एङः’ इत्यनुवर्त्यैङन्तस्य गोरिति व्याख्येयम्। तेनेह न—चित्रग्वग्रमिति। प्रतिपदोक्तस्य एङो ग्रहणान्नेह— हे चित्रगोऽग्रम्। प्रकृतिभाव इति। प्रकृत्यान्तः पादम् (6.1.115) इति सूत्रात्प्रकृत्येत्यनुवृत्तेः। यद्यपि भाष्ये इको गुणवृध्दी (1.1.3) इति सूत्रे ‘नान्तः पदम्’ इति पाठः स्थितः। षाष्ठभाष्येऽप्येवम्। तथापि शाकलसूत्रे ‘ह्यस्वश्च इति चकारेण प्रकृत्या इत्यनुकृष्यते’ इति भाष्यदर्शनात् ‘प्रकृत्यान्तः पादम्’ इति पाठोऽपि साधुरेव। ‘न’ इति पाठे तु ‘ सर्वत्र’ इति सूत्रेण पूर्वरूपमेव विकल्प्येतेत्यवधेयम्।
Prakriyasarvasvam¶
लोके वेदे च गोरति परे वा प्रकृतिभावः स्यात् । गो अर्थ गोर्थम् ।
Sarala¶
चित्रेति । एकदेशविकृतमनन्यवत् इति न्यायेन “गु”शब्दे गोशब्दत्वंस्य सत्त्वेऽपि विकृतावयवनिबन्धनकार्ये नायं न्यायः इति गुशब्दे नैङन्तत्वमिति भावः । गोरिति । “गो अस्” इत्यवस्थायां गो इत्यस्य यचि भम् (१.४.१८) इति भसंज्ञा न तु पदसंज्ञा । ङसिङसोश्च (६.१.११०) इति पूर्वरूपं रुत्वं विसर्गश्चेति तत्सिद्धिः ॥
Sudha¶
गो अग्रमिति । **”गो-अग्रम्” इति स्थिते अत्र **सर्वत्र विभाषा गोः (6.1.122) इत्यनेन पदान्ते विद्यमानस्य एङन्तस्य गोशब्दस्य अति परे विकल्पेन प्रकृतिभावे सति “गोअग्रम्” इति रूपम् । विभाषाग्रहणात्पक्षे एङः पदान्तादति (6.1.109) इत्यनेन पूर्वरूपैकादेशे कृते “गोऽग्रम्” इति रूपम् । चित्रग्वग्रमिति । “चित्रगु-अग्रम्” इति दशायां तत्र एङन्तत्वाभावात् न पूर्वरूपम् । नापि प्रकृतिभावः । किन्तु इको यणचि (6.1.77) इत्यनेन यणि रूपम् । पदान्ते किमिति । ** गोशब्दात् ङसि प्रत्यये कृते ङकारेकारयोर्लोपे “गो-अस्” इति दशायां पदान्तत्वाभावात् न प्रकृतिभाव इति भावः । सूत्रे पदान्तत्वानाश्रयणे तु प्रकृते प्रकृतिभाव आपद्येतेति भावः । प्रकृते “गो-अस्” इत्यत्र **ङसिङसोश्च (6.2.110) इत्यनेन पूर्वरूपादेशे सति “गोः” इति रूपम् ॥
Sutra Prayogas¶
अपत्रेपे (भट्टिकाव्यम्): तृ-फल इत्यादिना एत्वाभ्यासलोपौ।