61121: अवपथासि च¶
Padacheda: अवपथासि | S | 7 | 1 |
च | S | 0 | 0 |
Sutrartha¶
Vasu English Summary¶
In the यजुर्वेद , when the gravely accented अ of अवपथास् follows ए or ओ , the vowels retain their original form.
Vasu English Translation¶
In the यजुर्वेद , when the gravely accented अ of अवपथास् follows ए or ओ , the vowels retain their original form. Thus त्री रुद्रेभ्यो अवपथाः ॥ The word अवपथाः is 2nd person Singular Imperfect of वप् in the Atmanepada. Thus अ + वप् + शप् + थास् ॥ The अ is grave by (8.1.28). When it is not gravely accented, the अ drops. As यद्रुद्रेभ्योऽवपथाः ॥ Here अ is not grave by virtue of (8.1.30).
Kashika¶
यजुषीत्येव। अनुदात्त इति चशब्देनानुकृष्यते। अवपथाःशब्देऽनुदात्तेऽकारादौ परतो यजुषि विषय एङ् प्रकृत्या भवति। त्री रुद्रेभ्यो अवपथाः (काठ० सं० ३०.६.३२)। वपेर्लङि थासि तिङ्ङतिङः (८.१.२८) इति निघातेनानुदात्तत्वम्। अनुदात्त इत्येव — यद्रुद्रेभ्योऽवपथाः। निपातैर्यद्यदिहन्त॰ (८.१.३०) इति निघातः प्रतिषिध्यते॥
Siddhanta Kaumudi¶
अनुदात्ते अकारदौ अवपथाःशब्दे परे यजुषि एङ् प्रकृत्या । त्रीरुंद्रेभ्यो अवपथाः (त्रीरुं॒द्रेभ्यो॑ अवपथाः) । वपेस्थासि लङि तिङ्ङतिङः - (SK3935) इत्यनुदात्तत्वम् । अनुदात्ते किम् । यद्रुद्रेभ्योऽवपथाः (यद्रुद्रेभ्यो॑ऽवपथाः) । निपातैर्यद्यदि - (SK3937) इति निघातो न ॥
Nyaas¶
यद्रुद्रेभ्योऽवपथाः इति। अटः स्वरेणाद्युवात्तोऽयमवपथाःशब्दः॥