61122: सर्वत्र विभाषा गोः ========================= **Padacheda:** सर्वत्र | S | 0 | 0 | विभाषा | S | 1 | 1 | गोः | S | 6 | 1 | Sutrartha --------- **पदसंज्ञकस्य गो-शब्दस्य अन्ते विद्यमानस्य ओकारस्य ह्रस्व अकारे परे संहितायाम् लोके वेदे च विकल्पेन प्रकृतिभावः भवति ।** पदसंज्ञकस्य गो-शब्दस्य अन्ते विद्यमानस्य ओकारस्य ह्रस्व-अकारे परे **एङः पदान्तादति** (6.1.109) इत्यनेन नित्यम् पूर्वरूपैकादेशे प्राप्ते, प्रकृतसूत्रेण वैकल्पिकः प्रकृतिभावः (इत्युक्ते, अच्-सन्धेः अभावः) विधीयते । पक्षे (प्रकृतिभावस्य अभावे) **एङः पदान्तादति** (6.1.109) इत्यनेन पूर्वरूप-एकादेशः अपि भवति । यथा — .. code-block:: text गोः अग्रम् [**षष्ठी** (2.2.8) इति समासः] → गो + अग्र [**कृत्तद्धितसमासाश्च** (1.2.46) इति प्रातिपदिकसंज्ञा । **सुपो धातुप्रातिपदिकयोः** (2.4.71) इति सुप्-प्रत्यययोः लुक् । समासे पूर्वपदस्य पदान्तत्वम् नैव विनश्यति अतः 'गो' इति शब्दः पदसंज्ञकः एव स्वीक्रियते ।] → गोग्रम्, गोअग्रम् [पदसंज्ञकस्य गो-शब्दस्य ओकारात् परः ह्रस्वः अकारः विद्यते, अतः ओकारस्य **सर्वत्र विभाषा गोः** (6.1.122) इति पाक्षिकः प्रकृतिभावः विधीयते । पक्षे **एङः पदान्तादति** (6.1.109) इति पूर्वरूपम् अपि भवति । ततः सुबुत्पत्तिं कृत्वा 'अग्रम्' इति शब्दः सिद्ध्यति । अत्र प्रक्रियायाः अन्ते सिद्धे गोऽग्रम् तथा गोअग्रम् इति द्वे अपि समस्तपदे एव स्तः इति ज्ञेयम् ।]
अत्र प्रक्रियायाम् गो-शब्दस्य **अवङ् स्फोटायनस्य** (6.1.123) इत्यनेन वैकल्पिकः अवङ्-आदेशः अपि सम्भवति, अतः 'गवाग्रम्' इति अपि अन्यत् वैकल्पिकम् रूपम् जायते । अस्मिन् सूत्रे अनुवृत्तिरूपेण 'एङ्' इति शब्दः स्वीक्रियते । यद्यपि एङ्-प्रत्याहारे एकार-ओकारौ स्तः, तथापि गो-शब्दस्य अन्ते एकारः नैव सम्भवति । अतः अत्र सूत्रार्थे ओकारस्यैव उदाहरणम् विद्यते । **दलकृत्यम्** **1. सर्वत्र इति किमर्थम् ? **प्रकृतसूत्रात् पूर्वम् विद्यमानानि प्रकृतिभावप्रकरणे पाठितानि सर्वाणि अपि सूत्राणि (**प्रकृत्याऽन्तःपादमव्यपरे** (6.1.115) इत्यतः **अवपथासि च** (6.1.121) इति यावन्ति सप्त सूत्राणि) केवलम् वैदिकप्रयोगानां विषये एव प्रवर्तन्ते । परन्तु इदं सूत्रम् वैदिकप्रयोगार्थम् लौकिकप्रयोगार्थम् च अपि पाठितम् अस्ति । अतः अस्मिन् सूत्रे 'सर्वत्र' इति शब्देन 'वेदेषु लोकेषु च' इतो अर्थः ज्ञाप्यते । **2. विभाषा इति किमर्थम् ? ** प्रकृतसूत्रेण उक्तः प्रकृतिभावः विकल्पेनैव भवति, अतः पक्षे **एङः पदान्तादति** (6.1.109) इत्यनेन पूर्वरूपसन्धिः अपि भवति इति ज्ञापयितुम् अस्मिन् सूत्रे 'विभाषा' इति शब्दः स्वीक्रियते । **3. एङः इत्यस्य अनुवृत्तिः किमर्थम् ? ** यदि पदसंज्ञक-गो-शब्दस्य अन्ते कश्चन अन्यः वर्णः (यथा, उकारः) विद्यते तर्हि प्रकृतसूत्रस्य प्रयोगः न भवति । यथा, "चित्राः गावः यस्य तत् (कुलम्)" इत्यत्र "चित्रगु" इति ह्रस्व-उकारान्तशब्दस्य विषये इदं सूत्रं नैव प्रवर्तते, अतः "चित्रगुणः अग्रम्" अस्मिन् समासे "चित्रगु + अग्रम्" इति स्थिते **इको यणचि** इति यणादेशः एव भवति येन "चित्रग्वम्" इति शब्दः सिद्ध्यति । **4. पदान्ते इति किम्? **गो शब्दस्य अपदान्त-ओकारस्य विषये इदं सूत्रम् नैव प्रवर्तते । अतएव गो-शब्दस्य पञ्चम्येकवचनस्य/षष्ठ्येकवचनस्य प्रक्रियायाम् 'गो + अस्' इति स्थिते अत्र गो-शब्दस्य पदसंज्ञायाः अभावात् प्रकृतसूत्रम् नैव प्रवर्तते, अतः **ङसिङसोश्च** (6.1.110) इत्यनेन पूर्वरूप-एकादेशे कृते गोः इत्येव सिद्ध्यति । एवमेव, पदस्य *मध्ये * विद्यमानस्य ओकारस्य विषये अपि इदं सूत्रं नैव प्रवर्तते, अतः "गोः + अत्र" इत्यत्र अपि प्रकृतसूत्रस्य प्रसक्तिः नास्ति । **प्रतिपदोक्तस्यैव ओकारस्य ग्रहणम्, न हि सूत्रनिर्मितस्य** गो-शब्दस्य अन्ते **मूलरूपेण (प्रातिपदिकस्वरूपे) ओकारः विद्यते** चेदेव प्रकृतसूत्रम् प्रवर्तते । यदि तत्र मूलरूपेण कश्चन अन्यः वर्णः अस्ति, प्रक्रियायां च तस्य ओकारादेशः भवति, तर्हि **लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम्** अनया परिभाषया तस्य विषये इदं सूत्रं न प्रवर्तते । यथा, "चित्रगु"-इति उकारान्तशब्दस्य सम्बोधनस्य एकवचने उकारस्य गुणादेशे कृते ओकारः जायते, येन 'चित्रगो' इति ओकारान्तः शब्दः सिद्ध्यति । यद्यपि अत्र पदान्ते 'गो' शब्दस्य ओकारः अस्ति, तथापि अयम् ओकारः प्रातिपदिकस्य नास्ति अपितु लाक्षणिकः (सूत्रनिर्मितः) अस्ति इति कारणात् प्रकृतसूत्रम् अत्र न प्रवर्तते, अतः "चित्रगो + अत्र" इत्यत्र केवलम् **एङः पदान्तादति** (6.1.109) इत्यनेन पूर्वरूपं कृत्वा "चित्रगोऽत्र" इत्येव प्रयोगः सिद्ध्यति । Sutrartha (English) ------------------- In the context of संहिता, an ओकार occurring at the end of the पदसंज्ञक गो शब्द exhibits optional प्रकृतिभाव when followed by a ह्रस्व अकार. Vasu English Summary -------------------- After गो the subsequent अ may optionally be retained everywhere, in the Vedas as well as in the secular literature. Vasu English Translation ------------------------ After गो the subsequent अ may optionally be retained everywhere, in the Vedas as well as in the secular literature. Thus गोऽग्रं or गो अग्रं ॥ In the Vedas also अपशवो वा अन्ये गो अश्वेभ्यः, पशवो गोऽश्वाः ॥ Kashika ------- सर्वत्र छन्दसि भाषायां चाति परतो गोरेङ् प्रकृत्या भवति विभाषा। गोऽग्रम्, गो अग्रम्। छन्दसि — अप॑॑शवो॒ वा अ॒न्ये गो॑॑अ॒श्वेभ्य॑ः॑ प॒शवो॑॑ गोअ॒श्वान् (तै० सं० ५.२.९४)॥ Siddhanta Kaumudi ----------------- लोके वेदे चैङन्तस्य गोरति वा प्रकृतिभावः स्यात्पदान्ते । गो अग्रम् । गोऽग्रम् । एङन्तस्य किम् । चित्रग्वग्रम् । पदान्ते किम् । गोः ॥ Laghu Siddhanta Kaumudi ----------------------- लोके वेदे चैङन्तस्य गोरति वा प्रकृतिभावः पदान्ते। गोअग्रम्, गोऽग्रम्। एङन्तस्य किम्? चित्रग्वग्रम्। पदान्ते किम्? गोः॥ Laghu Shabdendushekhar ---------------------- **सर्वत्र वि** । **प्रकृत्याऽन्तः पादमव्यपरे** (६.१.११५) इति सूत्रात्प्रकृत्येत्यनुवर्त्तते । प्रकृतिशब्दोऽत्र स्वभाववाची "दुस्त्यजा प्रकृतिः" इत्यादौ तथा दर्शनात् । प्रकृत्या स्वभावेनावस्थानमित्यर्थः । अत एव प्रकृतिभावे न पूर्वरूपं नाप्ययादय इति भावः । **नान्तः पादम्** इति पाठे त्वनेन सूत्रेण गोशब्दस्य यत्प्राप्तं तन्नेति व्याख्यानेन नान्त: पादमित्यनेनैव पूर्वरूपत्वादिकं विकल्पेन निषिद्ध्यत इति बोद्ध्यम् ॥ Balamanorama ------------ **सर्वत्र विभाषा गोः** - सर्वत्र विभाषा । पदान्तादित्यनुवर्तते ।प्रकृत्यान्तः पाद॑मित्यतःप्रकृत्ये॑त्यनुवर्तते । प्रकृत्या=स्वभावेन निर्विकारस्वरूपेणाऽवतिष्ठते इत्यर्थः । 'यजुष्युर' इत्यतो यजुषीति निवृत्तं । तत्सूचनायसर्वत्रे॑त्युपात्तम् । तेन लोके वेदे चेति लभ्यते । तदाह — लोक इत्यादि । प्रकृतिभाव इति । स्वभावेनावस्थानमित्यर्थः । एवं च पूर्वरूपमवादेशश्च न । गो-अग्रमिति प्रकृतिभावे रूपम् । पूर्वरूपे गोऽग्रमिति । अत्र एङ इत्यप्यनुवर्तते । ततश्चैकदेशविकृतमनन्यवद्भवतीति न्यायेन चित्रग्वग्रमित्यत्र नातिप्रसङ्गः । हे चित्रगोऽग्रमित्यत्रापि न प्रकृतिभावः, प्रतिपदोक्तस्यैवैङो ग्रहणात् । प्रकृते च 'ह्रस्वस्य गुण' इत्योकारस्य लाक्षणिकत्वात् । गोरिति । गो असिति स्थिते गो इत्योकारस्य पदान्तत्वाऽभावान्न प्रकृतिभावः । नचैवमपदान्तत्वादेङः पदान्तादिति पूर्वरूपमपि दुर्लभमिति वाच्यम्, अत एवङसिङसोश्चे॑ति तत्र पूर्वरूपारम्भात् । Tattvabodhini ------------- **सर्वत्र विभाषा गोः** - सर्वत्र विभाषा । यद्यपीहछन्दसि॑ इति न पकृतम्, तथापियजुष्युरः॑ इत्यादिप्रक्रमाच्छन्दस्येवेति संभाव्येत, अतःसर्वत्रेत्युक्तम् । तद्व्याचश्टे-लोके वेदे चेति । इहएङ॑ इत्यनुवर्त्त्यएङन्तस्य गो॑रिति व्याख्येयम् । तेनेह न — चित्रग्वग्रम् । प्रकृतिभाव इति । एतच्चप्रकृत्यान्तःपाद॑मिति सूत्रात्प्रकृत्येत्यनुवृत्त्या लभ्यते ।नान्तःपाद॑मिति पाठे तुसर्वत्र विभाषे॑ति सूत्रेण पूर्वरूपमेव विभाषा निषिध्यत इत्यवधेयम् । निषेधविकल्पे विधिविकल्पः फलित इत्याशयेन पूर्वरूपमेवविकल्प्यत इति मनोरमायां स्थितम् । Padamanjari ----------- सर्वत्र च्छन्दसि भाषायां चेति। यद्यपि'च्छन्दसि' इति न प्रकृतम्, तथापि ठन्तः पादं यजुषिऽ इति वचनात् अवक्रमुः, अव्रतावस्युरिति छान्दसानुकरणाच्च छान्दसानि पूर्वसूत्राणीति भावः। सर्वत्रग्रहणं तु यजुषि, अन्यत्र चेत्यप्युपपन्तम्। पदान्तादित्येव - गोरागतं गोः स्वम् ॥ Praudhamanorama --------------- यद्यपि छन्दसीति न प्रकृतं तथापि **यजुष्युरः** (6.1.117) इत्यादिप्रक्रमाच्छन्दस्येवेदमिति सम्भाव्येत, अतः सर्वत्रेत्युक्तम्। तद्व्याचष्टे- **लोके वेदे चेति।** इह 'एङः' इत्यनुवर्त्यैङन्तस्य गोरिति व्याख्येयम्। तेनेह न—चित्रग्वग्रमिति। प्रतिपदोक्तस्य एङो ग्रहणान्नेह— हे चित्रगोऽग्रम्। **प्रकृतिभाव इति।** **प्रकृत्यान्तः पादम्** (6.1.115) इति सूत्रात्प्रकृत्येत्यनुवृत्तेः। यद्यपि भाष्ये **इको गुणवृध्दी** (1.1.3) इति सूत्रे 'नान्तः पदम्' इति पाठः स्थितः। षाष्ठभाष्येऽप्येवम्। तथापि शाकलसूत्रे 'ह्यस्वश्च इति चकारेण प्रकृत्या इत्यनुकृष्यते' इति भाष्यदर्शनात् 'प्रकृत्यान्तः पादम्' इति पाठोऽपि साधुरेव। 'न' इति पाठे तु ' सर्वत्र' इति सूत्रेण पूर्वरूपमेव विकल्प्येतेत्यवधेयम्। Prakriyasarvasvam ----------------- लोके वेदे च गोरति परे वा प्रकृतिभावः स्यात् । गो अर्थ गोर्थम् । Sarala ------ **चित्रेति** । **एकदेशविकृतमनन्यवत्** इति न्यायेन "गु"शब्दे गोशब्दत्वंस्य सत्त्वेऽपि **विकृतावयवनिबन्धनकार्ये नायं न्यायः** इति गुशब्दे नैङन्तत्वमिति भावः । **गोरिति** । "गो अस्" इत्यवस्थायां गो इत्यस्य **यचि भम्** (१.४.१८) इति भसंज्ञा न तु पदसंज्ञा । **ङसिङसोश्च** (६.१.११०) इति पूर्वरूपं रुत्वं विसर्गश्चेति तत्सिद्धिः ॥ Sudha ----- **गो अग्रमिति । **"गो-अग्रम्" इति स्थिते अत्र **सर्वत्र विभाषा गोः** (6.1.122) इत्यनेन पदान्ते विद्यमानस्य एङन्तस्य गोशब्दस्य अति परे विकल्पेन प्रकृतिभावे सति "गोअग्रम्" इति रूपम् । विभाषाग्रहणात्पक्षे **एङः पदान्तादति** (6.1.109) इत्यनेन पूर्वरूपैकादेशे कृते "गोऽग्रम्" इति रूपम् । **चित्रग्वग्रमिति ।** "चित्रगु-अग्रम्" इति दशायां तत्र एङन्तत्वाभावात् न पूर्वरूपम् । नापि प्रकृतिभावः । किन्तु **इको यणचि** (6.1.77) इत्यनेन यणि रूपम् । **पदान्ते किमिति । ** गोशब्दात् ङसि प्रत्यये कृते ङकारेकारयोर्लोपे "गो-अस्" इति दशायां पदान्तत्वाभावात् न प्रकृतिभाव इति भावः । सूत्रे पदान्तत्वानाश्रयणे तु प्रकृते प्रकृतिभाव आपद्येतेति भावः । प्रकृते "गो-अस्" इत्यत्र **ङसिङसोश्च** (6.2.110) इत्यनेन पूर्वरूपादेशे सति "गोः" इति रूपम् ॥ Sutra Prayogas -------------- * **अपत्रेपे** (भट्टिकाव्यम्): `तृ-फल` इत्यादिना एत्वाभ्यासलोपौ।