61118: आपोजुषाणोवृष्णोवर्षिष्ठेऽम्बेऽम्बालेऽम्बिकेपूर्वे

Padacheda: आपो-जुषाणो-वृष्णो-वर्षिष्ठे-अम्बे-अम्बाले-अम्बिकेपूर्वे | S | 1 | 2 |

Sutrartha


Vasu English Summary

In the यजुर्वेद , the short अ is retained after आपो , जुषाणो , वृष्णो , वर्षिष्ठे and also in and after अम्बे or अम्बाले when they stand before अम्बिके।

Vasu English Translation

In the यजुर्वेद , the short अ is retained after आपो , जुषाणो , वृष्णो , वर्षिष्ठे and also in and after अम्बे or अम्बाले when they stand before अम्बिके।

Thus आपो अस्मान् प्रातरः शुन्धयन्तु (Yaj. IV. 2). जुषाणो अप्तुराज्यस्य ( Yaj. V. 35), वृष्णो अंशुभ्यां गभस्ति पूतः (Yaj. VII.I). वर्षिष्ठे अधिनाके ॥ The Vajasaneyi Sanhita has वर्षिष्ठेऽधि (V.S I.22): The Taittariya Sanhita has वर्षिष्ठे अधि ॥ (I.I.8. I.4.43, 2.5.5.4) अम्बे अम्बाले अम्बिके (V. S. 23.18 where the reading is अम्बे अम्बिकेऽम्बालिके) but Taittariya Sanhita VII.4.19. I, and Taittariya Brahmana III.9.6. 3 has अम्बे अम्बाल्यम्बिके ॥ The words अम्बे &c, though in the Vocative, do not shorten their vowel by (7.3.107), because they have been so read here.

Kashika

यजुषीत्येव। आपो जुषाणो वृष्णो वर्षिष्ठे इत्येते शब्दा अम्बे अम्बाले इत्येतौ च यावम्बिकेशब्दात् पूर्वौ यजुषि पठितौ तेऽति परतः प्रकृत्या भवन्ति। आपा॑े॑ अ॒स्मान्मा॒तर॑ः॑ शुन्धयन्तु (मा० सं० ४.२)। जुषा॒णो अ॒प्तुराज्य॑॑स्य (मा० सं० ५.३५)। वृष्णा॑े॑ अ॒शुभ्यां॒ गभ॑॑स्तिपूतः (मा० सं० ७.१)। वर्षि॑ष्ठे॒ अधि॒नाके॒ (तै० सं० १.१.८.२)। अम्बे॒ अम्बा॒ले अम्बि॑॑के। यजुषीदमीदृशमेव पठ्यते। अस्मादेव निपातनाद् अम्बार्थनद्योर्ह्रस्वः (७.३.१०७) इति ह्रस्वत्वं न भवति॥

Siddhanta Kaumudi

यजुषि अति प्रकृत्या । आपो अस्मान्मातरः (आपो॑ अ॒स्मान्मा॒तरः॑) । जुषाणो अग्निराज्यस्य (जु॒षा॒णो अ॒ग्निराज्य॒स्य) । वृष्णो अंशुभ्याम् (वृष्णो॒ अंशु॑भ्याम्) । वर्षिष्ठे अधि नाके (वर्षि॑ष्ठे॒ अधि॒ नाके॑) । अम्बे अम्बाले अम्बिके । अस्मादेव वचनात् अम्बार्थ - (SK267) इति ह्रस्वो न ॥

Padamanjari

आपो इत्यादीनि पृथक् पदानि अनुकरणानि, विभक्तिस्त्वनुकार्यानुकरणयोर्भेदस्याविवक्षितत्वान्न भवति।’सुपां सुलुक्’ इति वा विभक्तेर्लुग् भवति, अम्बिकेपूर्व इत्येतदप्यनुकरणमेव। तत्र प्रथमं जसन्तम्, द्वितीयं स्वन्तम्, तृतीयं शसन्तम्, चतुर्थं ङ्यन्तम्, इतरे सम्बुद्ध्यन्ते। अम्बिकेशब्दात्पूर्वाविति। अस्मादेव निपातनात्पञ्चमीसमासः। अस्मादेव निपातनादिति। अम्बेत्येतद्विषयमेतत्। इतरयोस्तु ठम्बार्थं द्व्यक्षरम्ऽ इति वक्ष्यमाणत्वान्नैव ह्रस्वप्रसङ्गः ॥

Nyaas

आपो -इत्येवमादीनि सर्वाण्येतान्यनुकरणान्यविभक्तिकानि; सुपां सुलुक् (7.1.39) इत्यादिना तेभ्य उत्पन्नाया विभक्तेर्लुप्तत्वात्। अत्रापो इति प्रथमाबहुवचनान्तस्यानुकारणम्। जुषाणो इति। प्रथमैक वचनान्तस्य। वृष्णो इति। षष्ठएकवचनान्तस्य। वषिष्ठे इति। सप्तम्येकवचनान्तस्य। अम्ब, अम्बाले इत्येतयोर्विशेषणम्। अम्बिकेशब्दात्? पूर्वे अम्बिकेपूर्वे, अस्मादेव निपातनात् समासः। ननु च अम्बे इति सम्बुद्ध्यन्तस्यानुकरणम्? ततश्च अम्बाऽर्थनद्योर्ह्रस्वः (7.3.107) इति ह्रस्वेनैत्त्वापवादेन भवितव्यम्, तत्? कथमम्बे इत्यत्रैत्त्वम्? इत्यत आह -अस्मादेव इत्यादि। अम्बाले अम्बिके -इत्येतयोस्तु युक्तमेवैत्त्वम्। वक्ष्यति हि ह्रस्वविधाने -अम्बार्थं द्व्यक्षरं यदि (वा। 7.3.107) इति॥

Prakriyasarvasvam

आप आद्याः अम्बिकाशब्दात् पूर्वावम्बेऽम्बालेशब्दौ च यजुषि प्रकृत्या स्युः । आपो अस्मात् । जुषाणो अग्नि२राज्यस्य । वृष्णो अंशुभ्यां गभस्तिभिः । वर्षिष्ठे अधि३नाके । अम्बेऽम्बालेऽम्बिके इति पाठात् द्वयोः अम्बिकेपूर्वत्वम् ।