61119: अङ्ग इत्यादौ च

Padacheda: अङ्गे | S | 7 | 1 |

इत्यादौ | S | 7 | 1 |

च | S | 0 | 0 |

Sutrartha


Vasu English Summary

In the यजुर्वेद , when the word अङ्गे is followed by अङ्गे , the subsequent short अ is retained, as well as the preceding ए or ओ।

Vasu English Translation

In the यजुर्वेद , when the word अङ्गे is followed by अङ्गे , the subsequent short अ is retained, as well as the preceding ए or ओ। Thus ऐन्द्रः प्राणो अङ्गे अङ्गे अदाध्यत् , ऐन्द्रः प्राणो अङ्गे अङ्गे निदिष्यत्, ऐन्द्रः प्राणो अङ्गे अङ्गे निदीतः, ऐन्द्रः प्राणो अङ्गे अङ्गे अशोचिषम् (Yaj. 6.20).

Kashika

अङ्गशब्दे य एङ् तदादौ चाकारे यः पूर्वः स यजुषि विषयेऽति प्रकृत्या भवति। ऐन्द्रः प्राणो अङ्गेअङ्गे अदीध्यत् । एे॒न्द्रः प्॒राणो अङ्ग॑े॑अङ्गे॒ नि दी॑॑ध्यत् (मा० सं० ६.२०)। ऐन्द्रः प्राणो अङ्गेअङ्गे अशोचिषम्॥

Siddhanta Kaumudi

अङ्गशब्दे य एङ् तदादौ च अकारे य एङ् पूर्वः सोऽति प्रकृत्या यजुषि । प्राणो अङ्गे अङ्गे अदीध्यत् ॥

Padamanjari

अङ्गशब्दे य एङिति।’स प्रकृत्या भवति’ इति वक्ष्यमाणेन सम्बन्धः। तदातौ चाकारे यः पूर्व इति। ठेङ्ऽ इत्यपेक्ष्यते, पूर्ववच्च सम्बन्धः। तच्छब्देनातिक्रान्तप्रत्यवमर्शिनेतिशब्दस्यार्थमाचष्टे, तस्याङ्गशब्दस्यादिस्तदादिः। चकार किमर्थः, असति चकारेऽङ्गशब्दस्यैवैङ् तदादावति परतः प्रकृत्या भवतीत्यर्थः स्यात्, ततश्चाङ्गेऽङ्गे इत्यत्रैव स्यात्। सति तु तस्मिन्नङ्गशब्दस्य एवैङ् यत्र क्वचिदति परतः प्रकृत्या भवति, तदादौ चाति परतो यः कश्चिदेङ् प्रकृत्या भवतीत्ययमर्थो भवति। तेन अङ्गे अदीध्यत्, प्राणो अङ्गे - इत्युभयत्रापि भवति ॥

Nyaas

अङ्ग इत्यादौ च इति। इतिकरणेनान्तरोक्तोऽङ्गशब्दः प्रत्यवमुश्यते। तदादौ चाकारे इति। समानाधिकरणे सप्तम्यौ। तच्छब्देनातिक्रान्तप्रत्यवमर्शिनेतिकरणस्यार्थमाचष्टे -तदादाविति। अङ्गशब्दादावित्यर्थः। यः पूर्वः इति। एङ् इति सम्बध्यते। चकारोऽङ्गशब्दस्यादौ योऽकारसतत्राप परतः पूर्वस्यैङः प्रकृतिभावो यथा स्यादिति समुच्चयार्थः क्रियते। तत्र ह्रसत्यङ्गशब्दाकारे परतोऽङ्गशब्दस्य य एङ् तस्यैव प्रकृतिभावः स्यात्। यस्त्वङ्गशब्दे परतोऽनङ्गशब्दस्यैङ् तत्र न स्यात्। प्राणो अङ्गे इत्यादि। अत्र प्राणो-शब्दे य एङ् अङ्गशब्दादावकारे प्रकृत्या भवति। अङ्ग अङ्गे अदीध्यत् इति। अत्राङ्गशब्दे य एङ् तस्याङ्गशब्दादावकारेऽदीध्यच्छब्दादौ प्रकृतिभावो भवति॥

Prakriyasarvasvam

<karika>अङ्गे शब्द४स्थितो यस्त्वेङ् य५श्चाङ्गे इत्यतः पुरा । ते द्वे अति प्रकृत्या स्तो६यजुर्वेदे ह्ययं विधिः ॥ ८७६ ॥</karika> प्राणो अङ्गे अङ्गे अदीध्यत् ।