61117: यजुष्युरः¶
Padacheda: यजुषि | S | 7 | 1 |
उरः | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
In the यजुर्वेद , the word उरस् when changed to उरो , retains it original form when followed by a short अ which is also retained.
Vasu English Translation¶
In the यजुर्वेद , the word उरस् when changed to उरो , retains it original form when followed by a short अ which is also retained. Thus उरो अन्तरिक्षम् (Yaj. Veda Vajasan. IV. 7). Some read the sutra as यजुष्युरोः ॥ They take the word as उरू ending in उ, which in the Vocative case assumes the form उरो ॥ They give the following example उरो अन्तरिक्षं सजूर् ॥ But in the Yajur Veda VI.II, the text reads उरोरन्तरिक्षम् सजूः ॥ In the Yajur Veda, there being no stanzas, the condition of अन्तः पादं does not apply here.
Kashika¶
उरःशब्द एङन्तो यजुषि विषयेऽति प्रकृत्या भवति। उरो अन्तरिक्षम् । अपरे यजुष्युरो इति सूत्रं पठन्ति, उकारान्तमुरुशब्दं संबुद्ध्यन्तमधीयते। त इदमुदाहरन्ति — उरो॑े॑ अन्तरिक्षे स॒जूः (तै० सं० १.३.८.१) इति। यजुषि पादानामभावादनन्तःपादार्थं वचनम्॥
Siddhanta Kaumudi¶
उरःशब्द एङन्तोऽति प्रकृत्या यजुषि । उरो अन्तरिक्षम् (उ॒रो अ॒न्तरि॑क्षम्) । यजुषि पादाभावादनन्तः पादार्थ वचनम् ॥
Nyaas¶
उरो अन्तरिक्षम् इति। उरःशब्दस्योत्त्वम्, आद्? गुणः इति गुणः। ओकारान्तमुरोशब्दं [`उकारान्तमुरुशब्द -काशिका] सम्बुद्ध्यन्तमधीयते` इति। उरुशब्दस्य सम्बुद्धौ च (7.3.106) इति गुणे कृते उरो इति भवति॥
Prakriyasarvasvam¶
यजुष्येङन्त उरश्शब्दोऽति प्रकृत्या स्यात् । यजुषि पादाभावादनन्तः पादार्थः विधिः । उरो अन्तरिक्षम् । केचिद् यजुष्युरो इति पठन्ति ।