61116: अव्यादवद्यादवक्रमुरव्रतायमवन्त्ववस्युषु च¶
Padacheda: अव्यात्-अवद्यात्-अवक्रमुः-अव्रत-अयम्-अवन्तु-अवस्युषु | S | 7 | 3 |
च | S | 0 | 0 |
Sutrartha¶
Vasu English Summary¶
The ए or ओ retain their original form in the middle of a Vedic verse, when the following words come after them (though the अ in these has a व् and य् following it) - अव्यात् , अवद्यात् , अवक्रमुः , अव्रत , अवन्तु , अवस्यु।
Vasu English Translation¶
The ए or ओ retain their original form in the middle of a Vedic verse, when the following words come after them (though the अ in these has a व् and य् following it) - अव्यात् , अवद्यात् , अवक्रमुः , अव्रत , अवन्तु , अवस्यु। Thus अग्निः प्रथमोवसुभिर्नो अव्यात् ॥ मित्रमहो अवद्यात् (Rig IV. 4.15), मा शिवासो अवक्रमुः (Rig VII.32.27); ते नो अव्रताः (Not in the Rig Veda). Prof. Bohtlingk gives the following examples from the Rig Veda:- सीक्षन्तो आश्रतम् (VI.14.3), संदहन्ता अव्रतान् (IX. 73.5), कर्ते अव्रतान् (IX. 73.8). शतधारो अयं मणिः, ते नो अवन्तु पितरः (Not in the Rig Veda: according to Prof. Bohtlingk the अ of अवन्तु is generally elided in the Veda after ए or आ) कुशिकासो अवस्यवः (Rig III.42.9).
Kashika¶
अव्यात् अवद्यात् अवक्रमुः अव्रत अयम् अवन्तु अवस्यु इत्येतेषु वकारयकारपरेऽप्यति परतोऽन्तः पादमेङ् प्रकृत्या भवति। अ॒ग्निः प्॑॑रथ॒मो वस॑ु॑भिर्नो अव्या॒त् (तै० सं० २.१.११.२)। मि॑॑त्रमहो अव॒द्यात् (ऋ० ४.४.१५)। माशि॑वासो॒ अव॑॑क्रमुः (ऋ० ७.३२.२७)। ते ना॑े॑ अव्रताः। शा॑॑तवा॒रो अ॒यं म॒णिः (शौ० सं० १९.३६.५)। ते ना॑े॑ अवन्तु पि॒तरः॒ (ऋ० १०.१५.१)। कु॒शि॒कासा॑े॑ अव॒स्यव॑ः॑ (ऋ० ३.४२.९)॥
Siddhanta Kaumudi¶
एषु व्यपरेऽप्यति एङ् प्रकृत्या । वसुभिर्नो अव्यात् (वसु॑भिर्नो अव्यात्) । मिमहो अवद्यात् (मि॑महो अ॒व॒द्यात्) । मा शिवासो अवक्रमुः (मा शि॑वासो॒ अव॑क्रमुः) । ते नो अव्रत (ते नो॑ अव्रत) । शतधारो अयं मणिः (श॒तधा॑रो अ॒यं म॒णिः) । ते नो अवन्तु (ते नो॑ अवन्तु) । कुशिकासो अवस्यवः (कुशि॒कासो॑ अव॒स्यवः॑) । यद्यपि बह्वृचैस्तेनोऽवन्तु, रथतूः, सोऽयमगात्, तेऽरुणेभिरित्यादौ प्रकृतिभावो न क्रियते तथापि बाहुलकात्समाधेयम् । प्रातिशाख्ये तु वाचनिक एवायमर्थः ॥
Padamanjari¶
अव्यादीनामनुकरणत्वात्समासो विभक्तिश्च। अव्यादिति। अवेराशिषि लिङ्। अवद्यादिति। पञ्चम्येकवचनान्तम्। अवक्रमुरिति। अवपूर्वस्य क्रमेर्लिट।लुसि’दिर्वचनप्रकरणे च्छन्दसि वा वक्तव्यम्’ इति द्विर्वचनाभावे रूपम्। केचितु सूत्रे अवचक्रमुरिति कृतद्विर्वचनं वठन्ति, तेषामुदाहरणं मृग्यम्; बह्वृचस्तावद् - अवक्रमुरित्यधीयते। अव्रतेति। वृङ्वृञोः’मन्त्रे घस’ इत्यादिना च्लेर्लुक्, ठात्मनेपदेप्वनतःऽ इति अदादेशः। अयमिति। इदम्-शब्दात् सुः, ठिदोऽय् पुंसिऽ। अवतेर्लोट्, अवन्तु, तस्मादेवासुनन्तात् क्यच्,’क्याच्छन्दसि’ इत्युप्रत्ययः - अवस्युः। तेनोवन्तु पितरो हवेष्विति बह्वृचाः पूर्वरूपमेवाधीयते। अधिब्रुवन्तुं तेऽवन्त्वस्मानिति ॥
Nyaas¶
नो अव्यात् इति। अस्मादो द्वितीयबहुवचनान्तस्य बहुवचनस्य वस्नसौ (8.1.21) इति नसि रुत्वे अतो रोरप्लुतादप्लुते (6.1.113) इत्युत्त्वे आद्? गुणः (6.1.84) इति गुणे कृते नो इति भवति। अव रक्षणे (धा।प।600) इत्यस्मादाशिषि लिङि यासुटि तिपि इतश्च (3.4.97) इतीकारलोपे स्कोः संयोगाद्योरन्ते च (8.2.29) इति सकरलोपे च कृते अव्यात् इति भवति। अवद्यात इति। अवद्यशब्दोऽयं पञ्चम्येकवचनान्तः। अवक्रमुः इति। अवपूर्वात्? क्रमेर्लिटउसि रूपमेतत्। अन्ये तु लुङि वर्णयन्ति - बहुलं छन्दसि (7.4.78) इति च्लेः श्लुः, श्लौ (6.1.10) इति द्विर्वचनम्, जुस्भावश्छान्दसः। अवन्तु इति। अवतेर्लोट्, झेरन्तादेशः, एरुः (3.4.76) इत्युत्त्वम्। अवस्यवः इति। अवतेः सर्वधातभ्योऽसुन् (द।उ।9।49) इति असुन् - अवस्? इति, ततः सुप आत्मनः क्यच् (3.1.8) इति क्यच्, तदन्तात्? क्याच्छन्दसि (3.2.170) इत्युप्रत्ययः, ततो जस्, जसि च (7.3.109) इति गुणः - ओकारः, एचोऽयवायावः (6.1.78) इत्यवादेशः॥
Prakriyasarvasvam¶
एषु परेष्वेङ् प्रकृत्या स्यात् । व्यपपरत्वादुक्तिः । वसुभिर्नो अव्यात् । मित्रमहो अवद्यात् । मा शिवासो अवक्रमुः । अवचक्रमुरिति पाठे प्रयोगो मृग्य इति रामः । ते नो अव्रताः । शतधारो अयं मणिः । ते नो अवन्तु पितरः । इति यजुषि । कुशिकासो अवस्यवः ।