61107: अमि पूर्वः¶
Padacheda: अमि | S | 7 | 1 |
पूर्वः | S | 1 | 1 |
Sutrartha¶
अक्-वर्णात् अम्-प्रत्ययस्य अकारे परे पूर्वपरयोः एकः पूर्वरूप-एकादेशः भवति ।
अक्-वर्णात् प्रथमाद्वितीयाविभक्त्योः अजादिप्रत्यये परे प्रथमयोः पूर्वसवर्णः (6.1.102) इत्यतेन पूर्वसवर्णदीर्घे प्राप्ते, अम्-प्रत्यये परे एतम् पूर्वसवर्णदीर्घं बाधित्वा प्रकृतसूत्रेण पूर्वरूपैकादेशः विधीयते ।कानिचन उदाहरणानि एतानि — 1. अजन्तशब्दानाम् द्वितीयैकवचनस्य रूपसिद्धौ प्रकृतसूत्रेण पूर्वरूपैकादेशः भवति —
राम / हाहा / माला / मुनि / मति / नदी / साधु / धेनु / हूहू / वधू + अम्
→ रामम् / हाहाम् / मालाम् / मुनिम् / मतिम् / साधुम् / हूहूम् / वधूम् [ **प्रथमयोः पूर्वसवर्णः** (6.1.102) इत्यनेन पूर्वसवर्णदीर्घे प्राप्ते तद्बाधित्वा **अमि पूर्वः** (6.1.107) इति पूर्वरूपैकादेशः]
त्यदादिगणस्य “त्यद्”, “तद्”, “यद्”, “एतद्”, “किम्” एतादृशानां शब्दानां द्वितीयैकवचनस्य प्रक्रियायाम् अपि प्रकृतसूत्रं प्रयुज्यते । यथा —
तद् + अम् [द्वितीयैकवचनस्य अम्-प्रत्ययः]
→ तअ + अम् [**त्यदादीनामः** (7.2.102) इति अकारादेशः]
→ त + अम् [**अतो गुणे** (6.1.97) इति पररूपम्]
→ तम् [**अमि पूर्वः** (6.1.107) इति पूर्वरूपम् ]
<br/>
एवमेव "त्यम्", "यम्", "एतम्" एतानि रूपाणि अपि सिद्ध्यन्ति । "किम्"शब्दस्य प्रक्रियायाम् **किमः कः** (7.2.103) इत्यनेन क इति आदेशे कृते ततः **अमि पूर्वः** (6.1.107) इति पूर्वरूपं कृत्वा "कम्" इति रूपं सिद्ध्यति । स्त्रीलिङ्गे अपि अदन्त-आदेशात् अनन्तरम् टाप्-प्रत्यये कृते ततः **अमि पूर्वः** (6.1.107) इति पूर्वरूपे कृते "ताम्", "त्याम्", "याम्", "एताम्", "काम्" इत्यादीनि रूपाणि सिद्ध्यन्ति ।
प्रकृतसूत्रस्य प्रयोगः युष्मद्/अस्मद्-सर्वनाम्नोः प्रथमाविभक्तेः त्रयाणां रूपाणां सिद्धौ अपि भवति । यथा —
युष्मद् + सुँ [प्रथमैकवचनस्य प्रत्ययः]
→ युष्मद् + अम् [**ङेः प्रथमयोरम्** (7.1.28) इति सुँ-प्रत्ययस्य अम्-आदेशः]
→ त्व अद् + अम् [**त्वाहौ सौ** (7.2.94) इति युष्म्-इत्यस्य त्व-आदेशः]
→ त्व अ ० + अम् [**शेषे लोपः** (7.2.90)
→ त्व + अम् [**अतो गुणे** (6.1.97) इति पररूपम्]
→ त्वम् [**अमि पूर्वः** (6.1.107) इति पूर्वरूपम् ]
<br/>
एवमेव "युवाम्, यूयम्, त्वाम्, अहम्, आवाम्, वयम्, माम्" — एतेषाम् प्रक्रियायाम् अपि प्रकृतसूत्रस्य प्रयोगः भवति ।
अकारान्तनपुंसकलिङ्गशब्दाम् प्रथमैकवचनस्य, द्वितीयैकवचनस्य सम्बोधनैकवचनस्य रूपसिद्धौ अपि इदं सूत्रम् उपयुज्यते —
फल + सुँ / अम्
→ फल + अम् [**अतोऽम्** (7.1.24) ]
→ फलम् [**अमि पूर्वः** (6.1.107) ]
लङ्लकारस्य अम्-प्रत्ययस्य विषये अस्य सूत्रस्य प्रयोगः
बालमनोरमायाम् भू-धातोः विषये लङ्लकारस्य उत्तमपुरुषैकवचनस्य अम्-प्रत्यये परे इदम् एव सूत्रम् उपयुज्य रूपसिद्धिः क्रियते । तत्र इतश्च (3.4.100) इत्यस्मिन् सूत्रे उच्यते - अभवम् इति मिपः अमादेशे शपि गुणे अवादेशे, पूर्वरूपम् — इति । इत्युक्ते, बालमनोरमाकारस्य मतेन “अभव + अम्” इत्यत्र अतो गुणे (6.1.97) इति सूत्रम् परत्वात् बाधित्वा अमि पूर्वः (6.1.107) इत्यनेन पूर्वरूपैकादेशे कृते ‘अभवम्’ इति रूपं सिद्ध्यति । वस्तुतस्तु अयं विषयः चिन्त्यः, यतः अमि पूर्वः (6.1.107) इत्यस्य विशेषप्रयोगस्य लङ्लकारस्य प्रक्रियायाम् न हि किञ्चन प्रयोजनम् वर्तते — तत्र अतो गुणे (6.1.97) इत्यनेन गुणैकादेशे कृते अपि साधु रूपम् एव सिद्ध्यति । अपि च, प्रथमयोः पूर्वसवर्णः (6.1.102) इत्यस्य अपवादरूपेण पाठितम्, अतएव केवलं द्वितीयैकवचनस्य अम्-प्रत्ययस्य विषये विद्यमानम् इदं सूत्रम् तिङन्तप्रक्रियायाम् कथं प्रयोगम् अर्हति इत्यस्मिन् विषये अन्यत्र कुत्रापि न किञ्चिदपि विवरीतम् अस्ति । यदि च अमि पूर्वः (6.1.107) इति सूत्रम् सर्वेषाम् अपि ‘अम्’ शब्दानाम् कृते उपयोक्तुम् शक्यम् स्यात्, तर्हि अव्ययसंज्ञके ‘अम्’ शब्दे परे अस्य प्रयोगस्य अतिप्रसङ्गः स्यात् । अतः इदम् सूत्रम् केवलम् प्रथमा-द्वितीययोः अम्-प्रत्ययस्य कृते एव प्रयोक्तव्यम् इत्येव उचितः निर्णयः ।
प्रथमाद्वितीयां विहाय अन्येषु विभक्तिप्रत्ययेषु परेषु अस्य सूत्रस्य प्रयोगः
युष्मद्/अस्मद्-सर्वनाम्नोः चतुर्थ्यैकवचनस्य प्रक्रियायाम् प्रत्ययस्य अम्-आदेशः भवति । एतादृशे आदेशे कृते अमि पूर्वः (6.1.107) इत्यनेन पूर्वरूपे कृते अपि इष्टं रूपं सिद्ध्यति, अथ वा अतो गुणे (6.1.97) इति पररूपे कृते अपि इष्टरूपं सिद्ध्यति । यथा —
युष्मद् / अस्मद् + ङे [चतुर्थ्येकवचनस्य प्रत्ययः]
→ युष्मद् / अस्मद् + अम् [**ङे प्रथमयोरम्** (7.1.28) इति अमादेशः]
→ तुभ्यद् / मह्यद् + अम् [**तुभ्यमह्यौ ङयि** (7.2.95) इति तुभ्य / मह्य - आदेशः]
→ तुभ्य + मह्य + अम् [**शेषे लोपः** (7.2.90) इति दकारलोपः]
→ तुभ्यम् / मह्यम् [**अमि पूर्वः** (6.1.107) इति पूर्वरूपैकादेशः, अथ वा **अतो गुणे** (6.1.97) इति पररूपैकादेशः]
यद्यपि अत्र अमि पूर्वः (6.1.107) इत्यस्य प्रयोगः कर्तुं शक्यः, तथापि एतादृशस्य प्रयोगस्य साधुत्वार्थम् अमि पूर्वः (6.1.107) इति सूत्रम् नैव रचितम् ; अपि तु अम्-प्रत्यये परे प्रथमयोः पूर्वसवर्णः (6.1.102) इत्यनेन प्राप्तस्य अनिष्टस्य पूर्वसवर्णदीर्घस्य बाधं कृत्वा इष्टस्य अकारैकादैशस्य प्राप्त्यर्थम् अमि पूर्वः (6.1.107) इति सूत्रम् विरचितम् अस्ति — इति स्मर्तव्यम् ।
वैदिकप्रयोगेषु विकल्पः
वैदिकप्रयोगेषु कुत्रचित् अमि पूर्वः (6.1.107) इति सूत्रम् विना अपि द्वितीयैकवचनस्य रूपम् प्रयुक्तं दृश्यते । यथा, गौरीं च गौर्यं च (ऋग्वेदः 10.126.8) - इत्यत्र ‘गौरी’ शब्दस्य प्रथमाद्विवचनस्य अम्-प्रत्यये परे अमि पूर्वः (6.1.107) इत्यनेन प्राप्तम् पूर्वरूपम् विकल्प्यते, येन पक्षे इको यणचि (6.1.77) इति यणादेशं कृत्वा ‘गौर्यम्’ इति रूपम्, पक्षे च अमि पूर्वः (6.1.107) इत्यनेन पूर्वरूपं कृत्वा ‘गौरीम्’ इत्यपि रूपं सिद्ध्यति । एतादृशानाम् रूपाणाम् साधुत्वज्ञापनार्थम् वा छन्दसि (6.1.107) इति पूर्वसूत्रम् अत्र सम्पूर्णरूपेण अनुवर्त्यते, येन ‘अमि पूर्वः, छन्दसि वा’ इति सूत्रम् सिद्ध्यति, येन वेदेषु अस्य सूत्रस्य पाक्षिकत्वम् स्पष्टम् भवति ।
सूत्रे ‘अचि’ इत्यस्य अनुवृत्तिः
सिद्धान्तकौमुद्याम् अस्मिन् सूत्रे ‘अचि’ इति पदस्य इको यणचि (6.1.77) इत्यतः अनुवृत्तिः स्वीक्रियते । ‘अमि अचि’ इति अस्य अन्वयं कृत्वा ‘अम्-इत्यस्य अच्-वर्णे परे’ इति अर्थविधानम् अत्र कृतम् अस्ति । अस्य प्रयोजनम् बालमनोरमायाम् उच्यते — <source> अचि इति अननुवृत्तौ अकः अमि परे पूर्वपरयोः पूर्वरूपमैकादेशः स्याद् इति लभ्यते, तथा सति अमः मकारसहितस्य पूर्वरूपम् स्यात्, तत् मा भूत् इति अजनुवृत्तिः । <light>— अमि पूर्वः सूत्रे बालमनोरमा ।<light> </source> परन्तु एतादृशी अनुवृत्तिः वस्तुतः नैव आवश्यकी, यतः ‘अमि’ इत्यत्र आदेः परस्य (1.1.54) इत्यनेन आदिवर्णस्यैव ग्रहणम् सम्भवति । अयमेव बिन्दुः तत्त्वबोधिन्याम् अपि स्पष्टीकृतः अस्ति — <source> कथं तर्हि काशिकादौ अमि परतः इत्येव उक्तम्, न तु अमि अचि इति चेद्, अत्र आहुः — तस्मादित्युत्तरस्य (1.1.67), आदेः परस्य (1.1.54) इति आदेः एव आदेशः इति निर्णिते एकः पूर्वपरयोः (6.1.84) इति आदेशः पूर्वपरयोः वर्णयोः एव भविष्यति, इत्याशयेन न उक्तम् । <light>— अमि पूर्वः सूत्रे तत्त्वबोधिनी ।<light> </source>
Sutrartha (English)¶
When a letter from the अक् प्रत्याहार is followed अकार of the अम्-प्रत्यय, both the letters are combined to form a पूर्वरूप-एकादेश.
Vasu English Summary¶
There is the single substitution of the first vowel, when a simple vowel is followed by the अ of the case ending अम्।
Vasu English Translation¶
There is the single substitution of the first vowel, when a simple vowel is followed by the अ of the case ending अम्। The word अकः is understood here. Thus वृक्ष + अम् = वृक्षम् (7.1.24) प्लक्षम्, अग्नि + अम् = अग्निम्, वायुम् ॥ The word पूर्व ‘antecedent, first’ in the sutra shows that the first vowel itself is substituted and not any of its homogenous vowels. Otherwise in कुमारी + अम् = कुमारीम् the ई would have been of three matras or measures, as it comes in the room of ई + अ, the aggregate matras of which are three.
In the Vedas, there is option, as शमीं or शम्यं, गौरीं or गौर्यम् ॥ अम् is the ending of the Accusative singular of all genders and also of the nominative singular in the Neuter in certain cases. (See (7.1.23), (7.1.24) and (7.1.28).
Bhashya¶
अमि पूर्वः (2544) (पूर्वरूपाधिकरणम्) (छन्दसि विकल्पबोधकं भाष्यम्) वा च्छन्दसीत्येव । यमीं च यम्यं च, शमीं च शम्यं च, गौरीं च गौर्यं च, किशोरीं च किशोर्यं च ॥
Kashika¶
अक इत्येव। अमि परतोऽकः पूर्वपरयोः स्थाने पूर्वरूपम् एकादेशो भवति। वृक्षम्। प्लक्षम्। अग्निम्। वायुम्। पूर्वग्रहणं किम् ? पूर्व एव यथा स्यात्, पूर्वसवर्णोऽन्तरतमो मा भूदिति, कुमारीमित्यत्र हि त्रिमात्रः स्यात्। वा छन्दसीत्येव — शमीं॑ च(काठ० सं० ३६.६), शम्यं च। गौरीं च, गौ॒र्यं॑(ऋ०४.१२.६) च॥
Siddhanta Kaumudi¶
अकोऽम्यचि परतः पूर्वरूपमेकादेशः स्यात् । रामम् । रामौ ॥
Laghu Siddhanta Kaumudi¶
अकोऽम्यचि पूर्वरूपमेकादेशः। रामम्। रामौ॥
Balamanorama¶
अमि पूर्वः -अकः सवर्ण॑ इति बाधित्वा ‘अतो गुण’ इति पररूपं प्राप्तम्-तद्बाधित्वा॒प्रथमयो॑रिति पूर्वसवर्णदीर्घे प्राप्ते — अमिपूर्वः । ‘अकः सवर्णे दीर्घ’ इत्यतोऽक इति पञ्चम्यन्तमनुवर्तते ।एकः पूर्वपरयो॑रित्यधिकृतम् ।इको यणची॑त्यतोऽचीत्यनुवर्तते । तदाह — अकोऽम्यचीति । अमि विद्यमानो योऽच् तस्मिन् परे इत्यर्थः ।राम॑मिति मकारादकारस्य अमवयवाऽकारस्य च पूर्वरूपमकार एको भवति । अचीत्यनुवृत्तौअकोऽमि परे पूर्वपरयोः पूर्वरूपमेकादेशः स्या॑दिति लभ्यते । तथा सति अमो मकारसहितस्य पूर्वरूपं स्यात् । तन्मा भूदित्यजनुवृत्तिः । रामाविति । राम औडिति स्थिते हलन्त्यमिति टकारस्य इत्संज्ञायां लोपः औटष्टकारः सुडिति प्रत्याहारार्थः ।
Tattvabodhini¶
अमि पूर्वः - अमिपूर्वः ।प्रथमयो॑रिति पूर्वसवर्णदीर्घे प्राप्तेऽयमारम्भः ।इको यणची॑त्यतोऽचीत्यनुवर्तते, तदाह — अम्यचीति । अमि योऽच् तस्मिन् । अमोऽवयवे अचीति यावत् । तेन मकारसहितस्य पूर्वरूपं नेति स्थितं मनोरमायाम् । एवम्अक्षादूहिन्या॑मित्यादावपिऊहिन्यां योऽच्तस्मि॑न्नित्यादि बोध्यम् ।पदास्वैरिबाह्रे॑त्यादिनिर्देशाश्चास्मिन्व्याख्याने लिङ्गमित्यपि स्थितम् । कथं तर्हि काशिकादावमि परत इत्येवोक्तं, न त्वम्यचीति चेदत्राहुः-॒तस्मादित्युत्तरस्या,॑आदेः परस्ये॑त्यादेरेवादेश इति निर्णीतेएकः पूर्वपरयो॑रित्यादेशः पूर्वपरयोर्वर्णयोरेव भविष्यतीत्याशयेन नोक्तमिति ।
Padamanjari¶
‘दूर्घात्’ इति नानुर्क्तते, आरम्भसामर्थ्यात्। पूर्वग्रहणमित्यादि। यः पूर्वः श्रुतः, स एव यथा स्यात्, कः पुनरन्यः प्राप्नोति ? तत्राह -पूर्वसवर्णो दीर्घो मा भूदिति। क्वचितु समासः पठ।ल्ते, स कर्मधारयो द्रष्टव्य। एतदुक्तं भवति -असतीह पूर्वह्रहणे प्रकृतं पूर्वग्रहणमनुवर्त्यम्, तस्मिंश्चानुवर्तमाने तत्सम्बद्धं सवर्णग्रहणमप्यनुवर्त्यम्, ततश्च पूर्वस्य यः सवर्णः स एवान्तरतमः प्रसज्येत, तत्र को दोषः ? न तावद्वृक्षमित्यातदौ द्विमात्रस्य स्थानित्वेन द्विमात्रप्रसह्गः, वचनसामर्थ्यात्’प्रथयोः पूर्वसवर्णः’ इत्येव दीर्घस्य सिद्धत्वात् ? अत आह -कुमारीमित्यत्रेति। वा च्छन्दसीत्येवेति। एतच्च वाक्यभेदेन सम्बद्ध्यते, अन्यथा भाषायां न स्यात्। शम्यं चेति। विकल्पविदानसामर्थ्यात्पूर्वत्वाभावे पूर्वसवर्णदीर्घोऽपि न भवति, तयोरत्र विशेषाभावादिति यणादेश एव भवति ॥
Nyaas¶
पूर्वसवर्णदीर्घत्वे प्राप्ते वचनमिदम्। दीर्घ इति चेहानुवर्तते, अन्यथा हीदं वचनमनर्थकं स्यात्। अथ पूर्वग्रहणं किमर्थम्, यावता प्रकृतं यत्? पूर्वंग्रहणं तदेवेहानुवर्त्तिष्यत इति? अत आह -पूर्वग्रहणम् इत्यादि। यथाजातीयकः पूर्वस्तथाजातीयक एव यथा स्यादित्येवमर्थं पूर्वग्रहणम्। एवकारेण यद्व्यवच्छिन्नं तद्दर्शयितुमाह -पूर्वसवर्णान्तरतमो मा भूत् इति। पूर्वसवर्णश्चासावन्तरतमश्चेति कर्मधारयः। असति हि पूर्वग्रहणे यत्? पूर्वकं पूर्वग्रहणं तेनैवानुवर्त्तितव्यम्, तस्मिश्चानुवर्तमाने ततसम्बद्धं सव्रणग्रहणपि अनुवर्तेत, तथा च स्थानेऽन्तरतमः (1.1.50) इत्यनया परिभाषया पूर्वस्य यः सवर्णः स एव परसज्येत। किं पुनरेवं सत्यनिष्टं स्यात्, वृक्षमित्यादौ द्विमात्रस्य स्थानिनो द्विमात्र एव स्यादिति चेत्? नैतदस्ति; एवं हि वचनमिदमनर्थकं स्यात्, प्रथमयोः पूर्वसवर्णः (6.1.102) इत्यनेन सिद्धत्वादित्यत आह -कुमारिमित्यत्र हि इत्यादि। कुमारीशब्दस्येकारो द्विमात्रः, अमोऽकारो मात्रिकः; तत्समुदायात्मकश्चात्र स्थानी, तत्र पूर्वसवर्णो विधीयमानस्त्रिमात्रलस्य स्थानिनोऽन्तरतमस्त्रिमात्र एव स्यात्, पूर्वग्रहणे तु सति यथाजातीयक एव पूर्वः, तथाजातीयक एव द्विमात्रो भवति। वा छन्दसीत्येव इत्यादि। यदि तरहि वा छन्दसि (6.1.106) इत्यनुवर्तते, तेन सहास्यैकवाक्यतायां भाषायां परपूर्वत्वं न सिध्यति? नैतदस्ति; यस्मात्? तदिहानुवर्तमानं पूर्ववद्वाक्यभेदेन च्छन्दस्येव विकल्पं करोति, न भाषायाम्॥
Praudhamanorama¶
अम्यचीति। अमि योऽच् तस्मिन्। अमोऽवयवेऽचीति यावत्। तेन मकारसहितस्य न पूर्वरूपम्। एवम् अक्षादूहिन्यामित्यादावपि ऊहिन्यां योऽच् तस्मिन्नित्यादि बोध्यम्। ‘इको यणचि’ इत्यज्ग्रहणस्यानुवृत्तेर्निर्विवादत्वात्। ‘पदास्वैरिबाह्या—’ इत्यादिनिर्देशाश्चेह
Prakriyasarvasvam¶
अकोऽमि विभक्तौ परतः पूर्वरूपमेव स्यात् । उपकृष्णं रम्यम् । उपकृष्णं पश्य । पञ्चम्यां तु उपकृष्णादागतः ॥
Sarala¶
इको यणचि (६.१.७७) इत्यतोऽचीति एकः पूर्वपरयोः (६.१.८४) इति चानुवर्ततेऽत आह - अचीति ॥
Sudha¶
अमि पूर्व इति । अकः सवर्णे दीर्घः**(6.1.101) इत्यतः अक इति पञ्चम्यन्तमनुवर्तते । **एकः पूर्वपरयोः**(6.1.84) इत्यधिकारः । **इको यणचि**(6.1.77) इत्यतोऽचि इत्यनुवर्तते, तदाह - **प्रकोऽन्यचीत्यादिना | राममिति । रामशब्दात् द्वितीयैकवचनविवक्षायां अमि प्रत्यये समागते “राम अम्” इतिदशायाम् अमि पूर्वः**(6.1.107) इत्यनेन पूर्वपरयोः स्थाने पूर्वरूपैकादेशे कृते “रामम्” इति सिद्धम् । **रामाविति । रामशब्दात् द्वितीयाया द्विवचनविवक्षायाम् औटि कृते ‘राम राम औ’ अत्र **सरूपाणामेकशेष एकविभक्तौ**(1.2.64) इति एकराम अवशिष्टे सति रेफस्येत्संज्ञायां लोपे च **वृद्धिरेचि**(6.1.88) इत्यनेन वृद्धौ प्राप्तायां ताम्बाधित्वा **प्रथमयोः पूर्वसवर्णः**(6.1.102) इत्यनेन पूर्वसवर्णदीर्घे प्राप्ते तस्य **नादिचि**(6.1.104) इत्यनेन निषेधे कृते **वृद्धिरेचि**(6.1.88) इत्यनेन वृद्धौ कृतायाम् “रामौ” इति सिद्धयति ।
Sutra Prayogas¶
स्त्रीम् (शिशुपालवधम्): अमि पूर्वः इति पूर्वरूपम्।