61106: वा छन्दसि

Padacheda: वा | S | 0 | 0 |

छन्दसि | S | 7 | 1 |

Sutrartha

**दीर्घाज्जसि च (6.1.105) इत्यनेन उक्तः पूर्वसवर्णदीर्घनिषेधः वैदिकप्रक्रियायाम् विकल्प्यते ।**

प्रथमयोः पूर्वसवर्णः (6.1.102) इत्यनेन सूत्रेण निर्दिष्टस्य पूर्वसवर्णदीर्घस्य दीर्घात् जसि च (6.1.105) इत्यनेन विहितः निषेधः वैदिकरूपेषु विकल्पेन एव भवति । इत्युक्ते, दीर्घवर्णात् जस्-प्रत्यये परे / प्रथमा-द्वितीययोः इच्-वर्णे परे **दीर्घात् जसि च (6.1.105) इत्यनेन प्राप्त: निषेधः रूपसिद्ध्यर्थम् कुत्रचित् क्रियते, कुत्रचित् वा न क्रियते ।** यथा - मानुषीः ईळते विशः (ऋग्वेदः 5.8.3) इत्यत्र ‘मानुषीः’ इति मानुषीशब्दस्य प्रथमाबहुवचनस्य रूपम् अस्ति । एतत् रूपम् तदा एव सम्भवति यदा दीर्घाज्जसि च (6.1.105) इत्यनेन जस्-प्रत्यये परे उक्तः पूर्वसवर्णनिषेधः न प्रवर्तते —

मानुषी + जस्
→‌ मानुषी + अस् [इत्संज्ञालोपः]
→ मानुषीस् [**प्रथमयोः पूर्वसवर्णः** (6.1.102) इत्यनेन प्राप्तं पूर्वसवर्णस्य **दीर्घाज्जसि च** (6.1.105) इत्यनेन प्राप्तः निषेधः वैदिकरूपसिद्ध्यर्थम् **वा छन्दसि** (6.1.106) इत्यनेन पक्षे न भवति । अतः अत्र **प्रथमयोः पूर्वसवर्णः** (6.1.102) इत्यनेन पूर्वसवर्णदीर्घे कृते एव रूपं सिद्ध्यति ।
→ मानुषीः [रुत्वविसर्गौ]

अग्रिमसूत्रयोः अपि विकल्पः

अमि पूर्वः (6.1.107) तथा समप्रसारणाच्च (6.1.108) एतयोः अग्रिमसूत्रयोः अपि वा छन्दसि (6.1.106) इत्यस्य अनुवृत्तिं कृत्वा एतयोः सूत्रयोः विषये अपि वैदिकरूपसिद्ध्यर्थम् तत्तत्कार्यस्य विकल्पः विधीयते । यथा — 1) गौरीं च गौर्यं च (ऋग्वेदः 10.126.8) - इत्यत्र ‘गौरी’ शब्दस्य प्रथमाद्विवचनस्य अम्-प्रत्यये परे अमि पूर्वः (6.1.107) इत्यनेन प्राप्तम् पूर्वरूपम् विकल्प्यते, येन पक्षे इको यणचि (6.1.77) इति यणादेशं कृत्वा ‘गौर्यम्’ इति रूपम्, पक्षे च अमि पूर्वः (6.1.107) इत्यनेन पूर्वरूपं कृत्वा ‘गौरीम्’ इत्यपि रूपं सिद्ध्यति । 2) एवैनं देवतेज्यमाना भूत्या… (तैत्तिरीयसंहिता 2.5.4.5) - इत्यत्र विद्यमानः ‘इज्यमानः’ इति शब्दः यज्-धातोः कर्मणि-शानच्-प्रत्ययान्तरूपम् अस्ति । अस्य प्रक्रियायाम् यज्-धातोः यकारस्य सम्प्रसारणे कृते, ततः सम्प्रसारणाच्च (6.1.108) इत्यनेन प्राप्तम् पूर्वरूपम् वैदिकप्रक्रियायां विकल्प्यते, अतः पूर्वरूपस्य स्थाने पुनः यणादेशं कृत्वा यकारघटितम् ‘यज्यमान’ इति रूपं सिद्ध्यति । प्रक्रिया इयम् —

यज् + लट् [**वर्त्तमाने लट्**  (3.2.123) इति लट्]
→ यज् + यक् +  शानच् [**लटः शतृशानचावप्रथमासमानाधिकरणे** (3.2.124) इति शानच्-प्रत्ययः । **सार्वधातुके यक्** (3.1.67) इति यक्]
→ यज् + य +  मुक्  + आन [**आने मुक्** (7.2.82) इति अङ्गस्य मुक्-आगमः]
→ इ अज् + य + म् + आन [**वचिस्वपियजादीनां किति** (6.1.15) इति यकारस्य  सम्प्रसारणम्  इकारः]
→  यज् + य + म् + आन [**सम्प्रसारणाच्च** (6.1.108) इत्यनेन पूर्वरूपे प्राप्ते, वेदेषु **वा छन्दसि** (6.1.106) इति विकल्पः । अतः इकार-अकारयोः **इको यणचि** (6.1.77) इत्यनेन यणादेशं कृत्वा पुनः 'य' इति सिद्ध्यति ।]
→ यज्यमानः ।

पक्षे सम्प्रसारणाच्च (6.1.108) इत्यनेन पूर्वरूपैकादेशे कृते ‘इज्यमान’ इति रूपं अपि वेदेषु दृश्यते एव ।

Sutrartha (English)

The पूर्वसवर्णदीर्घनिषेध given by the sutra ‘दीर्घाज्जसि च’ is optional while deriving the Vedic forms.

Vasu English Summary

In the Vedas, the long vowel may optionally be the single substitute of both vowels in these cases last mentioned.

Vasu English Translation

In the Vedas, the long vowel may optionally be the single substitute of both vowels in these cases last mentioned. Thus मारुतीः or मारुत्यः, पिण्डीः or पिण्ड्यः, वाराही or वाराह्यौ; उपानही or उपानह्यौ ॥

Kashika

दीर्घात् छन्दसि विषये जसि च इचि च परतो वा पूर्वसवर्णदीर्घो न भवति। मारुती॑॑श्च॑॑तस्रः (काठ० सं० ११.१०) पिण्डीः। मारुत्यश्चतस्रः पिण्ड्यः। वा॑॑रा॒ही उपा॒न॑॑हा (मै० सं० ४.४.६)। वाराह्यौ उपानह्यौ (लौ० गृ० ३.७)॥

Siddhanta Kaumudi

दीर्घाज्जसि इचि च पूर्वसवर्णदीर्घो वा स्यात् । वाराही । वाराह्यौ । मानुषीरीळते विशः (मानु॑षीरीळते॒ विशः॑) । उत्तरसूत्रद्वयेऽपीदं वाक्यभेदेन संबध्यते । तेनामि पूर्वत्वं वा स्यात् । शमीं च शम्यं च । सूर्मं सुषिरामिव (सू॒र्मं॑ सुषि॒रामि॑व) । संप्रसारणाच्च (SK330) इति पूर्वरूपमपि वा । इज्यमानः । यज्यमानः ॥

Padamanjari

मारुतीरिति। मरुतो देवता आसामिति’सास्य देवता’ इत्यण्, ङीप्, जसि पूर्वसवर्णदीर्घत्वम्। वाराहीति। वराहस्य विकार इति ठवयवे च प्राण्योषधिवृक्षेभ्यःऽ इति’प्राणिरजतादिभ्यो’ ञ्ऽ, ङीप्, द्विवंचने पूर्वसवर्णदीर्घः। उपानहौ विशेष्ये ॥

Nyaas

मारुतीः इति। मरुद्देवता आसामिति सास्य देवता (4.2.24) इत्यण्? टिड्ढाणञ् (4.1.15) इति ङीप्; सवर्णदीर्घत्वम्। वाराहीः [वाराही - काशिका पदमंजरी च] इति। वराहस्य विकार ति अवयवे च प्राण्योषधिवृक्षेभ्यः (4.3.135) इत्यण्, पूर्ववन्ङीप्। उपानही इति। षिद्गौरादिभ्यश्च (4.1.41) इति ङीष्॥

Prakriyasarvasvam

दीर्घाज्जसीचि च परे पूर्वसवर्णदीर्घो वा न स्यात् । देव्य इति प्राप्ते देवीरापः । मह्यावित्यत्र तु महीद्यावापृथिवी । वेत्युक्तेः नद्यो मातृतमाः । ‘अमिपूर्वः’ (६-१-१०७) इत्यत्रापि वा छन्दसि इत्यनु७वृत्तेः (त्ते) । अन्यामन्यां नद्यम् । ‘सम्प्रसारणाच्च’ (६-१-१०८) इत्यत्रापि तदनुवृत्तेः मित्रावरुणौ यज्यमा८नौ इत्यत्र यजेर्यकि सम्प्रसारणे कृते अकारस्य पूर्वरूपत्वाभावात् पुनर्यण् ।