61108: सम्प्रसारणाच्च¶
Padacheda: सम्प्रसारणात् | S | 5 | 1 |
च | S | 0 | 0 |
Sutrartha¶
सम्प्रसारणसंज्ञकात् वर्णात् अच् वर्णे परे पूर्वपरयोः एकः पूर्वरूप-एकादेशः भवति ।
यण्-वर्णस्य स्थाने विधीयमानः इक्-वर्णः इग्यणः सम्प्रसारणम् (1.1.45) इत्यनेन सूत्रेण सम्प्रसारणसंज्ञकः भवति । अस्याः प्रक्रियायाः निर्देशः अपि ‘सम्प्रसारणम्’ इत्यननैव क्रियते । एतादृशे सम्प्रसारणे कृते, प्रारम्भे यण्-वर्णात् अनन्तरम् विद्यमानः अच्-वर्णः अनेन सम्प्रसारणसंज्ञकेन वर्णेन सह पुनः यणादेशं मा कार्षीत् इति स्पष्टीकर्तुम् प्रकृतसूत्रेण सम्प्रसारणसंज्ञकवर्णस्य अच्-वर्णेन सह पूर्वरूपम् उच्यते । इत्युक्ते, “य (= य् + अ)” इत्यत्र विद्यमानस्य यकारस्य सम्प्रसारणे इकारादेशे प्राप्ते, “ इ + अ” इति जाते पुनः इकार-अकारयोः यणादेशे यकारः मा भूत् इति हेतुना अत्र — *अकारस्य इकारेण एकादेशं कृत्वा इकारः एव सिद्ध्यति — * इति ज्ञापनार्थम् इदं सूत्रम् निर्मितम् अस्ति । उदाहरणानि एतानि — 1. यज्-धातोः निष्ठाप्रत्ययान्तस्य ‘इष्ट’ इति रूपस्य प्रक्रियायाम् वचिस्वपियजादीनां किति (6.1.15) इति सूत्रेण सम्प्रसारणं कृत्वा ततः सम्प्रसारणाच्च (6.1.108) इति सूत्रेण पूर्वरूपम् क्रियते —
यजँ (देवपूजासङ्गतिकरणदानेषु, भ्वादिः, (1.1157))
→ यज् + क्त [**निष्ठा** (3.2.102) इति क्त-प्रत्ययः]
→ इअज् + त [**वचिस्वपियजादीनां किति** (6.1.15) इत्यनेन कित्-प्रत्यये परे यकारस्य सम्प्रसारणम् इकारः । अत्र केवलं यकारस्य एव सम्प्रसारणम् भवति, 'य् + अ' इत्यस्य वर्णद्वयस्य न ।]
→ इ ज् त [इकार-अकारयोः **इको यणचि** (6.1.77) इत्यनेन यणादेशः भवति चेत् पुनः यकारस्य एव निर्माणम् भवेत् । तद्बाधित्वा**सम्प्रसारणाच्च** (6.1.108) इत्यनेन पूर्वरूप-एकादेशः इकारः विधीयते ]
→ इष् त [**व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः** (8.2.36) इति जकारस्य षकारः]
→ इष्ट [**ष्टुना ष्टुः** (8.4.41) इति ष्टुत्वम्]
युवन्-शब्दस्य चतुर्थ्येकवचनस्य रूपे श्वयुवमघोनामतद्धिते (6.4.133) इत्यनेन वकारस्य सम्प्रसारणे (उकारे) कृते ततः सम्प्रसारणाच्च (6.1.108) इति सूत्रेण पूर्वरूपम् क्रियते —
युवन् + ङे [चतुर्थ्येकवचनस्य प्रत्ययः]
→ यु उ अ न् + ए [**श्वयुवमघोनामतद्धिते** (6.4.133) इति वकारस्य सम्प्रसारणम् उकारः । ]
→ यु उ न् ए [उकार-अकारयोः **इको यणचि** (6.1.77) इत्यनेन यणादेशः भवति चेत् पुनः वकारस्य एव निर्माणम् भवेत् । तद्बाधित्वा**सम्प्रसारणाच्च** (6.1.108) इत्यनेन पूर्वरूप-एकादेशः उकारः विधीयते ।]
→ यूने [**अकः सवर्णे दीर्घः** (6.1.101) इति सवर्णदीर्घः]
‘त्रयाणाम् पूरणः’ अस्मिन् अर्थे ‘त्रि’ शब्दात् ‘तीय’ इति तद्धितप्रत्ययः विधीयते । प्रक्रियायाम् त्रेः सम्प्रसारणं च (5.2.55) इत्यनेन सम्प्रसारणम् भवति । सम्प्रसारणाच्च (6.1.108) इति सूत्रेण पूर्वरूपम् क्रियते । प्रक्रिया इयम् -
त्रयाणाम् पूरणः [तद्धितवृत्तिः]
त्रि + तीय [**त्रेः सम्प्रसारणं च** (5.2.55) इति तीय-प्रत्ययः ]
→ त् + ऋ + ई + तीय [**त्रेः सम्प्रसारणं च** (5.2.55) इत्यनेनैव सम्प्रसारणम् अपि भवति । रेफस्य सम्प्रसारणे ऋकारः जायते ।]
→ त् + ऋ + तीय [ऋकार-ईकारयोः **सम्प्रसारणाच्च** (6.1.108) पूर्वरूप-एकादेशः ऋकारः भवति ।]
→ तृतीय
पूर्वरूपैकादेशस्य सम्प्रसारणसंज्ञा न विद्यते
सम्प्रसारणसंज्ञकवर्णस्य तस्मात् अनन्तरम् विद्यमाननेन अच्-वर्णेन सह यः पूर्वरूपैकादेशः भवति, तस्य पुनः सम्प्रसारणसंज्ञा न भवति । यथा, “शकान् ह्वयति” इत्यत्र “ह्वे”-धातोः आदौ आदेच उपदेशेऽशिति (6.1.45) इत्यनेन आकारादेशे कृते, ततश्च क्विप्-प्रत्यये कृते,**वचिस्वपियजादीनां किति** (6.1.15) इत्यनेन वकारस्य सम्प्रसारणे उकारः, ततश्च उकार-आकारयोः सम्प्रसारणाच्च (6.1.108) इति पूर्वरूपं कृत्वा ततः हलः (6.4.2) इत्यनेन दीर्घादेशे कृते “शकहू” इति शब्दः सिद्ध्यति । अस्मिन् शब्दे विद्यमानः ऊकारः सम्प्रसारणप्रक्रियया निर्मितः नास्ति अपितु पूर्वरूपैकादेशं कृत्वा ततः दीर्घादेशं कृत्वा निर्मितः अस्ति, अतः अस्य सम्प्रसारणसंज्ञा न दीयते । यदि अस्यापि सम्प्रसारणसंज्ञा अभविष्यत्, तर्हि अस्य शब्दस्य प्रथमाद्विवचनस्य रूपे “शकहू + औ” इति स्थिते पुनः सम्प्रसारणाच्च (6.1.108) इत्यनेन अनिष्टः पूर्वरूपैकादेशः अभविष्यत् । परन्तु ऊकारस्य अत्र सम्प्रसारणसंज्ञायाः अभावात् तादृशः अनिष्टः प्रयोगः नैव सिद्ध्यति । अयमेव विषयः पदमञ्जर्याम् अपि स्पष्टीकृतः अस्ति — <source> यणः स्थाने यः इक्, सः सम्प्रसारणम् । एकादेशः तु न यण्स्थानिकः । वर्णाश्रयत्वात् च अन्तादिवद्भावः अपि नास्ति, एवम् पूर्वत्वम् एव तावत्, न सम्प्रसारणम् । किं पुनः, तत्स्थानिक ऊकारः इति पूर्वैकादेशाभावः । <light>The ऊ generated by the दीर्घादेश is not even a पूर्वरूप-एकादेश (the पूर्वरूप-एकादेश was ‘उ’), and hence there is no question of even thinking whether ऊ can be called सम्प्रसारणम् or not. </source> काशिकायाम् तु अयं विषयः किञ्चित् भिन्नरूपेण प्रतिपादितः अस्ति । तत्र काशिकाकारः वदति — अन्तरङ्गे च अचि कृतार्थम् वचनम् इति बाह्ये पश्चात् सन्निपतते पूर्वत्वं न भवति — इति । काशिकाकारस्य मतेन अत्र पूर्वरूपैकादेशेन प्राप्तस्य उकारस्य यद्यपि सम्प्रसारणसंज्ञा स्वीक्रियते, तथापि तस्याः सम्प्रसारणसंज्ञायाः पूर्वमेव (पूर्वरूप-एकादेशस्य प्रक्रियायाम्) चरितार्थत्वात् पुनः तद्विषयकम् कार्यं न प्रवर्तते — इति । <note>The above technique used by काशिका, where — the उत्तरपक्ष temporarily agrees to the incorrect assumptions of पूर्वपक्ष, just so as to have some common grounds for argument, and also because such an incorrect assumption still allows the उत्तरपक्ष to prove the right point — is known as अभ्युपाय. For instance, in the current case, even if the actual point is that ‘ऊ’ is not a सम्प्रसारणसंज्ञक letter, still काशिका assumes it otherwise (just to agree to a common ground with the पूर्वपक्ष), and then proceeds to prove the required result nevertheless (that सम्प्रसारणाच्च can’t still be applied). पदमञ्जरी aptly describes this attempt by saying — वृत्तिकारः तु सम्प्रसारणम् अभ्युपेत्य परिहारान्तरम् आह । </note>
वैदिकप्रयोगेषु विकल्पः
वैदिकप्रयोगेषु कुत्रचित् सम्प्रसारणादनन्तरम् सम्प्रसारणाच्च (6.1.108) इति सूत्रम् विना एव पुनः यणादेशम् एव कृत्वा रूपम् प्रयुक्तं दृश्यते । यथा, एवैनं देवतेज्यमाना भूत्या… (तैत्तिरीयसंहिया 2.5.4.5) - इत्यत्र विद्यमानः ‘इज्यमानः’ इति शब्दः यज्-धातोः कर्मणि-शानच्-प्रत्ययान्तरूपम् अस्ति । अस्य प्रक्रियायाम् यज्-धातोः यकारस्य सम्प्रसारणे कृते, ततः सम्प्रसारणाच्च (6.1.108) इत्यनेन प्राप्तम् पूर्वरूपम् वैदिकप्रक्रियायां विकल्प्यते, अतः पूर्वरूपस्य स्थाने पुनः यणादेशं कृत्वा यकारघटितम् ‘यज्यमान’ इति रूपं सिद्ध्यति । प्रक्रिया इयम् —
यज् + लट् [**वर्त्तमाने लट्** (3.2.123) इति लट्]
→ यज् + यक् + शानच् [**लटः शतृशानचावप्रथमासमानाधिकरणे** (3.2.124) इति शानच्-प्रत्ययः । **सार्वधातुके यक्** (3.1.67) इति यक्]
→ यज् + य + मुक् + आन [**आने मुक्** (7.2.82) इति अङ्गस्य मुक्-आगमः]
→ इ अज् + य + म् + आन [**वचिस्वपियजादीनां किति** (6.1.15) इति यकारस्य सम्प्रसारणम् इकारः]
→ यज् + य + म् + आन [**सम्प्रसारणाच्च** (6.1.108) इत्यनेन पूर्वरूपे प्राप्ते, वेदेषु **वा छन्दसि** (6.1.106) इति विकल्पः । अतः इकार-अकारयोः **इको यणचि** (6.1.77) इत्यनेन यणादेशं कृत्वा पुनः 'य' इति सिद्ध्यति ।]
→ यज्यमानः ।
पक्षे सम्प्रसारणाच्च (6.1.108) इत्यनेन पूर्वरूपैकादेशे कृते ‘इज्यमान’ इति रूपं अपि वेदेषु दृश्यते एव । एतादृशानाम् रूपाणाम् साधुत्वज्ञापनार्थम् वा छन्दसि (6.1.107) इति पूर्वसूत्रम् अत्र सम्पूर्णरूपेण अनुवर्त्यते, येन ‘सम्प्रसारणाच्च, छन्दसि वा’ इति सूत्रम् सिद्ध्यति, येन वेदेषु अस्य सूत्रस्य पाक्षिकत्वम् स्पष्टम् भवति ।
Sutrartha (English)¶
When a letter having the sanjna सम्प्रसारण is followed by an अच् letter, both of them are combined to form a पूर्वरूप-एकादेश.
Vasu English Summary¶
There is the single substitution of the first vowel for the vocalised semi-vowel and the subsequent vowel.
Vasu English Translation¶
There is the single substitution of the first vowel for the vocalised semi-vowel and the subsequent vowel. The word पूर्व is understood here. When a vocalised semi-vowel is followed by a vowel, the vocalised vowel is alone substituted, the subsequent vowel merging in it. Thus यज् + क्त = इअज् + क्त (6.1.15) = इष्टम् (इ + अ = इ); so उप्तम् (वप् + क्त = उअय् + त), ग्रह् + इत = गृअह् + इत = गृहीतं ॥ Had there not been this merging, the vocalisation would become either useless or the two vowels would have been heard separately without sandhi. Thus in वप् + त = उअप् + त, if the अ did not merge in उ, then it would cause sandhi, and उ would be changed to व् by इकोयणचि and the word would again assume the form वप् ॥ But this यणादेश would causes samprasarana rule non-effective, hence it follows that but for the present rule, the two vowels would have been heard separately as उ अप्त ॥
The rule of option in the Chhandas (6.1.106) applies here also. Thus we have यज्यमानौ मित्रावरुणौ or इज्यमानौ ॥ “When you have just said that the two vowels will remain separate and there will be no यणादेश when there is no purvavad-bhava we do you form यज्यमान्; it ought to be इ अज्यमान्”? We have only said that vocalisation rule becomes useless if there was not this rule of merging of the subsequent vowel; but where there is this rule of purva-vad-bhava, and only an option is allowed, then the rule of vocalisation does not become totally useless because it finds its scope in cases like इष्टः &c, therefore when in the alternative it is not applied, there यणादेश will take place naturally, and this ordinary rules of sandhi will apply. The merging, moreover, refers to the vowel which is in the same anga or base with the samprasarana. Thus शकान् ह्वयात = शकह्वा + क्विप् = शकह् उ आ = शखू ॥ Here आ which is in the same अङ्ग with हु merges in to उ ॥ But in forming the dual, we have शकहू + औ ॥ Here औ coming after the samprasarana ऊ does not merge therein, and we have शकह्वौ ॥ Similarly शकहू + अर्थं = शकह्वर्थम् ॥ In fact when once the para-purvatva has taken effect, then subsequent vowels will produce their effect because in the antaranga operation इ अ ष्ट into इष्ट, the purva-rupa is ordained to save the samprasarana from modification, but there is no such necessity when a Bahiranga operation is to be applied.
Bhashya¶
संप्रसारणाच्च (2545) (छन्दसि वेत्यस्य सम्बन्धबोधकं भाष्यम्) वाच्छन्दसीत्येव । मित्रावरुणौ यज्यमानः, मित्रावरुणौ इज्यमानः ॥ (6206 एकदेशिन उपसंख्यानवार्तिकम् ॥ 1 ॥) - संप्रसारणात्परपूर्वत्वे समानाङ्गग्रहणसमानाङ्गप्रतिषेधार्थम् - संप्रसारणात्परपूर्वत्वे समानाङ्गग्रहणं कर्तव्यम् । किं प्रयोजनम् ? असमानाङ्गप्रतिषेधार्थम् । असमानाङ्गस्य मा भूदिति - शकह्वर्थम्, परिव्यर्थम् ॥ (6207 उपसंख्यानानर्थक्यबोधकवार्तिकम् ॥ 2 ॥) - सिद्धमसंप्रसारणात् - सिद्धमेतत् । कथम् ? असंप्रसारणात् । कथमसंप्रसारणम् ? वाक्यस्य संप्रसारणसंज्ञा, न वर्णस्य ॥ अथ वर्णस्य संप्रसारणसंज्ञायां दोष एव । वर्णस्य च संप्रसारणसंज्ञायां न दोषः । कथम् ? अन्योऽयं संप्रसारणासंप्रसारणयोः स्थाने एक आदिश्यते ॥ (6208 एकदेशिनः समाधानान्तरवार्तिकम् ॥ 3 ॥) - कार्यकृतत्वाद्वा - अथवा सकृत् कृतं पूर्वत्वमिति कृत्वा पुनर्न भविष्यति । तद्यथा - वसन्ते ब्राह्मणोऽग्नीनादधीतेति सकृदाधाय कृतः शास्त्रार्थ इति कृत्वा पुनः प्रवृत्तिर्न भवति ॥ (एकदेशिसमाधानासङ्गतिबोधकभाष्यम्) विषम उपन्यासः । युक्तं यत्तस्यैव पुनः प्रवृत्तिर्न भवति । यत्तु तदाश्रयं प्राप्नोति न तच्छक्यं बाधितुम् । तद्यथा - वसन्ते ब्राह्मणोऽग्निष्टोमादिभिः क्रतुभिर्यजेत - इति अग्र्याधाननिमित्तं वसन्ते वसन्त इज्यते । तस्मात्पूर्वोक्त एव परिहारः - सिद्धमसंप्रसारणात् - इति ॥ (असंप्रसारणत्वे आक्षेपभाष्यम्) यदि तर्हि नेदं संप्रसारणम्, हूत इति दीर्घत्वं न प्राप्नोति ॥ (6209 समाधानवार्तिकम् ॥ 4 ॥) - दीर्घत्वं वचनप्रामाण्यात् - अनवकाशं दीर्घत्वं तद्वचनप्रामाण्याद्भविष्यति ॥ (6210 समाधानान्तरवार्तिकम् ॥ 5 ॥) - अन्तवत्त्वाद्वा - अथवा पूर्वस्य कार्यं प्रत्यन्तवद्भवतीति दीर्घत्वं भविष्यति ॥ (6211 एकादेशप्रकरणशेषे विप्रतिषेधोपसंख्यानवार्तिकम् ॥ 6 ॥) - आटो वृद्धेरियङ् - आटो वृद्धिर्भवतीत्येतस्मादियङ् भवति विप्रतिषेधेन । आटो वृद्धिर्भवतीत्यस्यावकाशः - ऐक्षिष्ट, ऐहिष्ट । इयङोऽवकाशः - अधीयाते, अधीयते । इहोभयं प्राप्नोति - अध्यैयाताम्, अध्यैयत । इयङादेशो भवति विप्रतिषेधेन ॥ नैष युक्तो विप्रतिषेधः, अन्तरङ्गाऽऽटो वृद्धिः । काऽन्तरङ्गता ? वर्णावाश्रित्याटो वृद्धिः, अङ्गस्येयङादेशः । एवं तर्हीदमिह संप्रधार्यम् - आट् क्रियताम् इयङादेश इति, किमत्र कर्तव्यम् ? परत्वादियङ् । नित्य आडागमः, कृतेऽपीयङि प्राप्नोति - अकृतेऽपि । इयङि्प नित्यः,कृतेऽप्याटि प्राप्नोति -अकृतेऽपि। अनित्य इयङ्, न हि कृत आटि प्राप्नोति । किं कारणम् ? अन्तरङ्गाऽऽटो वृद्धिः । यस्य च लक्षणान्तरेण निमित्तं विहन्यते न तदनित्यम् । न चात्राडेवेयङो निमित्तं विहन्ति, अवश्यं लक्षणान्तरमाटो वृद्धिः प्रतीक्ष्या । उभयोर्नित्ययोः परत्वादियङादेशः ॥ (6212 विप्रतिषेधोपसंख्यानवार्तिकम् ॥ 7 ॥) - आद्गुणात्सवर्णदीर्घत्वमाङभ्यासयोः - आद्गुणात्सवर्णदीर्घत्वं भवति विप्रतिषेधेन । क्व ? आङभ्यासयोः । आद्गुणस्यावकाशः - खट्वा - इन्द्रः - खट्वेन्द्रः, खट्वोदकम् । सवर्णदीर्घत्वस्यावकाशः - दण्डाग्रम्, क्षुपाग्रम् । इहोभयं प्राप्नोति - अद्य-आ-ःढ़द्य;ढा-अद्योढा, कदा-आ-ःढ़द्य;ढा-कदोढा, उप-इ-इजतुः-उपेजतुः, उप-उ-उपतुः-उपोपतुः । सवर्णदीर्घत्वं भवति विप्रतिषेधेन ॥ (उदाहरणान्यथासिद्धिसाधकभाष्यम्) अभ्यासार्थेन तावन्नार्थः । अस्त्वत्राद्गुणः, आद्गुणे कृते अयवौ च, हलादिः शेषः, पुनराद्गुणो भविष्यति । भवेत्सिद्धम् - उपेजतुः, उपेजुरिति । इदं तु न सिद्ध्यति - उपोपतुः, उपोपुरिति । अत्र ह्याद्गुणे कृत ओदन्तो निपात इति प्रगृह्यसंज्ञा, प्रगृह्यः प्रकृत्येति प्रगृह्याश्रयः प्रकृतिभावः प्राप्नोति । पदान्तप्रकरणे प्रकृतिभावः न चैष पदान्तः । पदान्तभक्तः पदान्तग्रहणेन ग्राहिष्यते । एवं तर्ह्येतदेवात्र नास्ति - ओदन्तो निपात इति । किं कारणम् ? लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैवेति ॥ इहापि तर्हि - यद्योढा, कदोढेति । भवेद्रूपं सिद्धं स्यात् ॥ (6213 विप्रतिषेधाभावे दोषदर्शकवार्तिकम् ॥ 8 ॥) - स्वरदोषस्तु - स्वरे तु दोषो भवति । अद्योढा - एवं स्वरः प्रसज्येत, अद्योढा - सति चेष्यते ॥ (विप्रतिषेधाभावे पररूपानर्थक्यबोधकभाष्यम्) आङि पररूपवचनं चेदानीमनर्थकं स्यात् । नानर्थकम्, ज्ञापनार्थम् । किं ज्ञाप्यम् ? (6214 पररूपवचनज्ञापनवार्तिकम् ॥ 9 ॥) - आङि पररूपं तु ज्ञापकमन्तरङ्गबलीयस्त्वस्य - एतज्ज्ञापयत्याचार्यः - अन्तरङ्गं बलीयो भवतीति । किं पुनरिहान्तरङ्गं किं बहिरङ्गम्, यावतो द्वे पदे आश्रित्य सवर्णदीर्घत्वमपि भवत्याद्गुणोऽपि । धातूपसर्गयोर्यत्कार्यं तदन्तरङ्गम् । कुत एतत् । पूर्वमुपसर्गस्य हि धातुना योगो भवति, नाद्यशब्देन । किमर्थं तर्ह्यशब्दः प्रयुज्यते ? अद्यशब्दस्यापि समुदायेन योगो भवति ॥ किमेतस्य ज्ञापने प्रयोजनम् ? (6215 ज्ञापनप्रयोजनवार्तिकम् ॥ 10 ॥) - प्रयोजनं पूर्वसवर्णपूर्वत्वतहिलोपटेनङेर्यङिस्मिन्ङिणलौत्वमन्तरङ्गं बहिरङ्गलक्षणाद्वर्णविकारात् - पूर्वसवर्णः प्रयोजनम् । अग्नी अत्र, वायू अत्र । पूर्वसवर्णश्च प्राप्नोति, बहिरङ्गलक्षणश्च वर्णविकार आवादेशः । पूर्वसवर्णदीर्घत्वं भवत्यन्तरङ्गतः । पूर्वसवर्ण ॥ पूर्वत्व । शकह्वर्थम्, परिव्यर्थम् । पूर्वत्वं च प्राप्नोति, बहिरङ्गलक्षणश्च वर्णविकारः सवर्णदीर्घत्वम् । पूर्वत्वं भवत्यन्तरङ्गतः । पूर्वत्व ॥ तहिलोप । अकार्यत्र, अहार्यत्र, पचेदम् । तहिलोपौ च प्राप्नुतः, बहिरङ्गलक्षणश्च वर्णविकारः सवर्णदीर्घत्वम् । तहिलोपौ भवतोऽन्तरङ्गतः । तहिलोप ॥ तेन । वृक्षेणात्र, प्लक्षेणात्र । इनादेशश्च प्राप्नोति, बहिरङ्गलक्षणश्च वर्णविकारः सवर्णदीर्घत्वम् । इनादेशो भवत्यन्तरङ्गतः । तेन ॥ ङेर्य । वृक्षायात्र, प्लक्षायात्र । ङेर्यादेशश्च प्राप्नोति, बहिरङ्गलक्षणश्च वर्णविकारः - एङः पदान्तादति (6.1.109) इति परपूर्वत्वम् । ङेर्यादेशो भवत्यन्तरङ्गतः । ङेर्य ॥ ङिस्मिन् । यस्मिन्निदम्, तस्मिन्निदम् । स्मिन्भावश्च प्राप्नोति, बहिरङ्गलक्षणश्च वर्णविकारः सवर्णदीर्घत्वम् । स्मिन्भावो भवत्यन्तरङ्गतः । ङिस्मिन् ॥ ङिणलौत्वम् । अग्नाविदम्, ययावत्र । ङिणलौत्वं प्राप्नोति, बहिरङ्गलक्षणश्च वर्णविकारः सवर्णदीर्घत्वम् । औत्वं भवत्यन्तरङ्गतः ॥ (प्रयोजनाक्षेपभाष्यम्) नैतानि सन्ति प्रयोजनानि । विप्रतिषेधेनाप्येतानि सिद्धानि । (ज्ञापनप्रयोजनसमर्थकभाष्यम्) इदं तर्हि प्रयोजनम् - वृक्षा अत्र, प्लक्षा अत्र । पूर्वसवर्णश्च प्राप्नोति बहिरङ्गलक्षणश्च वर्णविकारः - अतो रोरप्लुतादप्लुते (6.1.113) इत्युत्वम् । पूर्वसवर्णो भवत्यन्तरङ्गतः । न चावश्यमिदमेव प्रयोजनम् । आद्ययोगे बहूनि प्रयोजनानि सन्ति यदर्थमेषा परिभाषा कर्तव्या । प्रतिविधेयं दोषेषु ॥
Kashika¶
पूर्व इत्येव। संप्रसारणादचि परतः पूर्वपरयोः स्थाने पूर्वरूपम् एकादेशो भवति। यजि — इष्टम्। वपि — उप्तम्। ग्रहि — गृहीतम्। संप्रसारणविधानसामर्थ्याद् विगृहीतस्य श्रवणे प्राप्ते पूर्वत्वं विधीयते। वा छन्दसीत्येव — मित्रावरुणौ यज्यमानः। परपूर्वत्वविधाने सत्यर्थवत् संप्रसारणविधानमिति इष्ट इत्येवमादिषु पूर्वत्वाभावे यणादेशो भवत्येव। अन्तरङ्गे चाचि कृतार्थं वचनमिति बाह्ये पश्चात् संनिपतिते पूर्वत्वं न भवति। शकह्वौ। शकह्वर्थम्॥
Siddhanta Kaumudi¶
संप्रसारणादचि परे पूर्वरूपमेकादेशः स्यात् । एत्येधत्यूठ्सु (SK73) । विश्वौहः । विश्वौहेत्यादि । छन्दस्येव ण्विरिति पक्षे णिजन्ताद्विच् ॥
Laghu Siddhanta Kaumudi¶
संप्रसारणादचि पूर्वरूपमेकादेशः। एत्येधत्यूठ्स्विति वृद्धिः। विश्वौहः, इत्यादि॥
Balamanorama¶
सम्प्रसारणाच्च - संप्रसारणमिति । तेन वाहो यो यण् वकारस्तस्य ऊडिति लभ्यते । संप्रसारणमित्यननुवृत्तौ ‘अलोऽन्त्यस्य’ इति हकारस्य स्यात् । तदनुवृत्तौ तु ऊठो यण्स्थानिकत्वूलाभान्नालोऽन्त्यस्येति भवति । विश्व ऊ आह् असिति स्थिते- । संप्रसारणाच्च ।इको यणची॑त्यतोऽचीति ‘अमि पूर्वः’ इत्यतः पूर्व इति चानुवर्तते । ‘एकः पूर्वपरयोः’ इत्यधिकृतम् । तदाह — संप्रसारणादित्यादिना । विश्व ऊह असिति स्थिते आद्गुणमाशङ्क्याह — एत्येधत्यूठ्स्विति ।अनेन गुणापवादो वृद्धि॑रिति शेषः । विश्वौहः । विश्वौहा । इत्यादीति । विश्ववाड्भ्याम् विश्ववाड्भिः । विश्ववाड्भ्यः । विश्वौहे । विश्वौहः । विश्वौहः । विश्वौहोः विश्वौहाम् । विश्ववात्सु विश्ववाट्सु । ननु वहश्चेति ण्विविधौ ‘छन्दसि सहः’ इत्यतश्छन्दसीति केचिदनुवर्तयन्ति । तन्मते विश्ववाह्शब्दस्य लोके कथं प्रयोग इत्यत आह — छन्दस्येव ण्विरितिपक्षे णिजन्ताद्विजिति ।विश्वं वाहयतीत्यर्थे वाह् इ इति ण्यन्तात्अन्येभ्योऽपि दृश्यते॑ इति विचिनेड्वशि कृती॑ति इडभावे णिलोपेऽपृक्तलोपे उपपदसमासे विआआह्शब्दो सोते प्रयोगार्हः । किन्तु तस्य ऊठ् न भवति,अचः परस्मि॑न्निति णिलोपस्य स्थानिवत्त्वाऽभावेन तस्य भत्वाऽभावात् । वाहयतेः क्विपि विश्ववाह्शब्दस्य तूठ् निर्हाध एव,क्वौ लुप्त॑मिति णिलोपस्य स्थानिवत्त्वाऽभावेन तस्य भत्वाऽनपायात् । अत एवविभाषा पूर्वाह्णापरह्णाभ्या॑मिति सूत्रे प्रष्ठौह आगतं प्रष्ठवाङ्रूपर्यमिति लौकिकविग्रहवाक्ये ‘प्रष्ठौह’ इति प्रयोगः सङ्गच्छते । क्वचित्पुस्तकेछन्दस्येव ण्विरिति प्रामाणिकाः॑ इति पठते । ‘कव्यपुरीष’ इत्याद्युत्तरसूत्रे तदनुवृत्तेरावश्यकत्वादिति तदाशयः । अनः=शकटं वहतीत्यर्थे अनसि वहेः क्विप्, अनसो डश्चेति सस्य डश्च ।वचिस्वपियजादीनां किती॑ति यजादित्वाद्वकारस्य सम्प्रसापरणमुकारः ।संप्रसारणाच्चे॑ति पूर्वरूपम् । अनडुहिति रूपं । ततः सुबुत्पत्तिः ।
Tattvabodhini¶
सम्प्रसारणाच्च - संप्रसारणाच्च ।अमि पूर्वः॑इत्यतःपूर्व॑इति वर्तते॑इकोयणची॑त्यतोऽचीति च,एकः पूर्वपरयो॑रिति ताधिक्रियते । तदाह — — संप्रसारणादचीत्यादिना.छन्दस्येव ण्विरिति ।वहश्चे॑ति सूत्रेभजो ण्विः॒॑छन्दसि सहः॑इत्यतो ण्विप्रत्ययस्यच्छन्दसी॑त्यस्य चाऽनुवृत्तेरिति भावः । स्यादेतत् — ॒वाहः॑इत्येव सूत्रमस्तु, संप्रसारणमेवाऽन्न विधीयतां, तस्य लघूपधगुणो कृतेवृद्धिरेची॑ति वृद्धौ सिद्धंविआऔह॑इत्यादि, किमूठ्ग्रहणेन । सत्यम् । एवं स्थिते क्रियमाणमूठ्ग्रहणं बहिरङ्गपरिभाषां ज्ञापयति । तस्यां हि सत्यां जातस्य बहिरङ्गस्य संप्रसारणस्याऽसिद्धत्वादन्तरङ्गो गुणो न स्यादिति भाष्ये स्थितम् । नन्वनकारान्तोपपदेऽकारान्तोपसर्गोपपदे च रूपे विशेषः स्यादिति कथमऋठग्रहणं ज्ञापकमिति चेत्, अत्राहुः कैयटादयः -भाष्यकारोक्तज्ञापकबलेनैव तादृशस्थले ण्विप्रत्ययाऽभावोऽनुमीयत इति । एतेन भुवं वहतीति भूवाट् । भूहः । भूहा । प्रौहः । प्रौहेत्यादिप्रयोगाः परास्ताः ।
Padamanjari¶
सम्प्रसारणविधानसामर्थ्यादिति। कथं पुनः सामर्थ्यम्, यावता संहितायां यण् विधीयते, असंहितायां संप्रसारणं चरितार्थम् ? नैत दस्ति;’संहितैकपदे नित्या’ इति वचनात्। वा च्छन्दसीत्येवेति। पूर्ववद्वाक्यभेदेन सम्बन्धः। यज्यमान इति। नन्विदानी मेवोक्तम् -विगृहीतस्य श्रवणं प्राप्नोति, तत्कथमत्र यणादेशः ? अत आह-पूर्वत्वविधाने हीति। सत्यम्, अनारब्धे पूर्वत्वे विगृहीतश्रवणं प्राप्नोति, सम्प्रसारणविधानं व्यर्थं मा भूदिति, पूर्वत्वविधाने हि सति तत्प्रतिपतिविषये अर्थवत्सम्प्रसारणमिति पूर्वत्वाभावपक्षे यणादेशे भवत्येव,’सम्प्रसारणपूर्वत्वे समानाङ्गग्रहणम्’ , यस्मिन्नङ्गे संप्रसारणमवस्थितं तदन्तर्भूतो योऽच् तेनैव सह यथा स्यात्, इह मा भूत् -शकह्वौ, शकह्वर्थमिति, शकान् ह्वयतीति क्विपि यज्ञादित्वात्सम्प्रसारणम्, योऽन्त्यो धातोराकारः तस्मिन्नेवाङ्गेऽन्तर्भवति तस्य तावत् पूर्वत्वम्, विभक्त्योकारोऽर्थशब्दाकारश्च न तस्मिन्नङ्गेऽन्तर्भवत इति तयोः पूर्वत्वं न भवति। अत्र परिहारः -यणः स्थाने य इक् स संप्रसारणम्, एकादेशस्तु न यण्स्तानिकः, वर्णाश्रयत्वाच्चान्तादिवद्भावोऽपि नास्ति, एवं पूर्वत्वमेव तावन्न सम्प्रसारणम्, किं पुनः, तत्स्थानिक ऊकार इति पूर्वैकादेशाभावः। सम्प्रसारणदीर्घत्वे तु वचनसामर्थ्यादेकादेशस्य पूर्वं प्रत्यन्तवद्भावात् सम्प्रसारणव्यपदेशः। वृत्तिकारस्तु सम्प्रसारणत्वमभ्युपेत्य परिहारान्तरमाह -अन्तरङ्गे चेति । देशतो विप्रकर्षोऽत्र बाह्यत्वेनोपवर्णितः। कालतो विप्रकर्षस्तु पश्चादुपनिपाततः ॥ धातावनन्तर्भावकृतं बाह्यत्वम्, पश्चादुपनिपातस्तु स्पष्ट एव ॥
Nyaas¶
सम्प्रसारणस्य यणादेशो मा भूदित्येवमर्थमिदं परपूर्वत्वं विधीयते। यदि चात्र यणादेशः स्यात्, तदा संप्रसारणविधानामनर्थकं स्यात्? तस्मात्। सम्प्रसारणविधानसामर्थ्यादेव यणादेशो न भविष्यति, तत्? किमर्थमिदं विधीयते? इत्याह -सभ्प्रसारणविधानसामर्थ्यात् इत्यादि। सम्प्रसारणविधानसामर्थ्याद्यणादेशो न भवतीति विगृहीतस्याकृतसंहिताकार्यस्य श्रवणं प्राप्नोति, तस्मान्मा भूदेष दोष इति परपूर्वत्वं विधीयते। वा च्छन्दसीत्येव इत्यादि। अत्रापि पूर्ववद्वाक्यभेदो द्रष्टव्यः; अन्यथा भाषायां न स्यात्। यज्यमानः [यज्यमानौ -काशिका] इति। परपूर्वत्वाभावपक्षे यणादेशः। कथं पुनरत्र यणादेशः, यावता विगृहीतस्यैव ग्रहणेन भवितव्यम्, इदानीमेव ह्रुक्तम् -सम्प्रसारणविधानसामर्थ्याद्विगृहीतस्यैव श्रवणे प्राप्ते परपूर्वत्वं विधीयते? इत्यत आह -परपूर्वत्वविधाने` इत्यादि। अनारब्धे हि परपूर्वत्वे विगृहीतस्यैव श्रवणं प्राप्नोति, मा भूत्? सम्प्रसारणस्य वैय्यथ्र्यमिति कृत्वा। सति तु परपूर्वत्वे यत्र परपूर्वत्वम् -इष्टमित्यादौ, तत्रार्थवत्? सम्प्रसारणम्। अतः परपूर्वत्वाभावपक्षे यणादेशो भवत्येव। अथेह कस्मान्न भवति -शकह्वौ शकह्वर्थमिति; अत्र हि शकं ह्वयतीति क्विप्, यजादित्वात्? सम्प्रसारणम्, परपूर्वत्वम्, तस्य अग्तादिवच्च (6.1.85) इति सम्प्रसारणग्रहणेन ग्रहणात्? सम्प्रसारणासम्प्रसारणयोरेकादेशस्य सम्प्रसारणस्य व्यपदेशभावत्वात्, औकारेऽर्थशब्दे च परतो व्यवस्थिते सम्प्रसारणाच्च (6.1.108) इति परपूर्वत्वं प्राप्नोति? इत्यत आह -अन्तरङ्गे चाचि इत्यादि। योऽयं ह्वयतेरेचः स्थाने विहित आकारः स सम्प्रसारणस्यान्तरङ्गः प्रत्यासन्नः; उभयोरप्येकधात्वन्तर्गतत्वात्। औकारोऽर्थशब्दाकारश्च विप्रकृष्टः। विप्रकृष्टस्तु देशतः कालतश्च, यदाह -ब्राआह्रे इति। यस्य धातोः सम्प्रसारणमवयवः, तत्रानन्तर्भावाद्बाह्रः। कालतश्च, यदाह -पश्चात्? सन्निपतिते इति। पूर्वरूपविधानकालादुतरकालं सन्निहित इत्यर्थः। तत्र सन्निकृष्टविप्रकृष्टयोरचोः प्रत्यासत्तेरन्तरङ्गो योऽच्? तत्रेदं वचनं प्रवर्तते, ततर चरितार्थमिति विप्रकृष्ट औकारादौ पश्चात्? सन्निहते न भवति॥
Praudhamanorama¶
छन्दस्येवेति। ‘छन्दसि सहः’ ‘वहश्च’ इति सूत्रे छन्दसीत्यनुवृत्तेरिति भावः। यत्तु ऊठि कृते सवर्णदीर्घः भूहः, भूहेत्यादि प्राचोक्तं, तद्भाष्यविरुद्धम्। तथा हि। ऊठ्ग्रहणं मास्तु। सम्प्रसारणमेव विधीयताम्। तस्य लघूपधगुणे कृते ‘वृद्धिरेचि’ इति वृद्धौ सिद्धं विश्वौह इत्यादि। एवं स्थिते क्रियमाणं बहिरङ्गपरिभाषां ज्ञापयति। सत्यां हि तस्यां बहिरङ्गस्य सम्प्रसारणस्याऽसिद्धत्वादन्तरङ्गो गुणो न स्यादिति भाष्ये स्थितम्। नन्वनकारान्तेऽकारान्तोपसर्गे चोपपदे रूपे विशेषः स्यादिति चेत्? मैवम्, भाष्यकारोक्तज्ञापकबलेनैव तादृशस्थले ण्विप्रत्ययाभावस्यानुमानादिति कैयटहरदत्तादयः। एतेन वार्यूहः प्रौह इत्यादिप्रयोगा अपि परास्ताः। अथवा ऊहतेः क्विप् इत्यवधेयम्।
Prakriyasarvasvam¶
सम्प्रसारणादचि परे द्वयोः सह पूर्वरूपं स्यात् । उद्य । प्राग्वदुपपदसमासः । आद्गुणः । व्यासोद्यः । कृत्यानां बहुत्वत्वात् कर्तरि भावेऽप्याहुः । सत्यवद्यः सत्योद्यो वा मुनिः । अनृतोक्तिरेवानृतवद्यमनृतोद्यं च । भावः क्रियास्वरूपम्*।
Sudha¶
सम्प्रसारणाच्चेति । इको यणचि**(6.1.77) इत्यतः अचीति ‘अमि पूर्वः’ इत्यतः पूर्व इति चानुवर्तते । **एकः पूर्वपरयोः**(6.1.84) इत्यधिकृतम् । तदाह - **सम्प्रसारणादित्यादिना ।** विश्वौह इति ।** विश्ववाह् + शस् अत्र शस्येत्सज्ञायां लोपे च यचि भम्**(1.4.18) इति भसंज्ञायाम् **वाह ऊठ्**(6.4.132) इति सम्प्रसारणे प्राप्ते किं नाम सम्प्रसारणम् ? **इग्यणः सम्प्रसारणम्**(1.1.45) इत्यनेन वरूपस्य यणः स्थाने उकाररूपे सम्प्रसारणे कृते ‘विश्व ऊ आह् अस्’ इति जाते **सम्प्रसारणाच्च**(6.1.108) इति पूर्वरूपैकादेशे विहिते ‘विश्व + उह् + अस्’ इत्यवशिष्ठे **एत्येधत्यूठ्सु**(6.1.89) इति पूर्वपरयोः स्थाने वृद्धौ संयोगे सस्य रुत्वे रस्य विसर्गे च कृते ‘विश्वौहः’ इति रूपम् । **इत्यादीति । विश्वोहा, विश्ववाड्भ्याम्, विश्ववाड्भिः, विश्ववाड्भ्यः । विश्वौहे । विश्वौहः । विश्वौहः । विश्वौहोः। विश्वौहाम् । विश्ववाट्त्सुविश्ववाट्सु ।