61106: वा छन्दसि ================ **Padacheda:** वा | S | 0 | 0 | छन्दसि | S | 7 | 1 | Sutrartha --------- ****दीर्घाज्जसि च** (6.1.105) इत्यनेन उक्तः पूर्वसवर्णदीर्घनिषेधः वैदिकप्रक्रियायाम् विकल्प्यते ।** **प्रथमयोः पूर्वसवर्णः** (6.1.102) इत्यनेन सूत्रेण निर्दिष्टस्य पूर्वसवर्णदीर्घस्य **दीर्घात् जसि च** (6.1.105) इत्यनेन विहितः निषेधः वैदिकरूपेषु विकल्पेन एव भवति । इत्युक्ते, **दीर्घवर्णात् जस्-प्रत्यये परे / प्रथमा-द्वितीययोः इच्-वर्णे परे **दीर्घात् जसि च** (6.1.105) इत्यनेन प्राप्त: निषेधः रूपसिद्ध्यर्थम् कुत्रचित् क्रियते, कुत्रचित् वा न क्रियते ।** यथा - **मानुषीः ईळते विशः** (ऋग्वेदः 5.8.3) इत्यत्र 'मानुषीः' इति मानुषीशब्दस्य प्रथमाबहुवचनस्य रूपम् अस्ति । एतत् रूपम् तदा एव सम्भवति यदा **दीर्घाज्जसि च** (6.1.105) इत्यनेन जस्-प्रत्यये परे उक्तः पूर्वसवर्णनिषेधः न प्रवर्तते — .. code-block:: text मानुषी + जस् →‌ मानुषी + अस् [इत्संज्ञालोपः] → मानुषीस् [**प्रथमयोः पूर्वसवर्णः** (6.1.102) इत्यनेन प्राप्तं पूर्वसवर्णस्य **दीर्घाज्जसि च** (6.1.105) इत्यनेन प्राप्तः निषेधः वैदिकरूपसिद्ध्यर्थम् **वा छन्दसि** (6.1.106) इत्यनेन पक्षे न भवति । अतः अत्र **प्रथमयोः पूर्वसवर्णः** (6.1.102) इत्यनेन पूर्वसवर्णदीर्घे कृते एव रूपं सिद्ध्यति । → मानुषीः [रुत्वविसर्गौ] **अग्रिमसूत्रयोः अपि विकल्पः** **अमि पूर्वः** (6.1.107) तथा **समप्रसारणाच्च** (6.1.108) एतयोः अग्रिमसूत्रयोः अपि **वा छन्दसि** (6.1.106) इत्यस्य अनुवृत्तिं कृत्वा एतयोः सूत्रयोः विषये अपि वैदिकरूपसिद्ध्यर्थम् तत्तत्कार्यस्य विकल्पः विधीयते । यथा — 1) **गौरीं च गौर्यं च** (ऋग्वेदः 10.126.8) - इत्यत्र 'गौरी' शब्दस्य प्रथमाद्विवचनस्य अम्-प्रत्यये परे **अमि पूर्वः** (6.1.107) इत्यनेन प्राप्तम् पूर्वरूपम् विकल्प्यते, येन पक्षे **इको यणचि** (6.1.77) इति यणादेशं कृत्वा 'गौर्यम्' इति रूपम्, पक्षे च **अमि पूर्वः** (6.1.107) इत्यनेन पूर्वरूपं कृत्वा 'गौरीम्' इत्यपि रूपं सिद्ध्यति । 2) **एवैनं देवतेज्यमाना भूत्या...** (तैत्तिरीयसंहिता 2.5.4.5) - इत्यत्र विद्यमानः 'इज्यमानः' इति शब्दः यज्-धातोः कर्मणि-शानच्-प्रत्ययान्तरूपम् अस्ति । अस्य प्रक्रियायाम् यज्-धातोः यकारस्य सम्प्रसारणे कृते, ततः **सम्प्रसारणाच्च** (6.1.108) इत्यनेन प्राप्तम् पूर्वरूपम् वैदिकप्रक्रियायां विकल्प्यते, अतः पूर्वरूपस्य स्थाने पुनः यणादेशं कृत्वा यकारघटितम् 'यज्यमान' इति रूपं सिद्ध्यति । प्रक्रिया इयम् — .. code-block:: text यज् + लट् [**वर्त्तमाने लट्** (3.2.123) इति लट्] → यज् + यक् + शानच् [**लटः शतृशानचावप्रथमासमानाधिकरणे** (3.2.124) इति शानच्-प्रत्ययः । **सार्वधातुके यक्** (3.1.67) इति यक्] → यज् + य + मुक् + आन [**आने मुक्** (7.2.82) इति अङ्गस्य मुक्-आगमः] → इ अज् + य + म् + आन [**वचिस्वपियजादीनां किति** (6.1.15) इति यकारस्य सम्प्रसारणम् इकारः] → यज् + य + म् + आन [**सम्प्रसारणाच्च** (6.1.108) इत्यनेन पूर्वरूपे प्राप्ते, वेदेषु **वा छन्दसि** (6.1.106) इति विकल्पः । अतः इकार-अकारयोः **इको यणचि** (6.1.77) इत्यनेन यणादेशं कृत्वा पुनः 'य' इति सिद्ध्यति ।] → यज्यमानः । पक्षे **सम्प्रसारणाच्च** (6.1.108) इत्यनेन पूर्वरूपैकादेशे कृते 'इज्यमान' इति रूपं अपि वेदेषु दृश्यते एव । Sutrartha (English) ------------------- The पूर्वसवर्णदीर्घनिषेध given by the sutra 'दीर्घाज्जसि च' is optional while deriving the Vedic forms. Vasu English Summary -------------------- In the Vedas, the long vowel may optionally be the single substitute of both vowels in these cases last mentioned. Vasu English Translation ------------------------ In the Vedas, the long vowel may optionally be the single substitute of both vowels in these cases last mentioned. Thus मारुतीः or मारुत्यः, पिण्डीः or पिण्ड्यः, वाराही or वाराह्यौ; उपानही or उपानह्यौ ॥ Kashika ------- दीर्घात् छन्दसि विषये जसि च इचि च परतो वा पूर्वसवर्णदीर्घो न भवति। मारुती॑॑श्च॑॑तस्रः (काठ० सं० ११.१०) पिण्डीः। मारुत्यश्चतस्रः पिण्ड्यः। वा॑॑रा॒ही उपा॒न॑॑हा (मै० सं० ४.४.६)। वाराह्यौ उपानह्यौ (लौ० गृ० ३.७)॥ Siddhanta Kaumudi ----------------- दीर्घाज्जसि इचि च पूर्वसवर्णदीर्घो वा स्यात् । वाराही । वाराह्यौ । मानुषीरीळते विशः (मानु॑षीरीळते॒ विशः॑) । उत्तरसूत्रद्वयेऽपीदं वाक्यभेदेन संबध्यते । तेनामि पूर्वत्वं वा स्यात् । शमीं च शम्यं च । सूर्मं सुषिरामिव (सू॒र्मं॑ सुषि॒रामि॑व) । संप्रसारणाच्च (SK330) इति पूर्वरूपमपि वा । इज्यमानः । यज्यमानः ॥ Padamanjari ----------- मारुतीरिति। मरुतो देवता आसामिति'सास्य देवता' इत्यण्, ङीप्, जसि पूर्वसवर्णदीर्घत्वम्। वाराहीति। वराहस्य विकार इति ठवयवे च प्राण्योषधिवृक्षेभ्यःऽ इति'प्राणिरजतादिभ्यो' ञ्ऽ, ङीप्, द्विवंचने पूर्वसवर्णदीर्घः। उपानहौ विशेष्ये ॥ Nyaas ----- `मारुतीः` इति। मरुद्देवता आसामिति **सास्य देवता** (4.2.24) इत्यण्? `टिड्ढाणञ्` (4.1.15) इति ङीप्; सवर्णदीर्घत्वम्। `वाराहीः` [वाराही - काशिका पदमंजरी च] इति। वराहस्य विकार ति **अवयवे च प्राण्योषधिवृक्षेभ्यः** (4.3.135) इत्यण्, पूर्ववन्ङीप्। `उपानही` इति। **षिद्गौरादिभ्यश्च** (4.1.41) इति ङीष्॥ Prakriyasarvasvam ----------------- दीर्घाज्जसीचि च परे पूर्वसवर्णदीर्घो वा न स्यात् । देव्य इति प्राप्ते देवीरापः । मह्यावित्यत्र तु महीद्यावापृथिवी । वेत्युक्तेः नद्यो मातृतमाः । 'अमिपूर्वः' (६-१-१०७) इत्यत्रापि वा छन्दसि इत्यनु७वृत्तेः (त्ते) । अन्यामन्यां नद्यम् । 'सम्प्रसारणाच्च' (६-१-१०८) इत्यत्रापि तदनुवृत्तेः मित्रावरुणौ यज्यमा८नौ इत्यत्र यजेर्यकि सम्प्रसारणे कृते अकारस्य पूर्वरूपत्वाभावात् पुनर्यण् ।