61089: एत्येधत्यूठ्सु

Padacheda: एति-एधति-ऊठ्सु | S | 7 | 3 |

Sutrartha

अवर्णात् इण्-धातोः एध्-धातोः च एच्-वर्णे परे तथा ऊठ्-शब्दे परे संहितायाम् पूर्वपरयोः एकः वृद्धि-आदेशः भवति ।

अवर्णात् (अकारात् / आकारात्) संहितायाम् इण्-धातोः एध्-धातोः वा एच्-वर्णे परे एङि पररूपम् (6.1.94) इत्यनेन प्राप्तम् पररूपम् बाधित्वा, तथा च ऊठ्-शब्दस्य ऊकारे परे आद्गुणः (6.1.87) इत्यनेन प्राप्तं गुणैकादेशं बाधित्वा पूर्वपरयोः वृद्ध्येकादेशः भवति — इति प्रकृतसूत्रस्य आशयः</b> । ‘वृद्धि’ इति संज्ञया निर्दिष्टः वर्णः आदेशरूपेण अत्र विधीयते इत्यर्थः । अष्टाध्याय्यां वृद्धिरादैच् (1.1.1) इत्यनेन आकार-ऐकार-औकाराणाम् वृद्धिसंज्ञा भवति । एतेषु कः वर्णः आदेशरूपेण विधीयेत — इति प्रश्ने जाते, स्थानेऽन्तरतमः (1.1.50) इत्यस्याः परिभाषायाः आश्रयः स्वीक्रियते । अनया परिभाषया एतत् ज्ञाप्यते, यत् स्थानेन यः वर्णः सदृशतमः, तस्य आदेशरूपेण विधानम् भवति । <bg>**वर्णानाम् उच्चारणस्थानानि एतादृशानि** — अवर्णस्य कण्ठः । ऊकारस्य ओष्ठौ । एकारस्य ऐकारस्य च कण्ठतालु । ओकारस्य औकारस्य च कण्ठोष्ठम् ॥</bg> उदाहरणानि एतानि — 1. अवर्णात् इण्-धातोः एकारे/ऐकारे परे एकादेशः **ऐकारः विधीयते ।** अवर्णस्य उच्चारणस्थानम् कण्ठः, एकारस्य ऐकारस्य च उच्चारणस्थानम् कण्ठतालु - इति स्थानेन आन्तरतम्यम् सिद्ध्यति। यथा —

इण् (गतौ, अदादिः, (2.40))
→ उप + इ + लट् [**वर्तमाने लट्** (3.2.123) इति लट्-प्रत्ययः]
→ उप + इ + तिप् [**तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ्** (3.4.78) इति प्रथमपुरुषैकवचनस्य प्रक्रियायाम् तिप्-प्रत्ययः]
→ उप + इ + शप् + ति [**कर्तरि शप्** (3.1.68) ]
→ उप + इ + ति [**अदिप्रभृतिभ्यः शपः** (2.4.72) इति शपः लुक्]
→ उप + ए + ति [**सार्वधातुकार्धधातुकयोः** (7.3.84) इति गुणः]
→ उपैति [पकारोत्तरस्य अकारस्य इण्-धातोः एकारेण सह **एत्येधत्यूठ्सु** (6.1.89) इति वृद्धैकादेशः]

एवमेव इण्-धातोः ऐकारादि-रूपस्य विषये अपि वृद्ध्येकादेशः ऐकारः भवति —

इण् (गतौ, अदादिः, (2.40))
→ उप + इ + लङ् [**अनद्यतने लङ्** (3.2.111) इति लङ्-प्रत्ययः]
→ उप + आट् + इ + लङ् [**आडजादीनाम्** (6.4.72) इति आडागमः]
→ उप + आ + इ + तिप् [**तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ्** (3.4.78) इति प्रथमपुरुषैकवचनस्य प्रक्रियायाम् तिप्-प्रत्ययः]
→ उप + आ + इ + शप् + ति [**कर्तरि शप्** (3.1.68) ]
→ उप + आ + इ + ति [**अदिप्रभृतिभ्यः शपः** (2.4.72) इति शपः लुक्]
→ उप + आ + ए + ति [**सार्वधातुकार्धधातुकयोः** (7.3.84) इति गुणः]
→ उप + आ + ए  + त् [**इतश्च** (3.4.100) इति प्रत्यय-इकारस्य लोपः]
→ उप + ऐ + त् [**आटश्च** (6.1.90) इति वृद्ध्येकादेशः ।]
→ उपैत् [पकारोत्तरस्य अकारस्य इण्-धातोः ऐकारेण सह **एत्येधत्यूठ्सु** (6.1.89) इति वृद्धैकादेशः । ऐकारः यद्यपि **आटश्च** (6.1.90) इति वृद्ध्येकादेशेन सिद्ध्यति, तथापि आदिवद्भावेन, यदागमपरिभाषया वा सः धात्ववयवः एव स्वीक्रियते ।]

2. अवर्णात् एध्-धातोः एकारे/ऐकारे परे एकादेशः **ऐकारः विधीयते ।** अवर्णस्य उच्चारणस्थानम् कण्ठः, एकारस्य ऐकारस्य च उच्चारणस्थानम् कण्ठतालु - इति स्थानेन आन्तरतम्यम् सिद्ध्यति । यथा —

एध् (वृद्धौ, भ्वादिः, (2.40))
→ उप + एध् + लट् [**वर्तमाने लट्** (3.2.123) इति लट्-प्रत्ययः]
→ उप + एध् + त [**तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ्** (3.4.78) इति आत्मनेपदस्य प्रथमपुरुषैकवचनस्य प्रक्रियायाम् त-प्रत्ययः]
→ उप + एध् + शप् + त [**कर्तरि शप्** (3.1.68) ]
→ उप + एध् + अ + ते [**टित आत्मनेपदानां टेरे** (3.4.79) इति एत्वम्]
→ उपैधते [पकारोत्तरस्य अकारस्य एध्-धातोः एकारेण सह **एत्येधत्यूठ्सु** (6.1.89) इति वृद्धैकादेशः]

एवमेव एध्-धातोः ऐकारादि-रूपस्य विषये अपि वृद्ध्येकादेशः ऐकारः भवति —

एध् (वृद्धौ, भ्वादिः, (2.40))
→ उप + एध् + लङ् [**अनद्यतने लङ्** (3.2.111) इति लङ्-प्रत्ययः]
→ उप + आट् + एध् + लङ् [**आडजादीनाम्** (6.4.72) इति आडागमः]
→ उप + आ + एध् + त [**तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ्** (3.4.78) इति आत्मनेपदस्य प्रथमपुरुषैकवचनस्य प्रक्रियायाम् त-प्रत्ययः]
→ उप + आ + एध् + शप् + त [**कर्तरि शप्** (3.1.68) ]
→ उप + आ + एध् + अ + त [**अदिप्रभृतिभ्यः शपः** (2.4.72) इति शपः लुक्]
→ उप + आ + एध् + त [**सार्वधातुकार्धधातुकयोः** (7.3.84) इति गुणः]
→ उप + ऐध+ त [**आटश्च** (6.1.90) इति वृद्ध्येकादेशः ।]
→ उपैधत [पकारोत्तरस्य अकारस्य इण्-धातोः ऐकारेण सह **एत्येधत्यूठ्सु** (6.1.89) इति वृद्धैकादेशः । ऐकारः यद्यपि **आटश्च** (6.1.90) इति वृद्ध्येकादेशेन सिद्ध्यति, तथापि आदिवद्भावेन, यदागमपरिभाषया वा सः धात्ववयवः एव स्वीक्रियते ।]

<note>”सा + एति” उत “सा + एधते” इत्यादिषु उदाहरणेषु अपि प्रकृतसूत्रेण वृद्धैकादेशं कृत्वा ‘सैति’, ‘सैधते’ इत्यादीनि रूपाणि अवश्यं भवन्ति । परन्तु एतादृशानाम् रूपाणाम् सिद्ध्यर्थम् वृद्धिरेचि (6.1.88) इत्येतम् सूत्रम् अपि पर्याप्तम् एव, अतः न हि तदर्थम् प्रकृतसूत्रम् रचितम् अस्ति । तर्हि अस्य सूत्रस्य मूलप्रयोजनम् किम्, इति चेत् — यत्र अवर्णान्तः उपसर्गः इण्/एध्-धातोः पूर्वम् प्रयुज्यते, तत्र वृद्धिरेचि (6.1.88) इत्यनेन उक्तम् वृद्ध्येकादेशं बाधित्वा एङि पररूपम् (6.1.94) इत्यनेन यः पररूपैकादेशः उच्यते; तस्य अपवादत्वेन पुनः वृद्ध्येकादेशं दातुम् इदं सूत्रम् पाठितम् अस्ति । अतः अस्य सूत्रस्य उदाहरणेषु उपसर्गविशिष्टानि एव उदाहरणानि दीयन्ते ।</note> 3. अवर्णात् ऊठ्-शब्दस्य ऊकारे परे एकादेशः **औकारः विधीयते ।** अवर्णस्य उच्चारणस्थानम् कण्ठः, ऊकारस्य उच्चारणस्थानम् औष्ठौ, औकारस्य उच्चारणस्थानम् कण्ठोष्ठम् - इति स्थानेन आन्तरतम्यम् सिद्ध्यति । यथा — 1. विश्ववाह्-शब्दस्य तृतीयैकवचनस्य रूपम् ‘विश्वौहा’ इति इत्थं सिद्ध्यति —

विश्ववाह् + टा [**स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्** (4.1.2) इति तृतीयैकवचनस्य विवक्षायाम् टा-प्रत्ययः । टा-प्रत्यये परे विश्ववाह्-शब्दस्य **यचि भम्** (1.4.18) इति भसंज्ञा भवति । ]
→ विश्व ऊठ् आ ह् + आ [भसंज्ञकस्य वाह्-शब्दस्य **वाह ऊठ्** (6.4.132) इति सम्प्रसारणे ऊठ्-आदेशः विधीयते ।]
→ विश्व ऊ आ ह् + आ [ठकारस्य **हलन्त्यम्** (1.3.3) इति इत्संज्ञा, **तस्य लोपः** (1.3.9) इति लोपः]
→ विश्व ऊ ह् + आ [ऊकार-आकारयोः **सम्प्रसारणाच्च** (6.1.108) इति पूर्वरूपैकादेशः ऊकारः]
→ विश्वौहा [विश्वशब्दस्य अकारस्य ऊठ्-शब्दस्य ऊकारेण सह **एत्येधत्यूठ्सु** (6.1.89) इति वृद्धैकादेशः]
  1. क्र्यादिगणस्य ‘खव्’ धातोः लट्लकारस्य प्रथमपुरुषैकवचनम् ‘खौनाति’ इति इत्थं सिद्ध्यति —

खवँ (भूतप्रादुर्भावे, क्र्यादिः, (9.68))
→ खव् + लट् [**वर्तमाने लट्** (3.2.123) इति लट्]
→ खव् + तिप् [**तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ्** (3.4.78) इति प्रथमपुरुषैकवचनस्य प्रक्रियायाम् तिप्-प्रत्ययः]
→ खव् + श्ना + ति [**क्र्यादिभ्यः श्ना** (3.1.81) इति श्ना-विकरणप्रत्ययः]
→ ख ऊठ् + ना + ति [अनुनासिकादौ ङिति प्रत्यये परे **च्छ्वोः शूडनुनासिके च** (6.4.19) इति वकारस्य ऊठ्-आदेशः]
→ खौनाति  [खशब्दस्य अकारस्य ऊठ्-शब्दस्य ऊकारेण सह **एत्येधत्यूठ्सु** (6.1.89) इति वृद्धैकादेशः]

सूत्ररचना

अस्य सूत्रस्य रचनायाः विषये केचन ज्ञातव्याः बिन्दवः एतादृशाः — 1. एति तथा एधति इति सूत्रे प्रयुक्तौ शब्दौ यथासङ्ख्यम् ‘इण्’ तथा ‘एध्’ धात्वोः निर्देशं कुरुतः । <!इक्श्तिपौ धातुनिर्देशे!> इति वार्त्तिकम् अनुसृत्य अत्र ‘श्तिप्’ प्रत्ययं प्रयुज्य एतयोः धात्वोः निर्देशः कृतः वर्तते । 2. वृद्धिरेचि (6.1.88) अस्मात् सूत्रात् ‘एचि’ इति पदम् अत्र अनुवर्तते, तत् च ‘एति’ तथा ‘एधति’ इत्येताभ्यां सह अन्वेति ।यस्मिन्विधिस्तदादावल्ग्रहणे (परिभाषा-33) इत्यनया परिभाषया अत्र ‘एचि’ इत्यस्य अर्थः ‘एच्-वर्णादिः’ इति क्रियते । अतः ‘एचि एति’ इत्यनेन ‘इण्-धातो एच्-वर्णादिरूपम्’ इति अर्थः सिद्ध्यति । एवमेव ‘एचि एधति’ इत्यनेन ‘एध्-धातोः एच्-वर्णादि-रूपम्’ इति अर्थः जायते । इत्युक्ते, यत्र इण्/एध्-धातोः रूपस्य आडौ एच्-भिन्नः वर्णः विद्यते, तत्र अस्य सूत्रस्य प्रसक्तिः नास्ति । अतएव इण्-धातोः लट्लकारस्य प्रथमपुरुषद्विवचनस्य ‘इतः’ इति रूपम् प्र-उपसर्गपूर्वकम् प्रयुज्यते चेत् ‘प्र + इतः’ इत्यत्र गुणैकादेशे कृते ‘प्रेतः’ इत्येव सिद्ध्यति । एवमेव, ‘एध्-धातोः’ णिजन्तस्य लुङ्-लकारस्य प्रथमपुरुषैकवचनम् ‘इदिधत्’ इत्यस्य विषये अपि अस्य सूत्रस्य प्रसक्तिः नास्ति, अतः ‘उप + इदिधत्’ इत्यत्रापि गुणैकादेशं कृत्वा ‘उपेदिधत्’ इति रूपं सिद्ध्यति ।

बाध्यबाधकभावः

अवर्णान्त-उपसर्गात् इण्/एध्-धात्वोः एजादिरूपे परे बाध्यबाधकभावः एतादृशः जायते —

<li>**आद्गुणः** (6.1.87) इत्यनेन गुण-एकादेशे प्राप्ते तं बाधित्वा — <li> वृद्धिरेचि (6.1.88) इत्यनेन वृद्ध्येकादेशे प्राप्ते तं बाधित्वा — <li> एङि पररूपम् (6.1.94) इत्यनेन परररूपैकादेशे प्राप्ते तं बाधित्वा — <li> एत्येधत्यूठ्सु (6.1.89) इत्यनेन वृद्ध्येकादेशः भवति ।

उपसर्गभिन्न-अवर्णान्त-शब्दात् इण्/एध्-धात्वोः एजादिरूपे परे तु —

<li>**आद्गुणः** इत्यनेन गुण-एकादेशे प्राप्ते तं बाधित्वा — <li> वृद्धिरेचि (6.1.88) इत्यनेन वृद्ध्येकादेशे प्राप्ते तं परत्वात् बाधित्वा — <li> एत्येधत्यूठ्सु (6.1.89) इत्यनेन वृद्ध्येकादेशः भवति ।

अवर्णात् ऊठ्-शब्दस्य ऊकारे परे —

<li>**आद्गुणः** इत्यनेन गुण-एकादेशे प्राप्ते तं बाधित्वा — <li>**एत्येधत्यूठ्सु ** (6.1.89) इत्यनेन वृद्ध्येकादेशः भवति ।

**एत्येधत्यूठ्सु (6.1.89) तथा च ओमाङोश्च (6.1.95) इत्येतयोर्मध्ये बाध्यबाधकभावः**

यदि किञ्चन सूत्रम् तस्मात् अनन्तरम् विद्यमानस्य सूत्रस्य अपवादरूपेण प्रवर्तते, तर्हि तत् सूत्रम् पुनः तस्मात् उत्सर्गात् अपि अनन्तरम् विद्यमानस्य सूत्रस्य अपवादरूपेण नैव भवितुम् अर्हति इति पुरस्तादपवादा अनन्तरान् विधीन्बाधन्ते नोत्तरान् अनया परिभाषया सूच्यते । This paribhasha states that if a sutra A acts as an exception to a later-occurring sutra B, then A cannot again act as an exception for a sutra C that occurs after B । अतः एत्येधत्यूठ्सु (6.1.89) इति सूत्रम् एङि पररूपम् (6.1.94) इति परसूत्रस्य अपवादरूपेण एकवारं प्रवर्तते चेत्, तस्माद् अपि अग्रे विद्यमानस्य ओमाङोश्च (6.1.95) इति सूत्रस्य अपवादरूपेण नैव प्रवर्तते । अतएव, **एत्येधत्यूठ्सु (6.1.89) तथा च ओमाङोश्च (6.1.95) इत्येतयोः युगपत्-प्राप्तौ सत्याम् परत्वात् ओमाङोश्च (6.1.95) इत्येव सूत्रस्य प्रयोगः भवति** । यथा, इण्-धातोः लोट्-लकारस्य मध्यमपुरुषस्य एकवचनस्य ‘इहि’ इति रूपम् ‘आ’ उपसर्गेण सह, ‘शिव’ इति शब्देन सह च यत्र प्रयुज्यते, तत्र ‘शिव + आ + इहि’ अस्यां स्थितौ आदौ ‘आ’ उपसर्गस्य ‘इहि’ इत्यनेन सह आद्गुणः (6.1.87) इति गुणैकादेशे कृते ‘शिव + एहि’ इति जाते, आदिवद्भावेन एकारम् इण्-धातुरूपस्य आद्यवयवं मत्वा एत्येधत्यूठ्सु (6.1.89) इति सूत्रेण वृद्ध्येकादेशः अवश्यं प्राप्नोति । परन्तु अत्र ओमाङोश्च (6.1.95) इति सूत्रेण गुणैकादेशस्य अपि प्रसक्तिः अस्ति । अस्यां स्थितौ परत्वात् ओमाङोश्च (6.1.95) इति सूत्रेण गुणैकादेशे कृते ‘शिवेहि’ इत्येव रूपं सिद्ध्यति ।

वार्त्तिकानि

विशिष्टप्रयोगानां सिद्ध्यर्थम् अत्र सिद्धान्तकौमुद्याम् कानिचन वार्त्तिकानि पाठ्यन्ते । तानि एतादृशानि — <! 1. अक्षादूहिन्यामुपसङ्ख्यानम् !> अक्ष-शब्दात् ऊहिनी-शब्दे परे पूर्वपरयोः गुणैकादेशं बाधित्वा अनेन वार्त्तिकेन वृद्ध्येकादेशः भवति, येन ‘अक्षौहिणी’ इति शब्दः सिद्ध्यति । प्रक्रिया इयम् -

अक्षाणाम् ऊहिनी [**षष्ठी** (2.2.8) इति षष्ठीतत्पुरुषः]
→ अक्ष + ऊहिनी [**कृत्तद्धितसमासाश्च** (1.2.46) इति प्रातिपदिकसंज्ञा । **सुपो धातुप्रातिपदिकयोः** (2.4.71) इति सुप्-प्रत्यययोः लोपः]
→ अक्षौहिनी [अकार-ऊकारयोः <!अक्षादूहिन्यामुपसङ्ख्यानम्!> इति वार्त्तिकेन वृद्ध्येकादेशः ।]
→ अक्षौहिणी [**पूर्वपदात् संज्ञायामगः** (8.4.3) इति णत्वम्]

<note>सैन्ये विद्यमानानाम् रथिनाम्, अश्वानाम्, गजानाम् च परिमाणरूपेण अक्षौहिणी इति शब्दः प्रयुज्यते । Visit <a target=’_blank’ href=’https://hi.wikipedia.org/wiki/अक्षौहिणी’>this</a> or <a target=’_blank’ href=’https://en.wikipedia.org/wiki/Akshauhini’>this</a> wikipedia page<a> to know more about this word.</note> <! 2. स्वादीरेरिणोः !> (<light>स्वात् ईर-इरिणोः</light>) । काशिकायाम् तु <!स्वादिरेरिण्योः!> इति पाठभेदः दृश्यते । ‘स्व’शब्दात् ‘ईर’ तथा ‘ईरिन् / ईरिणी’ शब्दे परे पूर्वपरयोः गुणं बाधित्वा वृद्धिः भवति — <listsp> 1. ईर् (गतौ, अदादिः (2.8)) अस्मात् धातोः भावे घञ्-प्रत्ययं कृत्वा ‘ईर’ इति शब्दः सिद्ध्यति । गतिः / गमनम् इति अस्य अर्थः । ‘स्वेन ईरः’ अस्मिन् अर्थे कर्तृकरणे कृता बहुलम् (2.1.32) इति तृतीयासमासे कृते, अथ वा ‘स्वस्य ईरः’ अस्मिन् अर्थे षष्ठी (2.2.8) इत्यनेन षष्ठीसमासे कृते अकार-ईकारयोः <! स्वादीरेरिण्योः !> इति वार्त्तिकेन वृद्ध्येकादेशः ऐकारः विधीयते, येन ‘स्वैर’ इति शब्दः सिद्ध्यति । अयं शब्दः शिष्टप्रयोगबलात् नपुंसकलिङ्गे एव प्रयुज्यते । 2. ‘स्वेन ईरितुम् शीलम् अस्य’ अस्यां वृत्तौ ‘स्व’-उपपदपूर्वात् ईर् (गतौ, अदादिः (2.8)) धातोः सुप्यजातौ णिनिस्ताच्छील्ये (3.2.78) इत्यनेन णिनि-प्रत्ययं कृत्वा ‘स्व + इरिन्’ इत्यवस्थायाम् <! स्वादीरेरिण्योः !> इति वार्त्तिकेन वृद्ध्येकादेशः ऐकारः विधीयते, येन ‘स्वैरिन्’ इति शब्दः सिद्ध्यति । तत्र ऋन्नेभ्यो ङीप् (4.1.5) इति ङीप्-प्रत्ययं कृत्वा ‘स्वैरिणी’ इति स्त्रीलिङ्गशब्दः सिद्ध्यति । </listsp> <! 3. प्रादूहोढोढ्येषैष्येषु !> (<light>प्रात् ऊह-ऊढ-ऊढि-एष-एष्येषु</light>) । प्र-उपसर्गात् परः ऊह/ऊढ-ऊढि/एष-एष्य एतेषु कश्चन शब्दः विद्यते चेत् पूर्वपरयोः एकः वृद्ध्येकादेशः भवति — <listsp> 1. ऊहँ (वितर्के, भ्वादिः, (1.735)) अस्मात् धातोः भावे घञ्-प्रत्यये ‘ऊह’ इति शब्दः सिद्ध्यति । अस्मात् शब्दात् पूर्वम् ‘प्र’ उपसर्गः विद्यते चेत् आद्गुणः (6.1.87) इत्यनेन प्राप्तं गुणैकादेशं बाधित्वा <!प्रादूहोढोढ्येषैष्येषु !> इत्यनेन वृद्ध्येकादेशं कृत्वा ‘प्रौह’ इति रूपं सिद्ध्यति । 2. वह् (प्रापणे, भ्वादिः (1.1159)) अस्मात् धातोः क्त-प्रत्यये ‘ऊढ’ इति शब्दः सिद्ध्यति । अस्मात् शब्दात् पूर्वम् ‘प्र’ उपसर्गः विद्यते चेत् आद्गुणः (6.1.87) इत्यनेन प्राप्तं गुणैकादेशं बाधित्वा <!प्रादूहोढोढ्येषैष्येषु !> इत्यनेन वृद्ध्येकादेशं कृत्वा ‘प्रौढ’ इति रूपं सिद्ध्यति । <note> वह्-धातोः क्तवतुँ-प्रत्ययान्तरूपम् ‘ऊढवत्’ इति विद्यते । तत्र विद्यमानः ‘ऊढ’ इति अंशः अनर्थकः अस्ति, अतः अर्थवद्ग्रहणे नानर्थकस्य ग्रहणम् इत्यनया परिभाषया तस्य विषये इदं वार्त्तिकं नैव प्रवर्तते । अतः ‘प्र + ऊढवत्’ इत्यत्र गुणैकादेशं कृत्वा ‘प्रोढवत्’ इत्येव रूपं सिद्ध्यति । </note> 3. वह् (प्रापणे, भ्वादिः (1.1159)) अस्मात् धातोः क्तिन्-प्रत्यये ‘ऊढि’ इति शब्दः सिद्ध्यति । अस्मात् शब्दात् पूर्वम् ‘प्र’ उपसर्गः विद्यते चेत् आद्गुणः (6.1.87) इत्यनेन प्राप्तं गुणैकादेशं बाधित्वा <!प्रादूहोढोढ्येषैष्येषु !> इत्यनेन वृद्ध्येकादेशं कृत्वा ‘प्रौढि’ इति रूपं सिद्ध्यति । 4. इषुँ (गतौ (4.22), इच्छायाम् (6.78), आभीक्ष्य्णे (9.61) - अस्मात् धातोः भावे घञ्-प्रत्यये ‘एष’ इति शब्दः सिद्ध्यति । अस्मात् शब्दात् पूर्वम् ‘प्र’ उपसर्गः विद्यते चेत् एङि पररूपम् (6.1.94) इत्यनेन प्राप्तं पररूपं बाधित्वा <! प्रादूहोढोढ्येषैष्येषु !> इत्यनेन वृद्ध्येकादेशं कृत्वा ‘प्रैष’ इति रूपं सिद्ध्यति । 5. इषुँ (गतौ (4.22), इच्छायाम् (6.78), आभीक्ष्य्णे (9.61) - अस्मात् धातोः भावकर्मणोः ण्यत्-प्रत्यये ‘एष्य’ इति शब्दः सिद्ध्यति । अस्मात् शब्दात् पूर्वम् ‘प्र’ उपसर्गः विद्यते चेत् एङि पररूपम् (6.1.94) इत्यनेन प्राप्तं पररूपं बाधित्वा <! प्रादूहोढोढ्येषैष्येषु !> इत्यनेन वृद्ध्येकादेशं कृत्वा ‘प्रैष्य’ इति रूपं सिद्ध्यति । </listsp> <! 4. ऋते च तृतीयासमासे !> (काशिकायां <!ऋते च तृतीयासमासेऽवर्णाद् वृद्धिर्वक्तव्या!> इति पाठः वर्तते ।) तृतीयासमासे उत्तरपदरूपेण विद्यमानस्य ‘ऋत’शब्दस्य ऋकारस्य, पूर्वपदान्ते विद्यमानस्य अवर्णेन सह आद्गुणः (6.1.87) इत्यनेन प्राप्तं गुणैकादेशं बाधित्वा ‘आर्’ इति वृद्ध्येकादेशः भवति । यथा -

  1. ‘सुखेन ऋतः’ अत्र कर्तृकरणे कृता बहुलम् (2.1.32) इति तृतीयासमासे कृते ‘सुख + ऋत’ इत्यत्र गुणं बाधित्वा अनेन वार्त्तिकेन वृद्धि-एकादेशं कृत्वा ‘सुखार्तः’ इति रूपं जायते ।

  2. ‘पीड ऋतः’ अत्र कर्तृकरणे कृता बहुलम् (2.1.32) इति तृतीयासमासे कृते ‘पीडा + ऋत’ इत्यत्र गुणं बाधित्वा अनेन वार्त्तिकेन वृद्धि-एकादेशं कृत्वा ‘पीडार्त’ इति रूपं जायते ।

तृतीयासमासः नास्ति चेत् तु इदं वार्त्तिकम् नैव प्रसज्यते, अतः आद्गुणः (6.1.87) इत्यनेन गुण-एकादेशः एव भवति । यथा, ‘परमश्च असौ ऋतश्च’ इत्यत्र कर्मधारयसमासे ‘परम + ऋत’ इति स्थिते अकार-ऋकारयोः गुणैकादेशः ‘अर्’ इति जाते ‘परमर्तः’ इत्येव सिद्ध्यति । <! 5. प्रवत्सतरकम्बलवसनार्णदशानामृणे !> (<light>प्र-वत्सतर-कम्बल-वसन-ऋण-दशानाम् ऋणे</light>) । अत्र काशिकाकारेण तु भाष्यम् अनुसृत्य <!प्रवत्सतरकम्बलवसनामृणे वृद्धिर्वक्तव्या!> तथा <!ऋणदशाभ्यां वृद्धिर्वक्तव्या!> इति द्वे वार्त्तिके पृथक् पाठ्येते । प्र/वत्सतर/कम्बल/वसन/ऋण/दश - एतेषां शब्दानाम् ऋण-शब्दे परे गुणं बाधित्वा पूर्वपरयोः ‘आर्’ इति वृद्धि-एकादेशः भवति —

<li>प्र + ऋणम् → प्रार्णम् । <li> वत्सतरस्य (शिशुवत्सस्य ऋणम्) → वत्सतर + ऋणम् → वत्सतरार्णम् । <li> कम्बलस्य ऋणम् → कम्बल + ऋणम् → कम्बलार्णम् । <li> वसनस्य ऋणम् → वसन + ऋणम् → वसनार्णम् । <li> ऋणस्य ऋणम् → ऋण + ऋणम् → ऋणार्णम् । एकस्य ऋणस्य अपनयनार्थम् क्रियमाणम् अपरं ऋणम् इत्याशयः (‘Refinancing!’) <li> दश ऋणानि अस्मिन् देशे सः = दश + ऋण → दशार्णः देशः । एवमेव दशार्णा नदी ।

Sutrartha (English)

In the context of संहिता, When an अवर्ण followed by the एच् letter of the इण् धातु or एध् धातु, or the word ऊठ् ; both of them are replaced by a single वृद्धि letter.

Vasu English Summary

The वृद्धि is the single substitute of अ or आ + ए of एति (root इ) and एधति (root एध), and for अ or आ + ऊ of उठ (the substitute of वा in वाह by (6.4.132)).

Vasu English Translation

The वृद्धि is the single substitute of अ or आ + ए of एति (root इ) and एधति (root एध), and for अ or आ + ऊ of उठ (the substitute of वा in वाह by (6.4.132)). The whole of the last sutra and आत् are understood here. The एच् of the last sutra qualifies the root इ in एति, i. e. when the root इ assumes the form ए by internal changes, then apples this Vriddhi rule. The एच् does not qualify the root एध् as that root always has an initial diphthong, nor does एच् qualify ऊठ् for ऊ is not a diphthong. Thus उप + एति = उपैति, उप + एषि = उपैषि, उपैमि; उप + एधते = उपैधते, प्रैधते; प्रष्ठ + ऊहा = प्रष्ठौहा ॥ In the last example, guna was the substitute required by (6.1.87), the present sutra ordains Vriddhi instead. In the case of एति and एधति, the Vriddhi was debarred by (6.1.94): this sutra makes an exception to that rule. The present sutra is an exception to (6.1.94) and not to (6.1.95), because the maxim is पुरस्तादपवादा अनन्तरान् विधीन् बाधन्ते नोत्तरान् “Apavadas that precede the rules which teach operations that have to be superseded by the apavada operations, supersede only those rules that stand nearest to them, not the subsequent rules”. Therefore the present rule does not apply here,:- उप + आ + इत = उप + एत = उपेतः (Here though इ is changed to ए, the rule does not apply). Therefore the form अवैहि is wrong. So also उप + इत = उपेतः for here the root इ has not assumed the form ए, therefore the rule does not apply, the word एचि qualifies the root इ ॥

Vart:- The Vriddhi is the single substitute when अक्ष is followed by ऊहिनी, as अक्षौहिणी सेना ॥

Vart:- The Vriddhi is the single substitute when स्व is followed by ईर or ईरिण, or ईरिणी thus स्वैरम्, स्वैरिणी ॥ The word ईर is formed by the affix घञ् added to ईर्गतौ (Ad. 8 स्वेनाभिप्रायेण ईरणं = स्वैरम् the compounding takes place by (2.1.32). Another form is स्वैरी = स्वेनाभिप्रायेणेरते गच्छति with the affix णिनि (3.2.78).

Vart:- The Vriddhi is the single substitute when प्र is followed by ऊह, ऊढ, ऊढि, एष, एष्य; as प्रौहः, प्रौढः, प्रौढिः, प्रैषः, प्रैष्यः ॥ The word एष is derived from the root इषु ‘to wish’ (Tudadi. 59), इष् ‘to go’ (Divadi. 18), and इष् ‘to repeat’ (Kryadi. 53), by adding the affix घञ्; and the word एष्य is derived from the same roots by adding ण्यत् ॥ This Vartika ordains Vriddhi, while (6.1.94) would have caused पररूपः ॥ While the roots ईष् ‘to glean’, and ईष् ‘to go’ ‘to injure’, ‘to show’. (Bhvadi. 115 and 642), form ईषः and ईष्यः with the above affixes; and with प्र, their forms will be प्रेषः and प्रेष्यः ॥

Vart:- The Vriddhi is the single substitute when a word ending in अ is followed by ऋत and forms an Instrumental Tatpurusha* compound: as सुखेन ऋतः = सुखार्तः, दुःखेन ऋतः = दुःखार्तः, but सुखेन इतः = सुखेतः ॥ Why in Instrumental? Observe परमर्तः ॥ Why ‘Compound’? See सुखेनर्तः ॥

Vart:- The Vriddhi is the single substitute when the word ऋण follows the following:- प्र, वत्सतर, कम्बल, वसन ॥ As प्रार्णम् ‘principal debt’, वत्सतरार्णम् ‘the debt of a steer’, कम्बलार्णम् ‘debt of a blanket’, वसनार्णम् ‘debt of a cloth’.

Vart:- So also when the words ऋण and दश are followed by ऋणः — as, ऋणार्णम् and दशार्णम् ॥ The word ऋणार्ण means a debt incurred to pay off a prior debt. The *Dasarna_ is the name of a river and of a country.

Bhashya

एत्येधत्यूठ्सु (2526) (वृद्ध्यधिकरणम्) (एत्येधत्योर्विषये पक्षद्वयोपस्थापकं भाष्यम्) किमिदमेत्येधत्यो रूपग्रहणम्, आहोस्विद्धातुग्रहणम् ? किं चातः ? यदि रूपग्रहणम्, सिद्धम् - उपैति, प्रैति । उपैषि, उपैमि, प्रैमीति न सिद्ध्यति । अथ धातुग्रहणम्, सिद्धमेतद्भवति ॥ किं तर्हीति ? (6160 धातुग्रहणपक्षे दोषवार्तिकम् ॥ 9 ॥) - इणीकारादौ प्रतिषेधः - इणीकारादौ वृद्धेः प्रतिषेधो वक्तव्यः । उपेतः, प्रेतः - इति ॥ (6161 दोषनिरासवार्तिकम् ॥ 10 ॥) योगविभागात्सिद्धम् योगविभागः करिष्यते । वृद्धिरेचि (88) । ततः - एत्येधत्योः । एत्येधत्योश्चैचि वृद्धिर्भवति । ततः - ऊठि ।ऊठि च वृद्धिर्भवतीति ॥ (योगविभागे आक्षेपसमाधानविषयकं भाष्यम्) एवमपि आ इतः - एतः; उपेतः, प्रेतः - इत्यत्रापि प्राप्नोति । आङि पररूपमत्र बाधकं भविष्यति । न भविष्यति । नाप्राप्ते पररूप इयं वृद्धिरारभ्यते, सा यथैव एङि पररूपम् बाधते, एवमाङिपररूपं बाधेत । न बाधते । किं कारणम् ? येन नाप्राप्ते तस्य बाधनं भवति न चाप्राप्त एङि पररूप इयं वृद्धिरारभ्यते, आङि पररूपे पुनः प्राप्ते चाप्राप्ते च । अथ वा - पुरस्तादपवादा अनन्तरान् विधीन् बाधन्त इतीयं वृद्धिरेङि पररूपं बाधिष्यते, नाङि पररूपम् ॥ (6162 उपसंख्यानवार्तिकम् ॥ 11 ॥) - अक्षादूहिन्याम् - अक्षादूहिन्यां वृद्धिर्वक्तव्या । अक्षौहिणी ॥ (6163 उपसंख्यानवार्तिकम् ॥ 12 ॥) - प्रादूहोढोढ्येषैष्येषु - प्रात् - ऊह-ःढ़द्य;ढ-ःढ़द्य;ढि-एष-एष्य-इत्येतेषु वृद्धिर्वक्तव्या । प्रौहः, प्रौढः, प्रौढिः, प्रैषः, प्रैष्यः ॥ (6164 उपसंख्यानवार्तिकम् ॥ 13 ॥) - स्वादीरेरिणोः - स्वात् - इर्र - इर्रिन् - इत्येतयोर्वृद्धिर्वक्तव्या । स्वैरः, स्वैरी ॥ (इर्रिन्ग्रहणप्रत्याख्यानभाष्यम्) इर्रिन्ग्रहणं शक्यमकर्तुम् । कथं स्वैरीति ? इनिनैतन्मत्वर्थीयेन सिद्धम् - स्वैरोऽस्यास्तीति स्वैरी ॥ (6165 उपसंख्यानवार्तिकम् ॥ 14 ॥) - ऋते च तृतीयासमासे - ऋते च तृतीयासमासे वृद्धिर्वक्तव्या । सुखार्तः, दुःखार्तः । ऋत इति किम् ? सुखेतः, दुःखेतः । तृतीयाग्रहणं किम् ? परमर्तः । समास इति किम् ? सुखेनर्तः ॥ (6166 उपसंख्यानवार्तिकम् ॥ 15 ॥) - प्रबत्सतरकम्बलवसनानां चर्णे - प्रवत्सतरकम्बलवसनानां च ऋणे वृद्धिर्वक्तव्या । प्रार्णम्, वत्सतरार्णम्, कम्बलार्णम्, वसनार्णम् ॥ (6167 उपसंख्यावार्तिकम् ॥ 16 ॥) - ऋणदशाभ्यां च - ऋणदशाभ्यां च वृद्धिर्वक्तव्या । ऋणार्णम्, दशार्णम् ॥

Kashika

वृद्धिरेचीति वर्तते, आदिति च। तदेतदेज्ग्रहणमेतेरेव विशेषणम्, न पुनरेधतेः, अव्यभिचारादूठश्चासंभवात्। इण् गतौ इत्येतस्मिन् धातावेचि एध वृद्धौ इत्येतस्मिन् ऊठि च पूर्वं यदवर्णम्, ततश्च परो योऽच्, तयोः पूर्वपरयोरवर्णाचोः स्थाने वृद्धिरेकादेशो भवति। उपैति। उपैषि। उपैमि। उपैधते। प्रैधते। प्रष्ठौहः। प्रष्ठौहा। प्रष्ठौहे। ऊठ्याद्गुणापवादो वृद्धिर्विधीयते। एत्येधत्योस्त्वेङिपररूपापवादः। ओमाङोश्च (६.१.९५) इत्येतत् तु पररूपं न बाध्यते — येन नाप्राप्ते यो विधिरारभ्यते स तस्य बाधको भवति (परि॰ ५७) इति, **पुरस्तादपवादा अनन्तरान् विधीन् बाधन्ते०**(परि० ५९) इति वा। तेनेह न भवति — उप आ इत उपेत इति। एचीत्येव — उप इत उपेतः ॥ अक्षादूहिन्यां वृद्धिर्वक्त व्या॥ अक्षौहिणी॥ स्वादीरेरिण्योर्वृद्धिर्वक्त व्या॥ स्वैरम्। स्वैरिणी ॥ प्रादूढोढ्येषैष्येषु वृद्धिर्वक्त व्या॥ प्रौढः। प्रौढिः। प्रैषः। प्रैष्यः॥ ऋते च तृतीयासमासेऽवर्णाद् वृद्धिर्वक्त व्या॥ सुखेन ऋतः सुखार्तः। दुःखेन ऋतो दुःखार्तः। ऋत इति किम् ? सुखेन इतः सुखेतः। तृतीयेति किम् ? परमर्तः। समास इति किम् ? सुखेनर्तः॥ प्रवत्सतरकम्बलवसनानामृणे वृद्धिर्वक्तव्या ॥ प्र — प्रार्णम्। वत्सतर — वत्सतरार्णम्। कम्बल — कम्बलार्णम्। वसन — वसनार्णम्॥ ऋणदशाभ्यां वृद्धिर्वक्त व्या ॥ ऋणार्णम्। दशार्णम्॥

Siddhanta Kaumudi

अवर्णादेजाद्योरेत्येधत्योरूठि च परे वृद्धिरेकादेशः स्यात् । पररूपगुणापवादः । उपैति । उपैधते । प्रष्ठौहः । एजाद्योः किम् । उपेतः । मा भवान्प्रेदिधत् । पुरस्तादपवादन्यायेनेयं वृद्धिः एङि पररूपम् (SK78) इत्यस्यैव बाधिका न तु ओमाङोश्च (SK80) इत्यस्य । तेनावैहीति वृद्धिरसाधुरेव ।<!अक्षादूहिन्यामुपसङ्ख्यानम् !> (वार्तिकम्) ॥ अक्षौहिणी सेना ।<!स्वादीरेरिणोः !> (वार्तिकम्) ॥ स्वेनेरितुं शीलमस्येति स्वैरी । लिङ्गविशिष्टपरिभाषया स्वैरिणी ।<!प्रादूहोढोढ्येषैष्येषु !> (वार्तिकम्) ॥ प्रौहः । प्रौढः । [(परिभाषा - ) अर्थवद्ग्रहणे नानर्थकस्य ग्रहणम्] । व्रश्चे (SK294)इति सूत्रे राजेः पृथग्भ्राजिग्रहणाज्ज्ञापकात् ॥ तेन ऊढग्रहणेन क्तान्तमेव गृह्यते न तु क्तवत्वन्तस्यैकदेशः । प्रोढवान् । प्रौढिः । इष इच्छायां तुदादिः । इष गतौ दिवादिः । इष आभीक्ष्ण्ये क्र्यादिः । एषां घञि ण्यति च एषः एष्यः इति रूपे । तत्र पररूपे प्राप्तेऽनेन वृद्धिः । प्रैषः । प्रैष्यः ॥ यस्तु ईष उञ्छे । यश्च ईष गतिहिंसादर्शनेषु । तयोर्दीर्घोपधत्वात् । ईषः । ईष्यः । तत्राद्गुणे । प्रेषः । प्रेष्यः ॥<!ऋते च तृतीयासमासे !> (वार्तिकम्) ॥ सुखेन ऋतः सुखार्तः । तृतीयेति किम् । परमर्तः ॥<!प्रवत्सतरकम्बलवसनार्णदशानामृणे !> (वार्तिकम्) ॥ प्रार्णम् । वत्सतरार्णमित्यादि ॥ ऋणस्यापनयनाय यदन्यदृणं क्रियते तदृणार्णम् । दशार्णो देशः । नदी च दशार्णा । ऋणशब्दो दुर्गभूमौ जले च ॥

Laghu Siddhanta Kaumudi

अवर्णादेजाद्योरेत्येधत्योरूठि च परे वृद्धिरेकादेशः स्यात्। उपैति। उपैधते। प्रष्ठौहः। एजाद्योः किम्? उपेतः। मा भवान्प्रेदिधत्। अक्षादूहिन्यामुपसंख्यानम् (वार्त्तिकम्) । अक्षौहिणी सेना। प्रादूहोढोढ्येषैष्येषु (वार्त्तिकम्)। प्रौहः। प्रौढः। प्रौढिः। प्रैषः। प्रैष्यः। ऋते च तृतीयासमासे (वार्त्तिकम्)। सुखेन ऋतः सुखार्तः। तृतीयेति किम्? परमर्तः। प्रवत्सतरकम्बलवसनार्णदशानामृणे (वार्त्तिकम्) । प्रार्णम्, वत्सतरार्णम्, इत्यादि॥

Laghu Shabdendushekhar

एत्येध । ऊठ् अत्रादेश एव, व्याख्यानात् । एचीति नोठो विशेषणमूठस्तत्त्वासम्भवात् । “एत्येधत्योः” इति योगं विभज्य तयोरेवैचीति विशेषणस्य भाष्ये कृतत्वाच्च तदाह – एजाद्योरिति । एतिरत्रेणेव प्रसिद्धत्वात् । उपैति इत्यादौ वृद्धिरेचि (६.१.८८) इत्यनेन गतार्थत्वमाशङ्क्याह - पररूपगुणेति । एत्येधत्योरेङि पररूपस्योठि चाऽऽद्गुणस्येति विवेकः । उपेधत इति । अत्र न सर्वादेशः । एत्येधत्याद्यवयवेऽचीत्येवं क्रमेण सूत्राणामर्थात् । अयमेवार्थ इति प्रत्ययलक्षणसूत्रस्थभाष्यस्वरसः । “वृक्षे शाखा” इतिवत् एत्येधत्यूठ्स्विति सप्तमी बोध्या । प्रष्ठौह इति । प्रष्ठं वहतीत्यर्थे वहेर्ण्वौ ततः शस्यूठि सम्प्रसारणे पूर्वरूपेऽनेन वृद्धिः । प्रेदिधदिति । परे तु <!इणीकारादौ प्रतिषेधः!> इति वार्त्तिके एधत्यनुपादानात् “न त्वेधतेरव्यभिचारात्” इति वृत्तेश्चास्यानभिधानमेव । एत्येधत्योरेचीति विशेषणम् इति भाष्यस्यैधत्यंशे सम्भवमात्रेणोपरञ्जकतया विशेषणमित्याशय इत्याहुः । “उपैधयते” इत्यादावपि वृद्धिर्भवत्येव, प्रकृतिभागस्यैध्रूपत्वात् । किञ्च एत्येधत्यवयवेऽचीत्यर्थः प्रत्ययलक्षणसूत्रभाष्यसम्मत इति अत्र न दोषः । पुरस्तादिति । ** पुरस्तादपवादा अनन्तरान्विधीन्बाधन्ते नोत्तरान् ** (PB६०) इति न्यायः । अवश्यं स्वपरस्मिन्बाधनीये भेदेनापेक्षायां प्रथमोपस्थितबाधेनाऽऽकाङ्क्षानिवृत्तिर्हि तद्बीजम् । असाधुरेवेति । आङिणोरेकादेशस्य पूर्वान्ततयाऽऽङि पररूपेण बाधादिति भावः । अर्थवद्ग्रहणे इति । अस्या बीजं स्वं रूपमिति सूत्रे उक्तम् । पररूपे प्राप्ते इति । पूर्वं धातुः साधनेन युज्यते इति सिद्धान्तादिति भावः ॥

Balamanorama

एत्येधत्यूठ्सु - एत्येधत्यूठसु । एतिश्च एधतिश्च ऊठ्चेति विग्रहः । एतीति एधतीति चईक्श्तिपौ धातुनिर्देशे॑ इति श्तिपा निर्देशः । इण् गताविति, एध वृद्धाविति च धातू विवक्षितौ । एचीत्यनुवर्तते ।यस्मिन्विधि॑रिति तदादिग्रहणम् । एजादाविति लभ्यते । तच्च एत्येधत्योरेव विशेषणं, न तूठोऽसंभवात् ।एकः पूर्वपरयो॑रित्यधिकृतम् । आद्गुण इत्यत आदिति पञ्चम्यन्तमनुवर्तते । तदाह — अवर्णादित्यादिना । उपैतीति । इण्धातोर्लट् । तिप् शप् लुक् । ‘सार्वधातुक’ इति इकारस्य गुण एकारः । उप-एतीति स्थितेऽनेन वृद्धिः । उपैधत इति । एधधातोर्लट् । आत्मनेपदं तादेशः । शप् ।टित आत्मनेपदाना॑मित्येत्वम् । उप एधते इति स्थितेऽनेन वृद्धिः । प्रष्ठौह इति । प्रष्ठं वहतीति प्रष्ठवाट् ।वहश्चे॑ति ण्विः । ‘वेरपृक्तस्ये’ इति वलोपः । ‘अत उपधाया’ इति वृद्धिः । ततः शसिवसोः सम्प्रसारण॑मित्यतः संप्रसारणमित्यनुवृत्तौ ‘वाह ऊठ्’ इति संप्रसारण संज्ञकस्य ऊठःसम्प्रसारणाच्चे॑ति पूर्वरूपम् । प्रष्ठ ऊहिति स्थितेऽनेन वृद्धिरौकारः । नन्वत्र एत्येधतिग्रहणं व्यर्थम्, उपैति उपैधत इत्यत्र वृद्धिरैचीत्यनेनैव वृद्धिसंभवात् । ऊठग्रहणमपि व्यर्थं, वृद्धिरेचीत्य#एव सिद्धेः । वाह ऊठग्रहणानार्थक्यं, संप्रासरणेन कृतत्वात् । गुणस्तु प्रत्ययलक्षणत्वात् । एज्ग्रहणाद्वृद्धिः॑ इति वार्त्तिककृता तथैवोक्तत्वात् । ऊठ्ग्रहणं न कर्तव्यम् ।वाह॑इत्येव सूत्पमस्तु । भस्य वाहः संप्रसारणं स्यादिति संप्रसारणमेव विधीयतां, ततश्च वकारस्य उकारे संप्रसारणे पूर्वरूपे सति उहिति स्थिते प्रत्ययलक्षणमाश्रित्य ण्विप्रत्यये परे उकारस्य लघूपधगुणे ओकारे कृते प्रष्ठ-ओहिति स्थिते वृद्धिरेचीति वृद्धिरिति वार्तिकार्थः । तस्मादेत्येधत्यूठसु इति सूत्रं व्यर्थमित्यत आह — पररूपगुणापवाद इति । एत्येधत्योरेङि पररूपमित्यस्य, ऊठि आद्गुण इत्यस्यायमपवाद इत्यर्थः । यदि हि बाहः सम्प्रसारणमेव विधीयेत न तूठ्, तर्हि वस्य संप्रसारणेन उत्वे कृते पूर्वरूपे सति तस्य लघूपधगुणो न भवति तस्मिन् कर्तव्ये बहिर्भूतशस्प्रत्ययापेक्षभसंज्ञापेक्षसंप्रसारणाश्रित पूर्वरूपस्य बहिरङ्गतयाऽत्राऽसिद्धत्वात् । तथाच गुणाऽभावे प्रष्ठ-उ-आहिति स्थिते पूर्वरूपे प्रष्ठ-उह् इति स्थिते ‘आद्गुण’ इति गुणे ओकारे ‘प्रष्ठोह’ इति स्यात् । संप्रसारणसंज्ञकस्य ऊठो विधौ तु प्रष्ठ ऊ आहिति स्थिते पूर्वरूपे लघूपधगुणस्याऽप्रसक्ततया ओकारस्याऽभावादूकारस्यैव सत्त्वाद्वृद्धिरेचीत्यस्याऽप्रसक्तेराद्गुण इति प्राप्ते एत्येधत्यूठ्स्विति वृद्धौ ‘प्रष्ठौह’ इति सिध्यतीत्यूठ्ग्रहणमावश्यकमिति वाहौउठ सूत्रे समुदाहृतवार्तिकं भाष्ये दूषितमित्यास्तां तावत् । उपेत इति । इण्धातोर्लट् तस् शप् लुक् ।सार्वधातुकमपि ॑दिति तसो ङित्त्वात्तास्मिन् परत इकारस्य न गुणः । अत्र इण्धातोरेजादित्वाऽभावात्तस्मिन्परतो न वृद्धिः । मा भवान्प्रेदिधदिति । एधधातोर्णिच् । लुङ् तिप् । ‘नित्यं ङितः’ इति इकारलोपः । ‘णिश्रिद्रुरुआउभ्य’ इति चङ् ।णौ चङ्युपधाया ह्रस्वः॑ ।चङी॑त्यजादेर्द्वितीयस्य धिशब्दस्य द्वित्वम् ।अभ्यासे चर्चे॑ति जश्त्वम् । ‘न माङ्योग’ इत्याडभावः । भवच्छब्दयोहगात्प्रथमपुरुषः । तच्च तिङन्ताधिकारे स्पष्टीभविष्यति । प्र-इदिधदिति स्थिते एत्येधतीति न वृद्धिः, एधधातोरेजादित्वाऽभावात् । तत्र एजादित्वविशेषणाऽभावे तु इहापि वृद्धिः स्यात् । न च णौ चङीत्येकारस्य ह्रस्वेन इकारे सति नायमेधधातुरिति वाच्यम्, एकदेशविकृतस्यानन्यत्वात् । अत्र माङं विहाय प्रेदिधदिति न प्रत्युदाहृतम् । तथा सति आडजादीनामित्याडागमे आटश्चेति वृद्धौ ऐदिधदिति स्यात् । तत्र एधतेरेजादित्वाद्वृद्धिरिष्टैव । भवच्छब्दस्तु चिन्त्यप्रयोजनः । ननु आ इहि, आद्गुणः, एहि, अव-एहीति स्थिते एकादेशस्य गुणस्य एकारस्य अन्तादिवच्चेति परादिवद्भावेन,आद्यन्तवदेकस्मि॑न्निति व्यपदेशिवद्भावेन च , च इण्धातोरेजादित्वात्तस्मिन् परेएङिपररूप॑मिति पररूपं बाधित्वा एत्येधत्यत्यूठ्स्विति वृद्धौअवैही॑ति इष्टं न स्यात् । न च ओमाङोश्चेति पररूपेण तन्निर्वाहः शङ्क्यः । एत्येधतीति वृद्धिर्हि यथा एङि पररूपमित्यस्यापवादस्तथा ओमाङित्यस्याप्यपवादः;येन नाप्राप्तिन्यायसाम्यादित्यत आह — पुरस्तादिति ।पुरस्तादपवादा अनन्तरान्विधीन्बाधन्ते नोत्तरा॑निति न्यायः । पूर्वपठिता अपवादा अव्यवहितानेवोत्तररान्विधीन्बाधन्ते न तु व्यवहितानित्यर्थः । प्रकृते च एत्येधत्यूठ्सु इत्युत्तरं कानिचित् सूत्राणि पठित्वाएङि पररूप॑मिति पठित्वा पुनः कतिपयसूत्राणि पठित्वा पुनः ओमाङोश्चेति पठितम् । ततश्चोक्तन्यायेनएत्येधती॑ति वृद्ध्याएङि पररूप॑मित्येव बाध्यते न त्वोमाङोश्चेति पररूपमपीति भावः । वस्तुतस्तु एत्येधतीति वृद्धिरोमाङोश्चात्यस्यापवाद एव न भवति, उपैतीत्यादावप्राप्तेऽपि तस्मिन्नेत्येधतीति वृद्धेरारम्भात् । अतः पुरस्तादपवादा॑ इति न्यायस्य नायं विषयः । ततस्च अव-एहीत्यत्र एत्येधतीति बाधित्वा परत्वादोमाङोश्चेति पररूपं न्याय्यमित्येव वक्तुमुचितम् । अत एव भाष्ये — नाप्राप्ते एङि पररूपे एत्येधतीति बाधित्वा परत्वादोमाहोश्चेति पररूपं न्याय्यमित्येव वक्तुमुचितम् । अत एव भाष्ये — ॒नाप्राप्ते एङि पररूपे एत्येधतीति वृद्धिरारभ्यमाणा भवति तस्यापवादः । आङि पररूपे तु प्राप्ते चाऽप्राप्ते च आरभ्यमाणा वृद्धिर्नं तदपवाद॑ इति स्पष्टमेवोक्तम् । यत्तु भाष्ये पक्षान्तरमुक्तम् — ॒अथवा पुरस्तादपवादा अनन्तरान्विधीन् बाधन्त इत्येवमेत्येधतीति वृद्धिरेङि पररूपमेव बाधते न त्वोमाङोश्चेति पररूपमपी॑ति । तत्तु एत्येधतीति वृद्धिरेङि पररूपमोमाङोश्चेति सूत्रद्वयापवादत्वाब्युपगमवादमात्रमाश्रित्य, बाध्यसामान्याचिन्तामाश्रित्य वेत्यलं बहुना । अक्षादूहिन्यामुपसंख्यानम् । आदिति अचीति वृद्धिरिति चानुवर्तते ।एकः पूर्वपरयो॑रिति च ।ऊह वितर्के॑ । ऊहनमूहः, सोऽस्या अस्तीत्यूहिनी । अक्षशब्दादूहिनीशब्दे परे पूर्वपरयोरचोर्वृद्धिरेकादेशः स्यादित्यर्थः । अक्षौहिणीति मत्वर्थीय इनिः । नान्तत्वान्ङीप् । अक्षाणामूहिनीति विग्रहः । परिमाणविशेषविशिष्टा सेना अक्षोहिणी ।पूर्वपदात्संज्ञाया॑मिति णत्वम् । अक्ष — ऊहिनीति स्थिते गुण प्राप्तेऽनेन वार्तिकेन वृद्धिः ।स्वादीरेरिणोः । स्वशब्दादीरशब्दे ईरिन्शब्दे च परे पूर्वपरयोरचोर्वृद्धिरेकादेशः स्यादित्यर्थः । स्वैर इति ईरगतौ । भावे घञ् । स्वेन च्छन्देन ईर इति विग्रहः ।कर्तृकरणे कृता बहुल॑मिति समासः । स्व — ईर इति स्थिते गुणेप्राप्तेऽनेन वार्तिकेन वृद्धिः । स्वेनेरितुमिति । स्वेनच्छन्देन ईरितुं संचरितुं शीलमस्येत्यर्थेसुप्यजाता॑विति णिनिः । स्वच्छन्दचारीत्यर्थः । उपपदसमासः । स्व — ईरिन्निति स्थिते गुणे प्राप्तेऽनेन वृद्धिः ।प्रादूहोढोढएषेष्येषु । प्रेत्युपसर्गात् ‘ऊह’ ‘ऊढ’ ‘एष॒॑एष्य’ एतेषु परेषु पूर्वपरयोरचोर्वृद्धिरेकादेशः स्यादित्यर्थः । प्रौह इति । ऊहवितर्के । भावे घञ् । गतिसमासः । प्र-ऊह इति स्थितेऽनेन वार्तिकेन वृद्धिः प्रौढ इति । बह प्रापणे । क्तः ।वचिस्वपी॑ति सम्प्रसारणम् । पूर्वरूपम् । ‘हो ढ’ इति ढत्वम् । झषस्तथोरिति धत्वम् । ष्टुत्वम् । ‘ढो ढे लोपः’ ‘ढ्रलोप’ इति दीर्घः । प्र-ऊढ इत,#इ स्थिते गुणे प्राप्तेऽनेन वृद्धिः । ननु प्रोढवानित्यत्रापि वहधातोः क्तवतुप्रत्यये ढत्वधत्वष्टुत्वढलोपदीर्घेषु प्र-ऊढवदिति स्थिते प्रादूहोढेति वृद्धि स्यात्, तत्रापि ऊढशब्दस्य परत्वेन श्रवणादित्यत आह — अर्थवदिति । अर्थवतः शब्दस्य ग्रहणसम्भवेऽनर्थकस्य शब्दस्य ग्रहणं न भवतीत्यर्थः । इयं परिभाषा॒स्वं रूप॑ मित्यत्र रूपग्रहणात्सिद्धेति तत्रैव सूत्रे भाष्ये स्पष्टम् । तेनेति । अर्थवत एव ग्रहणनियमेनेत्यर्थः । क्तान्तमेवेति । क्तप्रत्ययस्तावदर्थवान्, भावकर्मणोस्तद्विधानात् । क्तवतुप्रत्ययस्तु कर्तरि विहितः । अतस्तदेकदेशस्य क्तस्यानर्थकत्वात्प्रादूहोढेत्यत्र ऊढग्रहणेन ग्रहणं न भवति, अतस्तस्मिन्, परे वृद्धिर्न भवति, किन्त#उ गुण एवेत्यर्थः । प्रौढिरिति । वहधातोः क्तिन् । ढत्वधत्वष्टुत्वढलोपदीर्घाः । प्र-ऊढिरिति स्थिते गुणं बाधित्वाऽनेन वृद्दिः । इष-इच्छायामित्यादि । गणत्रयेऽपि ह्रस्वोपधा एव एते धातवः । तेषामिति निर्धारणे षष्ठी । तेषां मद्येऽन्यतमाद्व्वञि ण्यति च सति लघूपधगुणे कृते एष एष्य इति च रूपे सिद्धे । प्र एष प्र एष्य इति स्थिते एङि पररूपं बाधित्वाऽनेन वृद्धिः । #एतेन वृद्धिरेचीत्यनेन एवैषैष्यग्रहणयोर्गतार्थत्वं निरस्तम् । नन्वेवं सति प्रेष इति प्रेष्य इति च कथं प्रयोग इत्यत आह — यस्त्विति । तयोर्दीर्घोपधत्वेन लङूपधगुणाऽभावे ईष ईष्य इति च सिध्यति । तयोस्तु एतद्वार्तिके ग्रहणाऽभावात्तयोः परतो वृद्ध्यभावे ‘आद्गुण’ इति गुणे प्रेषः प्रेष्य इत्यपि रूपद्वयमस्तीत्यर्थः । एषशब्दसाहचर्यादेष्यशब्दोऽपि कृदन्त एव गृह्रते । तेन तिङन्ते ल्यबन्ते च न वृद्धिः । अग्नये प्रेष्य दूतम्, प्रेष्य गतः ।ऋते च तृतीयासमासे । तृतीया समासेऽकारादृतशब्दे परे पूर्वपरयोरचोर्वृद्धिः स्यादित्यर्थः । सुखेन ऋत इति विग्रहप्रदर्शनम् । ऋ गतौ । गत्यर्थाकर्मकेति कर्तरि क्तः । प्रकृत्यादित्वात्तृतीया । सुप्सुपेति समासः । सुख-ऋत इति स्थिते गुणे प्राप्तेऽनेन वृद्धिराकारः । रपरत्वे सुखार्त इति रूपम् । समसग्रहणस्योदाहृतविग्रहवाक्यमेव प्रत्युदाहरणं दर्शितप्रायमिति तृतीयेत्यंशस्य प्रयोजनं पृच्छति — तृतीयेति किमिति । परमर्त इति । परमश्चासौ ऋतश्चेति कर्मधारयः । आद्गुणः ।प्रवत्सतर पञ्चम्यर्थे षष्ठी ।प्र॒॑वत्सतर॒॑कम्बल॒॑वसन॒॑ऋण॑ ‘दश’ एतेषामृणशब्दे परे पूर्वपरयोरचोर्वृद्धिरेकादेशः स्यादित्यर्थः । प्रार्णामिति । प्रगतमृणमिति विग्रहे,प्रादयो गताद्यर्थे प्रथमये॑ति गतिसमासः । प्र-ऋणिमिति स्थिते गुणं बाधित्वाऽनेन वार्तिकेन वृद्धिराकारः । रपरत्वम् । वत्सतरः=शिशुवत्सः, तस्य ऋणमिति विग्रहः । वत्सतरमधिकृत्य वा तद्ग्रहणार्थं वा यदृणं गृह्रते तद्वत्सतरार्णम् । एवमग्रेऽपि द्रष्टव्यम् । आदिशब्देन कम्बलार्णं वसनार्णं दशामृणार्णमिति च गृह्रते । सर्वत्र षष्ठीसमासः । ऋणशब्दस्य ऋणशब्दे परे कथमन्वय इत्यत आह-ऋणस्येति । देशनदीविशेषयोः कथं दशार्णशब्दप्रवृत्तिरित्यत आह — ऋणशब्द इति । तथा च दश ऋणानि दुर्गभूमयो यस्मिन् देशे स दशार्णो देशविशेषः । दशविधानि ऋणानि जलानि यस्यां नद्यां सा दशार्णेति विग्रहः ।

Tattvabodhini

एत्येधत्यूठ्सु - एत्येधत्यूठसु । अत्रएची॑त्यनुवर्तते । तच्च एत्येधत्योर्विशेषणं न तूठः, असंभवात् ।आद्गुणः॑ इत्यत आदित्यनुवर्तत एवाऽतो व्याचष्टे-अवर्णादेजाद्योरिति । प्रष्ठौह इति । प्रष्ठं वहतीति प्रष्ठवाट् ।वहश्चे॑ति ण्विः । ततः शसिवाह ऊठ् । गुणापवादतयाऽनेन वृद्धिः । प्रेदिधदिति । प्रपूर्वस्यैधतेण्र्यन्तस्य लुङि रूपम् ।न माङ्योगे॑ इत्याडागमाऽभावः । पुरस्तादिति ।पुरस्तादपवादा अनन्तरान्विधीन्बाधन्ते नोत्तरा॑निति न्यायेनेत्यर्थः । अक्षादिति ।आ॑दित्यनुवर्तते,अची॑ति च । तेन पूर्वपरयोर्वर्णयोरेव भवति । एवमन्यत्राप्यूह्रम् ।अक्षादूहिन्यामुपसङ्ख्यानम् । अक्षौहिणीति । ऊहः=समूहः, सोऽस्त्यस्याः सा ऊहिनी । अक्षाणामूहिनीति विग्रहः । परिमाणविशेषविशिष्टा सेना अक्षौहिणी ।पूर्वपदात्संज्ञायाम्-॑ इति णत्वम् ।अक्षणा॑मित्यस्यऊह॑-शब्देन समासे तत इनौ तुअक्षौहिणी॑त्येव भवति, न तु तत्र वृद्धिः, अन्तरङ्गेण गुणेन बाधात् । अपवादभूताया अपि वृद्धेरूहिनीशब्देन समासे चरितार्थत्वात् । यथोक्तं प्राक्यद्यपवादोऽन्यत्र चरितार्थस्तर्हि परान्तरङ्गभ्यां बाध्यते॑ इति ।स्वादीरेरिणोः ।ईरेरिण्योः इति क्वाचित्कोऽपपाठः ।स्वैरी॑ति णिन्यन्तस्य अस्त्रियां वृध्द्यभावप्रसङ्गात् ।ईरि॑न्ग्रहणस्य फलमाह-स्वेनेरितुमिति । यदा त्वी(रणमी)र इति घञन्तेन स्वशब्दस्य समासेस्वादीरे॑ इति वृद्धौ कृतायां मत्वर्थीय इनिः, यदा वा मत्वर्थीयेनिप्रत्ययान्तेन ईरिञ्शब्देन स्वशब्दस्य समासस्तदापि तदेकदेश ईरशब्दोऽस्त्येवेति पृथगीरिन्ग्रहणं व्यर्थं स्यादिति भावः ।स्वैरीति ।सुप्यजातौ॑ इति णिनिः । उपपदसमासः । स्वैरिणीति । ङीपः प्राग्भागमीरिञ्शब्दमादाय वृद्धिः । केचित्तु लिङ्गविशिष्टपरिभाषयाऽत्र वृद्धिरित्याहुस्तन्निष्फलमिति । भावः । नानर्थकस्येति । उपस्थितस्याऽर्थस्य शब्दं प्रति विशेषणत्वसंभवे त्यागाऽयोगादिति भावः । प्रैष्य इति । एषसाहचर्यादेष्योऽप्यनव्ययं गृह्रते; तेन ण्यन्तादिषेः त्त्को ल्यपि पररूपमेव, न तु वृद्धिः । प्रेष्य गतः । लघूपधगुणमाशङ्क्याह-तयोर्दीर्घोपधत्वादिति । प्रवत्सतरेति । इह केचिद्वत्सशब्दं वत्सरशब्दं च प्रक्षिपन्ति, तद्भाष्यादावदृष्टत्वादुपेक्ष्यम् । वत्सतरार्णमिति । तकारमकारयोर्द्वित्वविकल्पाच्चत्वारि रूपाणि । रेफात्परस्य तुअचो रहाभ्या॑मिति द्वित्वेयणो मयः॑ इति वचनान्तरेण पुनर्द्वित्वे एकणं द्विणं त्रिणमिति द्वादश ।खयः शरः॑ इति सकारद्वित्वे चतुर्विंशतिः(२४) । न चेहशरोऽची॑ति द्वित्वनिषेधः शङ्क्यः, तस्य सौत्रद्वित्वमात्रविषयत्वात् । अतएवखयः शरः॑ इति वार्तिकस्यवत्स्सरः॑अप्स्सराः॑ इत्युदाहरणं भाष्ये दत्तम् । न च वदेः सरप्रत्यये परतश्चर्त्वे कृते तस्याऽसिद्धत्वात्सस्य खयः परत्वं नेति शङ्क्यम् ;पूर्वत्रासिद्धीयमद्वित्वे॑ इत्युक्तेः । अतएव मनोरमायांषट् सन्तः॑ इत्यत्र टकारात्परस्य सस्य द्वित्वं स्वीकृतमिति दिक् ।

Padamanjari

न पुनरेधतेरव्यभिचारादिति। बाहुल्याभिप्रायेणैतदुक्तम्। अस्ति ह्यस्यापि व्यभिचारः -चङ्युपधाह्रस्वत्वे भवान् मा प्रेदिधदित्यत्रेत्याहुः। प्रष्ठौह इति। प्रष्ठ्ंअ वहतीति’धन्दसि सहः’ ,’वहश्च’ इति ण्विः,’वाह ऊठ’ इत्यूठ, सम्प्रसारणम्, पूर्वत्वम्, ततो वृद्धिः। एत्येधत्योरेहि पररूपापवाद इति। वृद्धिर्विधीयत इत्यनुषङ्गः। यथैव तर्हि ठेङ् पिररूपम्ऽ बाधते, एवमाङ् पिररूपमपि बाधेतः नाप्राप्ते पररूपेऽस्या वृद्धेरारम्भात्? इत्यत आह-ओमाङेश्चैतच्चिवति। कुतः? इत्याहयेनेति। स तस्य बाधको भवतीति। तस्यैव बाधको भवतीति यावत्, तद्बाधस्यावश्यम्भावित्वात्, तावता च बाधकस्य चरितार्थत्वात्। न चाप्राप्ते एङ् पिररूपे इयं वृद्धिरारभ्यते, आङ् पिररूपे तु आ इतःउएतः, प्रेतः, परेत इत्यत्र प्राप्ते; उपैति, प्रैतीत्यत्र त्वप्राप्ते तस्मान्न बाधते। परिहारान्तरमाह -पुरस्तादिति। अनन्तरे बाध्ये ज्ञाते तद्बाधया वचनस्य चरितार्थत्वादुतरेण सह स्पर्द्धायां परत्वातदेव भवतीति भावः। अक्षौहिणीति। अक्षैरूहतेऽवश्यमिति आवश्यके णिनिः, साधनम्’कृता’ इति समासः। स्वैरमिति। ठीर गतौऽ, ईरणमीरः, भावे घञ्, स्वेनाभिप्रायेण ईरणं स्वैरम्,’कर्तृकरणे कृता बहुलम्’ इति समासः, क्रियाविशेषणात्वाल्लोकाश्रयत्वाद्वा लिङ्गस्य नपुंसकत्वम्। स्वेनाभिप्रायेणेरते गच्छतीति स्वैरी,’सुप्यजातौ’ इति णिनिः। ईरिग्रहणमनर्थकम्, स्वेनाभिप्रायेणेरते गच्छतीति स्वैरी,’सुप्यजातौ’ इति णिनिः। ईरिग्रहणमनर्थकम्,’पदास्वैरिबाह्य’ इति निपातनात्सिद्धम्, पदास्वैरशब्दादिना मत्वर्थीयेन सिद्धम्, णिनिस्त्वनभिधानान्न भविष्यति। प्रादित्यादि। ऊढ, ऊढि, एष्य -इत्येतान्युतरपदानि। इष्यतेरिच्छतेरिष्णातेर्वा यदा ण्यत् तदा -प्रैष्यः, यदा घञ् तदा-प्रैषः, एङ् पिररूपापवादो वृद्धिः। ईष्यशब्दे तु प्रेष्य इति भवति। तथा आऔउढा ओढा प्रोढेअति ठोमाङेश्चऽ इति पररूपं भवति। पूर्वोपातस्य ऋणस्यापनयनाय यदृणमन्यदुपातं तद् ऋणार्णम्। दशार्णशब्दो नदीविशेषस्य, देशविशेषस्य च संज्ञा ॥

Nyaas

सम्भवे व्यभिचारे च सति विशेषणविशेष्यभावो भवति, तौ च सम्भवव्यभिचारावेतादेव धातौ स्तः, नेतरत्रेत्याह -तदेतदेज्ग्रहणम् इत्यादि। प्रष्ठौहः इति। प्रष्ठं बहतीति छन्दसि सहः (3.2.63) इति वहश्च (3.2.64) इति ण्विप्रत्ययः वाह ऊठ् (6.4.132) इत्यूठ्? सम्प्रसारणसंज्ञकः, सम्प्रसारणाच्च (6.1.108) इति परपूर्वत्वम्, ततो वृद्धिः। एत्येधत्योरेङि पररूपापवादः इति वृद्धिर्विधीयत इति प्रकृतेन सम्बन्धः। अथ ओमाङोश्च (6.1.95) इत्यस्याप्याङि पररूपापवादो वृद्धिः कस्मान्न भवति, नाप्राप्ते हि पररूप इयं वृद्धिरारभ्यत इति मा यथैङि पररूपं बाधते तथाङि पररूपमपि बाधेत, ततश्चेहापि स्यात् -आ+इतः=एतः, उप+एतः=उपेतः? इत्यत आह -ओमाङोश्चेत्येतत् इत्यादि। अत्रैव कारणमाह -येन नाप्राप्ते यो विधिरारभ्यते स तस्य बाधको भवति (इति)। नाप्रप्त एङि पररूपे इयं वृद्धिरारभ्यत इति युक्तं यत्? तस्य बाधिका भवति। आङि पररूपे तु प्राप्ते चाप्राप्ते चैषा वृद्धिरारभ्यते। आ+इतः=एतः, प्र+एतः=प्रेतः, परेतः इत्यत्र प्राप्त आङि पररूपे तु प्राप्ते चाप्राप्ते चैषा वृद्धिरारभ्यते। आ+इतः=एतः, प्र+एतः=प्रेतः, परेतः इत्यत्र प्राप्त आङि पररूपे उप+एति=उपैतीति -अत्र त्वप्राप्ते। तस्मादेषा वृद्धिराङि पररूपत्वं न बाधते। पुरस्तादपवादाः इत्यादिना परीहारान्तरमाह -पुरस्तादपवादा अनन्तरान्? विधीन्? बाधन्ते नोत्तरान् (व्या।प।9) इति, इयं च वृद्धिः पुरस्तादपवादः, अस्याश्चैहि पररूपमेवानन्तरम्, अतस्तदेव तया बाध्यते, नाङि पररूपम्, तस्यान्तरत्वात्। अक्षात् इत्यादि। वक्तव्या इति। व्याख्येयेत्यर्थः। तत्रेदं व्याख्यानम् -उत्तरसूत्रे चकारोऽधिकविधानार्थः। तेनाक्षशब्दादूहिनीशब्दे परतो वृद्धिर्भविष्यतीति। एवमुत्तरत्रापि वक्तव्यशब्दस्यार्थः, व्याख्यानमप्येवमेव वेदितव्यम्। अक्षाणामूहः, सोऽस्यास्तीति मत्वर्थीयः इनिः। ऋन्नेब्यो ङीप् (4.1.5) इति ङीप् -अक्षौहिणोस्वैरम् इति। ईर गतौ (धातुपाठः-1018) ईरणमीरः, भावे घञ्? स्वस्य ईरः स्वैरः। क्रियविशेषणत्वात्? स्वैरमिति वृत्तौ नपुंसकलिङ्गेन निर्देशः। क्रिया तु काचिदत्राध्याहर्तव्या। अथ वा स्व ईरो यस्य कुलस्य तत्? स्वैरं कुलम्। नपुंसकस्य कुलादेरन्यपदार्थत्वान्नपुंसकलिङ्गत्वम्। स्वैरी [स्वैरिणी -काशिका] इति। स्वमीरितुं शीलमस्येति सुप्यजातौ णिनिस्ताच्छील्ये (3.2.78) इति णिनिः। ऊढ, ऊढिरिति शब्दौ निष्ठाक्तिन्नन्तौ। प्रैषः इति। इष गतिरहिसादानेषु (धातुपाठः-1127) इषु इच्छायाम् (धातुपाठः-1351) इति वा, अभ्यां प्रपूर्वाभ्यां यदा घञ्? तदा प्रैषः, यदा तु ण्यत्? तदा प्रैष्य इति। सुखार्त्तः इति। कर्तृकरणे कृता बहुलम् (2.1.32) इति समासः॥

Praudhamanorama

अत्र एचीत्यनुवर्तते। तच्च एतेरेव विशेषणं नत्वेधतेः, अव्यभिचारात्। नाप्यूठः, असम्भवादिति प्राञ्चः। अत्र कैयटः— एधतेरपि विशेषणम्। मा भवान्प्रेदिधदित्यत्र व्यभिचारात्। यद्यपीदं कैयटपुस्तकेषु प्रायेण न दृश्यते, तथापि क्वचिद् दृश्यत एव। न च णौ चङि— (7.4.11) इति ह्रस्वे कृते नायमेधतिरिति वाच्यम्। एकदेशविकृतस्यानन्यत्वात्। न चैवमपि अजादेर्द्वितीयस्य (6.1.2) इति धिशब्दस्थाने धिधिशब्दादेशे सति वस्नसोरिव प्रकृतिप्रत्ययविभागसम्मोह इति वाच्यम्। द्विःप्रयोगो द्विर्वचनं षाष्ठमिति षाष्ठभाष्ये सिद्धान्तितत्वात्। अन्यथेहैव णिलोपो न स्यात्। जिघांसतीत्यादौ सनः सकारेण विशिष्टस्य द्वित्वे कृते ह्यस्वो न भवत्येवेति वाच्यम्। ओणेर्ऋदित्करणेन बहिरङ्गस्यापि णौ चङि— (7.4.1) इति ह्रस्वस्य प्रथमं प्रवृत्तिरिति ज्ञापितत्वात्। अत्र माधवः— मा भवान्प्रेदिधदित्यत्र नातिप्रसङ्गः। ण्यन्तस्य शब्दान्तरत्वादेधतिग्रहणेनाग्रहणात्। अत एव हि न भाभूपूकमिगमि— (8.4.34) इत्यत्र ‘ ण्यन्तानां च भादीनामुपसंख्यानम्’ इत्युक्तम्। तत्रैव शब्दान्तरत्वादप्राप्तावुपसंख्यानमिति कैयटन्यासकारहरदत्तादिभिः सर्वैरेवोक्तम्। किं च ण्यधिकस्यापि ग्रहणे उपसर्गात्सुनोति— (6.1.91) इत्यत्राभिषावयतीत्युदाहृत्य ण्यन्तेनाभेर्योगात्सुनोतिं प्रत्यनुपसर्गत्वात्कथं षत्वमित्याशङ्क्याभेः प्रकृत्यर्थविशेषकत्वेन समाधानं भाष्यकाराद्युक्तमसङ्गतं स्यात्। न च हेरचङि (7.3.56) इति लिङ्गात् ‘प्रकृतिग्रहणे ण्यधिकस्यापि ग्रहणम्’ इति भ्रमितव्यम्। ज्ञापकस्य कुत्वमात्रविषयकत्वात्। तथा च वार्तिकम्—‘हेश्चङि प्रतिषेधानर्थक्यमङ्गान्यत्वात्। ज्ञापकं तु चङोऽन्यत्र ण्यन्तेऽपि कुत्वभावस्य’ इति। तस्माद्युक्तिविरोधाद्भाष्यवार्तिकवृत्तिन्यासादिग्रन्थैः पूर्वापरस्वग्रन्थेन च विरोधादुपेक्ष्योऽयं कैयट इति। अत्रेदं वक्तव्यम्। अस्तु विशिष्टस्य शब्दान्तरत्वं तावताऽपि प्रकृतिभागस्यैध्रूपत्वं केनापगतमित्यवधार्यताम्। न ह्युपैधत इत्यादौ तिङन्तस्यैध्रूपता नास्तीति प्रकृत्यंशे सा हीयते। तथा च ‘उपसर्गात्सुनोति—‘इति सूत्रे वार्तिकम्—‘सिद्धं त्ववयवान्यत्वात्’इति। यत्त्वभिषावयतीत्यत्रत्यभाष्यविरोधोद्भावनं, तद्विपरीतम्। यतः प्रकृतेः सुनोतिरूपानपायात् कैयटमते सिद्धा यथोक्तव्यवस्था। त्वन्मते तु रूपान्तरत्वेन ण्यधिकस्याग्रहणादसङ्गतैव प्रागुक्तव्यवस्था स्यात्। को ह्येधयतिसावयत्योर्विशेषः—यदेधतेण्र्यधिकस्याग्रहणं सुनोतेस्तु ग्रहणमिति। यदपि ण्यन्तभादीनामुपसंख्यानमुपन्यस्तं तदपि नास्माकं प्रतिकूलम्, विशिष्टस्य शब्दान्तरत्वेन प्रकृत्यंशस्य तु णिचा व्यवधानेनोपसंख्यानस्यावश्यकत्वात्। अत एव न तत्रत्यन्यासादिभिः स्वोक्त्या वा विरोधः। प्रत्युत तवैव विरोधः, षाष्ठे भाष्यवार्तिकयोः एत्येधत्योः— (6.1.89) इति योगं विभज्य ‘एचि’ इति विशेषितत्वात्। तस्मादिह वृत्तिग्रन्थो माधवग्रन्थश्चासङ्गत एवाभिप्रेत्य व्याचष्टे— अक्षौहिणीति। ऊहोस्त्यस्य ऊहिनी अक्षाणामूहिनीति विग्रहः। परिमाणविशेषविशिष्टा सेना अक्षौहिणी। पूर्वपदात्संज्ञायाम् (8.4.3) इति णत्वम्। यत्तु प्राचा विगृहीतमक्षाणामूहः समूहः सोऽस्त्यस्या इति। तदपि उहिनीशब्देन षष्ठीतत्पुरुष इत्येवंपरतयैव कथञ्चिन्नेयम्। ऊहशब्देन समासे तत इनौ तु वृध्दिर्न स्यात्, अन्तरङ्गेण गुणेन बाधात्। अपवादभूताया अपि वृद्धेरूहिनीशब्देन विग्रहे चरितार्थत्वात्। यथोक्तं प्राक्— ‘इण्-ङि-शीनामाद् गुणः सवर्णदीर्घत्वात्’ इति। स्वादीरेरिणोः ॥ इरेरिण्योरिति क्वाचित्कोऽपपाठः। स्वैरीति णिन्यन्तस्यास्त्रियां वृद्ध्यभावप्रसङ्गात्। स्वैरिणीत्यत्र तु ङीपः प्राग्भागमादाय वृद्धिर्बोध्या। यत्तु व्याचख्युः लिङ्गविशिष्टपरिभाषयेति तन्निष्फलम्॥ ‘प्रादूहोढोढ्येषैष्येषु’॥ अत्रोहशब्दः कैश्चित्प्रक्षिप्तो भाष्यादौ तु न दृश्यते इति प्राञ्चः। इदानीन्तनपुस्तकेषु तु भाष्यवार्तिकयोरूहशब्दो दृश्यत एव। नानर्थकस्येति। उपस्थितस्यार्थस्य शब्दं प्रति विशेषणत्वसंभवे त्यागायोगादिति भावः। सीरदेवस्त्वाह- व्रश्च (8.2.36) इति सूत्रे राजेः पृथग् भ्राजिग्रहणमिह ज्ञापकमिति। नन्वेतदयुक्तम्, फणादिना राजिना साहचर्यात् तथाभूतस्यैव षत्वार्थतया भ्राजिग्रहणस्योपक्षीणत्वादिति चेत्, विभ्राट्, विभ्रागिति रूपद्वयं हि साध्यं, तच्च व्रश्चादिसूत्रे ‘राजृ’ इति पठित्वाऽपि साध्यम्, एकस्य भ्राजतेर्ऋकारस्य प्रागपि दातुं शक्यत्वात्- ऋभ्राज इति, भ्राजभास (7.4.3) इति विकल्पस्य वाचनिकतया ऋकारस्य आत्मनेपदमात्रफलकतया वक्ष्यमाणत्वेन तत्स्थानेऽकारस्य सुपठत्वाच्च। तस्मात् सीरदेवोक्तं ज्ञापकमपि सम्यगेव। प्रैष्य इति। एषसाहचर्यादेष्योऽपि अनव्ययं गृह्यते। तेन ण्यन्तादिषेः क्त्वो ल्यपि पररूपमेव, न तु वृद्धिः। प्रेष्य गतः। प्रवत्सतरेति। अत्र कालापानुसारिणो वत्सरशब्दमपि पठित्वा वत्सरे देयमृणं वत्सरार्णमित्युदाहरन्ति। अपरे तु वत्सशब्दमपि पठन्ति, तत्सर्वं भाष्यादिविरुद्धम्॥

Prakriyasarvasvam

एषु परेष्वद् वृद्धिरेव । उपैति । उपैधते । णिजन्तत्वे शब्दान्तरत्वाद् उपेधयतीत्यत्र न वृद्धिरिति माधवः । एतेरेजादित्व एव वृद्धिः । उप इहि उपेहीत्यत्र न । उपेष्यतीत्यादाववृद्धिश्चेद्यतेः साध्यम् । ऊठि वृद्धि पश्चाद् वक्ष्यामः ।<!प्रादूहोढोढयेषैष्येषु!> (वा० ६-१-८९) वृद्धिरेव । प्रकृष्ट ऊहः प्रौहः । प्रौढः । प्रौढिः । प्रैषः । प्रैष्यः । एषैष्ययोरेङि पररूपे प्राप्ते उक्तिः । ईपिधातुजादीष्यशब्दा- दाद्गुणे प्रेष्यसिद्धिः । ‘शकन्ध्वादिषु पररूपम् वाच्यम् (वा० ६-१-९४) शकानामनन्धुः शकन्धुः । कुलान्यटतीति कुलटा । सारङ्गः । सीमन्तः । पतञ्जलिः । लाङ्गल हलं तस्येषा दण्डो लाङ्गलीषा हलीषा ।<!एवे चानियोगे!> (वा० ६-१-९४) नियोगोऽवधारणं ततोऽन्यत्रार्थे पररूपं स्यादिति माधवः । क्वेव भोक्ष्यसे, न क्वापीत्यर्थः । एवशब्दोऽत्रासम्भावने । अवधारणे तु वृद्धिरेव । अद्यैवागतः ।<!ओत्वोष्ठयोः समासे वा पररूपम्!> (वा० ६-१-९४) । स्थूलोतुः स्थूलौतुः । विम्बोष्ठः विम्बौष्ठः । असमासे तु तवौष्ठः ।

Sarala

एजाद्योरिति एत्येधत्योरेव विशेषणं, न तु ऊठः, असम्भवात् । उपैति = ग्राममुपगच्छति, प्राप्नोति । उपैधते = समृद्धो भवति । प्रष्ठौहः = वत्सदमनकाष्ठविशेषवाहकस्य वत्सस्य । षष्ठ्यन्तोऽयम् । मा भवानित्यस्य = भवान् प्रवृद्धिं न करोत्वित्यर्थः । अक्षाणामूहिनीति विग्रहः, पूर्वपदात्सञ्ज्ञायामगः (८.४.३) इति णत्वम् । प्रौहः = प्रकृष्टस्तर्कः । प्रौढः = महान्, प्रवृद्धश्च । प्रौढिः = महत्त्वं, गर्वश्च । प्रेषः = प्रेरणम् । प्रैष्यः = दासः । सुखार्त्तः = सुखेन गतः । परमश्चासौ ऋतश्चेति कर्मधारयोऽत्र, न तु तृतीयासमासोऽतोऽत्र न वृद्धिः । प्रार्णं = प्रकृष्टम् ऋणम् । वत्सतरार्णम् = वत्सतरस्य ऋणं । वत्सतररूपम् ऋणमिति यावत् । (वत्सतर = बच्छड़ा) । एवं - “कम्बलार्णं” - वसनार्णमित्यादावप्यर्थो बोध्यः । ऋणस्यापनयनाय यदन्यदृणं क्रियते तत् - “ऋणार्णम्” । “दशार्णो” देशः [रीवाँ प्रान्त] ॥

Sudha

उपैतीति । “उप-एति” इति स्थिते अत्र एत्येधत्यूठ्सु (6.1.89) इत्यनेन अवर्णादेकादि इण्-धातु-एध्-धातु-ऊठ्सु परेषु पूर्वपरयोः स्थाने वृद्धिरूपैकादेशो भवतीत्यर्थकेन, अवर्णात् (उप इत्यत्र पकारोत्तवर्ति-अवर्णात्) एजादि-(इण्-धातु-)एति-परे पूर्वपरयोः (अ-ए-इत्यत्र) वृद्धिसंज्ञक आन्तरतम्य ऐ आदेशो जातः, तेन “उपैति” इति भवति । अत्र एङि पररूपम् (6.1.94) इत्यनेन पररूपस्य प्राप्तिरासीत्, परं तत्सूत्रमपवादत्वात् एत्येधत्यूठ्सु (6.1.89) इत्यनेन वृद्धौ सत्याम् “उपैधते” इति रूपम् । “प्रष्ठ-उहः” इति स्थिते अत्र आद्गुणः (6.1.87) इत्यनेन गुणे प्राप्ते एत्येधत्यूठ्सु (6.1.89) इत्यनेन प्रबाध्य वृद्धौ सत्यां रूपम् । “उप-इतः”, “मा भवात् प्र-इदिधत्” इत्य्तर एजादिपरत्वाभावान्न वृद्धिः, किन्तु आद्गुणः (6.1.87) इत्यनेन गुणे रूपम् — “उपेतः” इति, “प्रेदिधत्” इति च । अक्षौहिणीति अत्र “अक्ष-ऊहिनी” इति दशायाम् आद्गुणः (6.1.87) इत्यनेन गुणे प्राप्ते <!अक्षादूहिन्यामुपसङ्ख्यानम्!> ‘अक्षशब्दादूहिनीशब्दे परे वृद्धिः स्यात्’ इत्यर्थकवार्त्तिकेन वृद्धौ “अक्षौहिणी” इति । प्रादूहोढेति । प्रशब्दात् उह-ऊह-ऊढि-एष-एष्यशब्दे परे पूर्वपरयोः स्थाने वृद्धिरूपैकादेशो भवति । तथाहि “प्र-ऊहः”, “प्र-ऊढः”, “प्र-ऊढिः” इत्यत्र पूर्वपरयोः स्थाने आन्तरतमो वृद्धिसंज्ञकः औकारो जातस्तेन “प्रौहः”, “प्रौढः”,”प्रौढिः” इति । “प्र-एषः”, “प्र-एष्यः” इत्यत्र वृद्धिसंज्ञक आन्तरतम्य ऐ आदेशः । तेन “प्रैषः”, “प्रैष्यः” इति रूपम् । अत्र पूर्वोक्तरूपत्रये आद्गुणः (6.1.87) इत्यस्य, “प्र-एषः”, “प्र-एष्यः” इत्यत्र च एङि पररूपम् (6.1.94) इत्यस्य प्राप्तिरासीत्, तस्य बाधनाय <!प्रादूहोढ..!> इति वार्त्तिकमिति भावः । ऋते चेति । तृतीयासमासघटकावर्णात् ऋतशब्दे परे पूर्वपरयोः स्थाने वृद्धिरित्यर्थः । “सुख-ऋतः” इति स्थिते अत्रावर्णात् (“सुख”इत्यत्र खकारोत्तवर्ति-अवर्णात्) ऋतशब्दे परे पूर्वपरयोः “अ-ऋ” इत्यत्र वृद्धिसंज्ञक आकारे उरण् रपरः (1.1.51) इत्यनेन रपरे सति प्रवृत्ते “सुखार्तः” इति सिद्धम् । परमर्त इति । ** “परम-ऋतः” इति स्थितेऽत्र तृतीयासमासाभावात् न वृद्धिः किन्तु **आद्गुणः (6.1.87) इति गुणे परे रपरे च रूपम् । प्रवत्सतरेति । प्र-वत्सतर-कम्बल-वसन-ऋण-दशन्-शब्दघटकाकारात् ऋणशब्दे परे पूर्वपरयोः स्थाने वृद्धिरूपैकादेशो भवतीत्यर्थः । “प्र-ऋणम्”, “वत्सतर-ऋणम्”, “कम्बल-ऋणम्”, “वसन-ऋणम्”, “ऋण-ऋणम्” इति स्थिते पूर्वपरयोः स्थाने आकाररूपवृद्धौ रपरे च “प्रार्णम्”,”वत्सतरार्णम्”,”कम्बलार्णम्”,”वसनार्थणम्”, “ऋणार्णम्” इति भवतीत्यर्थः ॥

Vartika

अक्षादूहिन्यामुपसंख्यानम् ।

Sutra Prayogas

  • प्रैष्यभावे (कुमारसम्भवम्): प्रादूहोढोढ्येषैष्येषु वृद्धिर्वक्तव्या (वार्तिकम्) इति वृद्धिः।

  • निर्धौते (शिशुपालवधम्): एत्येधत्यूसु इति वृद्धिरौकारः।

  • समैष्यथेत्यस्मि (भट्टिकाव्यम्): एत्येधत्यूसु इति वृद्धिः।

  • **** (भट्टिकाव्यम्): एत्येधत्यूट्सु इति वृद्धिः ।

  • रैति (भट्टिकाव्यम्): एत्येधत्यूठसु इति वृद्धिः।

  • अभ्युपैति (भट्टिकाव्यम्): एत्येधत्यूसु इति वृद्धिः ।