61083: भय्यप्रवय्ये च च्छन्दसि¶
Padacheda: भय्य-प्रवय्ये | S | 1 | 2 |
च | S | 0 | 0 |
छन्दसि | S | 7 | 1 |
Sutrartha¶
वेदेषु - ‘भय्य’ तथा ‘प्रवय्या’ एतौ शब्दौ निपात्येते ।
यदा “भी (भये)” तथा च “वी (प्रजनादिषु)” एताभ्याम् धातुभ्याम् यत्-प्रत्ययः भवति, यदा वेदेषु अयादेशं निपात्य रूपं प्रयुक्तं दृश्यते । तद्यथा — 1) बिभेति अस्मात् (the one from which someone is afraid) अस्मिन् अर्थे भी-धातोः यत्-प्रत्यये कृते ‘भय्य’ इति शब्दः सिद्ध्यति । प्रक्रिया इयम् —
बिभेति अस्मात् [कृद्वृत्तिः]
→ ञिभी (भये, जुहोत्यादिः (3.2))
→ भी [**आदिर्ञिटुडवः** (1.3.5),**तस्य लोपः** [1.3.9]]]
→ भी + यत् [**कृत्यल्युटो बहुलम्** (3.3.113) इति अपादाने यत्-प्रत्ययः]
→ भे + य [**सार्वधातुकार्धधातुकयोः** (7.3.84) इति गुणः]
→ भय् + य [प्रकृतसूत्रेण अयादेशः निपात्यते ]
→ भय्य
प्रवीयते इति (the one that is being impregnated) अस्मिन् अर्थे प्र-उपसर्गपूर्वात् वी-धातोः यत्-प्रत्यये कृते ‘प्रवय्या’ इति शब्दः सिद्ध्यति । प्रक्रिया इयम् —
प्र + वी (गतिव्याप्तिप्रजनकान्त्यसनखादनेषु, अदादिः (2.43))
→ प्र + वी + यत् + आ [**अचो यत्** (3.1.97) इति यत्-प्रत्ययः । स्त्रीत्वं द्योतयितम् **अजाद्यतष्टाप्** (4.1.4) इति टाप्-प्रत्ययः]
→ प्र + वे + य + आ [**सार्वधातुकार्धधातुकयोः** (7.3.84) इति गुणः]
→ प्र + वय् + य + आ [प्रकृतसूत्रेण अयादेशः निपात्यते ]
→ प्रवय्या [**अकः सवर्णे दीर्घः** (6.1.101) इति सवर्णदीर्घादेशः]
<note>इदं सूत्रं वैदिकशब्दानाम् सिद्ध्यर्थम् एव प्रयुज्यते । लोके तु ‘भेय’ तथा ‘प्रवेया’ इत्येव रूपे भवतः ।</note>
वार्त्तिकम् - <!हृदय्या आपः उपसङ्ख्यानम्!>
‘हृद’ शब्दात् तद्धितसंज्ञके यत्-प्रत्यये परे अकारस्य ‘अय्’ आदेशः निपात्यते, येन ‘हृदय्य’ इति शब्दः सिद्ध्यति — इति अस्य वार्त्तिकस्य आशयः । प्रक्रिया इयम् —
हृदे भवः [तद्धितवृत्तिः]
हृद + यत् + टाप् [**तत्र भवः** (4.3.53) इत्यस्मिन् अर्थे **शरीरावयवाच्च** (4.3.55) इत्यनेन यत्-प्रत्ययः । स्त्रीत्वं द्योतयितम् **अजाद्यतष्टाप्** (4.1.4) इति टाप्-प्रत्ययः]
हृद् अय् + य + आ [अकारस्य अयादेशः निपात्यते]
→ हृदय्या [**अकः सवर्णे दीर्घः** (6.1.101) इति सवर्णदीर्घादेशः]
अस्य शब्दस्य प्रयोगः ‘हृदय्याः आपः’ अनेन प्रकारेण कृतः दृश्यते । अस्य प्रयोगस्य सिद्ध्यर्थम् एव इदं वार्त्तिकम् निर्मितम् अस्ति ।
Sutrartha (English)¶
In the context of Vedas, the words भय्य (the one from which somebody is afraid) and the word प्रवय्या (= a female being impregnated) are seen used (and should thus be considered derived).
Vasu English Summary¶
The forms भय्य and प्रवय्य are found in the छन्दस
Vasu English Translation¶
The forms भय्य and प्रवय्य are found in the छन्दस The word भय्य is derived from भी + यत्, and प्रवय्या from प्र + वी + यत् ॥ The guna ए is changed to अय् ॥ Thus भय्यं किलासीत् ॥ वत्सतरी प्रवय्या ॥ The यत् is added to भी with the force of Ablative by virtue of the diversity allowed by कृत्यलुटो बहुलं (3.3.113) ॥ Thus बिभेति अस्माद् = भय्यम् “frightening or fearable”. The word प्रवय्या is always used in the feminine: in other places प्रवेय is the proper form. Why do we say ‘in the Vedas’? Observe भेयम्, प्रवेयम् in secular literature.
Vart:- The word हृदय्या should also be enumerated when referring to water. As हृदे भवा = हृदय्या आपः ॥ The affix यत् is added by (4.4.110) (हृदे + य = हृदय् + य) ॥
Bhashya¶
भय्यप्रवय्ये च च्छन्दसि (2520) (6112 उपसंख्यानवार्तिकम् ॥ 1 ॥) - भय्यादिप्रकरणे हृदय्या उपसंख्यानम् - भय्यादिप्रकरणे हृदय्या उपसंख्यानं कर्तव्यम् । हृदय्या आपः ॥ (6113 उपसंख्यानवार्तिकम् ॥ 2 ॥) - अव् शरस्य च - अवादेशो भवतीति वक्तव्यम् । शरस्य च हृदस्य चातोऽव्वक्तव्यः । हृदव्या आपः । शरव्या वै तेजनम् । शरव्यस्य पशूनभिघातकः स्यात् ॥ (6114 शरब्यशब्दस्यान्यथासिद्धिकथनवार्तिकम् ॥ 3 ॥) - शरुवृत्ताद्वा सिद्धम् - शरुवृत्ताद्वा पुनः सिद्धमेतत् ॥ (6115 वार्तिकम् ॥ 4 ॥) - ऋञ्जती शरुः इत्यपि दृश्यते - ऋञ्जती शरुरित्यपि शरुशब्दप्रवृत्तिर्दृश्यते ॥ (6116 वार्तिकम् ॥ 5 ॥) - शरुहस्त इति च लोके - शरुहस्त इति च लोके शरहस्तमुपाचरन्ति ॥
Kashika¶
बिभेतेर्धातोः प्रपूर्वस्य च वी इत्येतस्य यति प्रत्यये परतश्छन्दसि विषयेऽयादेशो निपात्यते। भय्यं किलासीत् (द्र० — काठ० सं० ३३.४)। वत्सतरी प्रवय्या। भय्येति कृत्यल्युटो बहुलम् (३.३.११३) इत्यपादाने यत् प्रत्ययः। बिभेत्यस्मादिति भय्यम्। प्रवय्या इति स्त्रियामेव निपातनम्। अन्यत्र प्रवेयमित्येव भवति। छन्दसीति किम् ? भेयम्। प्रवेयम्॥ ह्रदय्या आप उपसंख्यानम्॥ ह्रदय्या आपः। ह्रदे भवाः,**भवे छन्दसि** (४.४.११०) यत् प्रत्ययः॥
Siddhanta Kaumudi¶
बिभेत्यस्मादिति भय्यः । वेतेः प्रवय्या इति स्त्रियामेव निपातनम् । प्रवेयमित्यन्यत्र । छन्दसि किम् । भेयम् । प्रवेयम् ।<!हृदय्या उपसंख्यानम् !> (वार्तिकम्) ॥ हृदे भवा हृदय्या आपः । भवे छन्दसि यत् ॥
Padamanjari¶
वीत्येतस्येति।’वी गत्यादिषु’ , ठजेर्व्यघञपोःऽ इति वा। हृदय्या इति। आकारस्यायादेशः ॥ एकः पूर्वपरयोः ॥ वक्ष्यमाणप्रकरणे पौर्वापर्येणावस्थितौ निर्दिश्येते -आदचि, आदेचीत्यादि, तयोः पूर्वपरयोः स्थाने वक्षयमाणो गुणादिरेकादेशो भवतीति सूत्रार्थः । अथ पूर्वपरयोरिति किमर्थम्? स्थानिनिर्द्देशार्थम्, असति हि तस्मिन् ठाद्गुणःऽ इत्यादौ स्थानिनिर्द्देशाभावात् कक्य गुणादिरादेशः स्यात्। नैतदस्ति प्रयोजनम्, अदित्यादिका पञ्चमी अचीत्यादिकायाः सप्तम्याः षष्ठआआ प्रकल्पयिष्यति, सा च तस्यास्तेन तयोरेव पूर्वपरयोर्गुणो भविष्यतीति नार्थ एतेन ? तदाह -पूर्वपरग्रहणमित्यादि। द्वयोरादेशप्रतिपत्यर्थमिति। युगपदादेशप्रतिपत्यर्थमित्यर्थः॥ असति तु तस्मिन्कस्य स्यात्? इत्यत नोभे सप्तमीपञ्चम्याविकि। नोभे प्रकल्पिके भवतः, युगपन्न प्रकल्पिके भवत इत्यर्थः। इतिकरणो हेतौ। तत्र ठाद्गुणःऽ इत्यत्राचीत्येषा सप्तमी यणादिविधौ चरितार्था; आदित्येषा तु पञ्चमी न क्वचिच्चरितार्था, ततश्च सैव सप्तम्याः षष्ठआआ प्रकल्पयिष्यति इत्यच एव स्थाने गुणः स्याद्।’वृद्धिरेचि’ इत्यत्र तु गुणविधौ पञ्चमी कृतार्थेति तस्याः ठेचिऽ इति सप्तम्यकृतार्था षष्ठआआ प्रकल्पयेदित्यवर्णस्यैव वृद्धिः स्यात्। ठुपसर्गादृति धातौऽ इत्यादौ द्वयोरप्यकृतार्थत्वेऽपि पर्यायेण परस्परषष्ठीप्रकलृप्तिः स्यात्, न युगपत्कार्यित्वं निमितत्वं च; द्वयोर्युगपद्विरोधात्, ततश्च कार्यमपि पर्यायेण स्यात्। तस्मात्पूर्वपरयोरिति वक्तव्यम् ? न वक्तव्यम्; एकग्रहणसामर्थ्याद्। ठन्तादिवच्चऽ इति वचनाच्च पूर्वपरयोर्द्वयोरेवादेशो भवष्यति, नान्यतरस्य ? सत्यम्; सुखप्रतिपत्यर्थं तु पूर्वपरयोरित्युक्तम्; अन्यथा युगपत् षष्ठीप्रकल्पनद्वारेण विवक्षितप्रतिपतौ प्रतिपतिगौरवं स्यात् । अथ किमर्थमेकग्रहणम्, प्रथमनिर्दिष्टमतिक्रम्य चरमनिर्दिष्टस्य’पूर्वपरयोः’ इत्यस्य प्राक् प्रयोजनमुक्तम्; पाठक्रमादर्थकमस्य बलीयस्त्वात्। कथम् ? सतः कार्यिणः कार्येण भवितव्यम्, कार्यस्य च गुणादेर्विशेषणमेकग्रंहणम्। ननु च ठाद्गुणःऽ इत्यादावेकस्यैवादेशस्य सूत्रे उपादानम्, संख्याया विवक्षितत्वादुपातसंख्यात्यागे कारणाभावात्, ततश्चैक एव गुणादिरादेशो भविष्यति। स्यादेतत् -आदेशस्य विधेयतया प्राधान्यात् प्रधाने च ग्रहं सम्मार्ष्टीत्यादौ संख्याया अविवक्षितत्वादनेकादेशप्रसङ्ग इति ? तदसतः ग्रहं शेषितयोद्दिश्च सम्मार्गो हि विधीयते, शास्त्रान्तरे च विहितं शेषेत्वमुपगच्छति, शास्त्रान्तरो च विज्ञाता ग्रहाः संख्यान्तरान्विताः, तत्रैकत्वविवक्षायां वाक्यभेदः प्रसज्येतेति कृत्वा ग्रहैकत्वमविवक्षितमुच्यते। नैवं गुणादिरादेश इत्येकत्वं विवक्षितम्;’प्राजापत्या नव ग्रहाः’ इति शास्त्रान्तरविहितनवग्रहोद्देशेन संस्कारः सम्मार्गो विधीयते, तत्र श्रुतमप्येकत्वं नोद्देश्यकोटौ निवेशयितुं शक्यते; तत्र संख्यान्तरान्विततया विहितत्वात्। ततश्च तद्विवक्षायां तदपि विधेयं स्यात्, ततश्च वाक्यभेदप्रसङ्गः। वचनव्यक्तिभेदाद्यो ग्रहस्तं सम्माष्टि, तं चैकमिति। इह तु विधेयतया गुणादेः प्राधान्येऽपि विशिष्टविधिसम्भवाद् न वाक्यबेदप्रसङ्गः, अविवक्षाकारणाभावाद्वियक्षितमेकत्वं लोकवत्, तद्यथा -लोकेऽनयोर्मृत्पिण्कडयोर्घट्ंअ कुर्विति, न चोच्यते एकमिति एकमेव चासौ करोति। न चार्थप्रकरणादिना तत्रैकस्य करणम्, तदभावेऽपि दर्शनातस्मान्नार्थ एकग्रहणेन? तत्राह -एकग्रहं पृथगादेशनिवृत्यर्थमिति। यथा पुनः पृथगादेशप्रसङ्गस्तथा दर्शयति -स्थानिभेदादिति।’पूर्वपरयोः’ इति निर्द्देशात्स्थानिभेदः प्रतीयते, ततश्च तद्वशादादेशेऽपि श्रुतमप्येकत्वमविवक्षितं स्यादित्यनेकादेशप्रसङ्ग इत्यर्थः। अवश्यं चैतदेवमभ्युपगन्तव्यमिति दृष्टान्तेन दर्शयति। भिन्नादिषु नत्ववदिति। यथा रदाभ्यां निष्ठातो नः पूर्वस्य च दःऽ इति नत्वमेकत्वाविवक्षया प्रतिस्थानि भवति, तद्वदत्रापीत्यर्थः। भाष्ये त्वेकग्रहणं प्रत्याख्यात्म्। न तावद् गुणभूतस्थान्यनुरोधेन प्रधानस्यादेशस्य भेदकल्पना युक्ता, प्रधानानुरोधी ही गुणो भवति,न पुनर्गुणानुरोधी प्रदानम्। यच्चोक्तम् -भिन्नादिषु नन्ववदिति, तत्र न खलु नत्वविधावेकत्वस्याविवक्षिततया द्वौ नकारौ भवतः, किं तर्हि? पूर्वस्य चेति चकाराद्वाक्यभेदोऽवगम्यते। तत्र पूर्वेण निष्ठातो नत्वम्, परेण धातुदकारस्य, इह च ठुभौसाभ्यासस्यऽ इति प्राणिणिषतीत्युपसर्गादनन्तरस्य नकारस्य ठनितेःऽ इत्येव णात्वे सिद्धे साभ्यासस्येतेयेतावतैव द्वयोर्नकारयोर्मत्वं सिद्धमिति स्थानिनिर्द्देशार्थमुभौग्रहणं न कर्तव्यम् -उभौ नकारौ णत्वमापद्यते इति। तस्मादादेशार्थमुभौग्रहणं विज्ञायते -साब्यासस्यानितेर्थौ नकारौ द्वौ तयोरुभौ णौ भवत इति। तेनात्रापि नैकत्वस्याविवक्षितत्वाद् द्वयोद्वाê भवतः, किन्तूभौग्रहणादिति न कश्चिद्दोषः। इह श्रुतिस्मृतिविहितं कर्म किञ्चित्सकृदनुष्ठीयते, यथा -उपनयनम्, आधानम्, आचमनमिति; न ह्युपनीतः पुनरुपनीयते, नाप्यग्न्याहितः पुनरग्नीनाधते, नाप्याचान्तः पुनराचामति। असति निमिते, किञ्चिदसकृद्यथा -ज्योतिष्टो मादयः। यथा -ठ्पूर्ववया ब्राह्मणः प्रत्युत्थेयःऽ इति यो यो वृद्धवयास्तस्य तस्यागमनं प्रत्युत्थीयते।’ब्राह्मणो न हन्तव्यः’ ,’सुरा न पेया’ इति प्रतिव्यक्तिविषेधोऽनुष्ठीयते, न पुनरेकं ब्राह्मणमहत्वैकां च सुरामपीत्वान्यत्र कामचारः। व्याकरणं च स्मृतिः, तदिह ठाद्गुणःऽ इत्यनया स्मृत्या’गुणः कर्तव्यः’ इति चोदिते यदि सकृदनुष्ठानं खट्वेन्द्र इत्येकस्यां व्यक्तौ गुणे कृते कृतः शास्त्रार्थ इति कृत्वा मालेन्द्र इत्यादिषु न क्रियेत, तस्मात्प्रत्युत्थानादिवदावर्तते। किं पुनरत्र निभन्धनम् -किञ्चित्सकृत्क्रियते, किञ्चित्पुनः पुनरिति? उपनयनं तावन्माणवकस्य संस्कारः, सकृच्चासौ संस्कृतोऽध्ययनादिषु योग्यो भवति, आधानमप्यग्निसंस्कारार्थम्, सम्पन्नेष्वग्निषु प्रयोजनाबावात्पुनर्न क्रियते, आचमनमपि शौचार्थमित्य सति निमिते पुनर्न क्रियते। ज्योतिष्टोमादयस्तु नित्याश्चेत्प्रत्यवायपरिहाराय वसन्ते क्रियन्ते; अथ काम्याः ठमुष्मिन् लोक एनमप्सरसो जाया भूत्वोपशेरते इति ततस्तमभ्युदयम्ऽ, भूयोभूयः परीप्सुभिः पुनः पुनरनुष्ठीयन्ते। पूर्ववयोब्राह्मणप्रत्युत्थानाकरणे दोषः, करणे चाब्युदयो दर्शितः - ठूर्ध्व प्राणा ह्युत्कामन्ति यूनः स्थाविर आयति। प्रत्युत्थानाभिवादाभ्यां पुनस्तान् प्रतिपद्यतेऽ॥ इति। तच्च प्रत्यागमनमविशिष्टम्, अतो दोषनिर्हाणाथ पुनः पुनरनुष्ठीयन्ते। नैमितिकत्वाद्वा प्रतिनिमितमावृत्तिः। तथा ब्राह्मणवधे च सुरापाने च दो, उक्तः। स ब्राह्मणमात्रे सुरामात्रे च भवति, ततो दोषवन्तो मा भूमेति सर्वत्रैवानुष्ठीयते। इह शब्दस्य ज्ञाने प्रयोगे चाभ्युदयो दशितः -ठेकः शब्द सम्यग् ज्ञातः सुप्रयुक्तः स्वर्गे लोके कामधुग् भवतिऽ इति। प्रत्यवायश्च याज्ञे कर्मण्यपशब्दुप्रयोगे दर्शितः -ठ्तेऽसुरा हेलयःऽ इति, ठाहिताग्निरपशब्दं प्रयुज्यऽ इति च। अत एव तदपि गुणादिक पुनःपुनरनुष्ठीयते। तदेवं नित्यत्वं नैमितिकत्वं काम्यत्वं भूयोबूयोऽनुष्ठाननिबन्धनम्। एतच्च सर्वशास्त्रसाधारणमपि वातिककारेण प्रोक्तं भाष्यकारेणोपपादितमित्यस्माभिरप्यत्रैव प्रत्यपादि ॥
Nyaas¶
वी इत्येतस्य इति। गतिप्रजनादिषु यो वी पठते तस्य, अजेव्र्यघञपोः (2.4.56) इत्यजेर्यो वी आदेशस्तस्य वा। ह्यदय्या आप उपसंख्यानम् इति। उपसंख्यानशब्दस्य प्रतिपादनमर्थः। ह्यदय्या हत्यस्य प्रतिपादनं कर्तव्यमित्यर्थः। तत्रेदं प्रतिपादनम् -चकारोऽत्र क्रियते, स चानुक्तसमुच्चयार्थः, तेन ह्यदय्या इत्यपि भविष्यतीति॥
Prakriyasarvasvam¶
भय्य इति भियः । ‘कृत्यल्युटो बहुलम्’ (३-२-११३) इत्यपादाने यति अयादेशः । प्रवय्येति गत्याद्यर्थात् वियः कर्मण्यचो यति अयादेशः स्त्रियामेव निपात्यते ।<!हृदय्या अप्सूपसंख्यानम्!> (वा. ६-१-८३) । भवेच्छन्दसि (४-४-११०) इति यति अयादेशोऽयम् । हृदय्या आपः । अस्थिवत्यन्तम् । नमो हृदय्याय च ।<!एमन्नादिषु छन्दसि पररूपं वक्तव्यम्!> (वा. ६-१-९४) । अपां त्वा एमन् अपां त्वे मन । अवां (त्वोमन्? त्वोद्मन्६)
Vartika¶
हृदय्या उपसंख्यानम् ।