61084: एकः पूर्वपरयोः¶
Padacheda: एकः | S | 1 | 1 |
पूर्वपरयोः | S | 6 | 2 |
Sutrartha¶
इतः आरभ्य **ऋतः उत् (6.1.111) इति यावत् यः कोऽपि आदेशः उच्यते सः पूर्वपरयोः उभयोः स्थाने एकादेशः भवति ।**
इदम् अधिकारसूत्रम् । अस्य सूत्रस्य अधिकारः ऋतः उत् (6.1.111) इति सूत्रम् यावत् प्रचलति । अस्मिन् अधिकारे उक्ताः आदेशाः पूर्वपरयोः स्थाने एकत्ररूपेण (इत्युक्ते, एकादेशरूपेण) भवन्ति इति अनेन अधिकारेण उच्यते । पूर्ववर्णस्य तथा परवर्णस्य उभयोः स्थाने मिलित्वा एकः एव आदेशः विधीयते (Two entities get replaced by one entity) इति अस्य अर्थः । यथा, अस्मिन् अधिकारे पाठितेन आद्गुणः (6.1.87) इति सूत्रेण अकार-इकारस्यः स्थाने एकत्ररूपेण एकारादेशः भवति । <note>**रदाभ्यां निष्ठातो नः पूर्वस्य च दः** (8.2.42) इत्यनेन सूत्रेण रेफदकारयोः स्थाने पृथग्-पृथग्-रूपेण समानः एव (नकारादेशः) भवति । तादृशम् अत्र न इष्यते, अपि तु अत्र पूर्वपरयोः स्थाने मिलित्वा एकः एव आदेशः इष्यते । एतत् स्पष्टीकर्तुम् एव अस्मिन् सूत्रे “एक”-शब्दस्य ग्रहणं कृतम् अस्ति ।</note> अयम् अधिकारः संहितायाम् (6.1.72) इत्यस्मिन् अधिकारे एव वर्तते, अतः अस्मिन् अधिकारे उक्तानि सर्वाणि अपि कार्याणि संहितायाः विषये एव भवन्ति ।
Sutrartha (English)¶
This is an अधिकार that runs till ऋतः उत् (6.1.111). Any आदेश told in this अधिकार should be understood as combined आदेश done on the participating entities.
Vasu English Summary¶
From here up to (6.1.111) inclusive is always to be supplied the phrase ‘for the preceding and the following is substituted’.
Vasu English Translation¶
From here up to (6.1.111) inclusive is always to be supplied the phrase ‘for the preceding and the following is substituted’. This is an adhikara sutra. In every sutra upto (6.1.112) (excluding the last), whatever we shall teach, there in the room of the two, namely, the preceding and the succeeding, it should be understood, that the substitution is one. These form the well known rules of ekadesa, one letter or form replacing two consecutive letters &c. Thus (6.1.87) teaches ‘There is guna substitution, when अ or आ is followed by a vowel’. We must supply into that sutra the phrase एकः पूर्वपरयोः i. e. one guna is the substitute for the final अ or आ and the initial vowel. Thus खट्वा + इन्द्रः = खट्वेन्द्रः ॥ Here ए is the single substitute of the both preceding Ietter आ and the succeeding letter इ ॥ The words पूर्व पर show that the substitute operates simultaneously on both. Otherwise the substitute would have come in the place of one only or of each one separately. Thus in आद् गुणः (अचि) = “after अ or आ, there is guna, in a vowel”. Here आत् is in this ablative, and by (1.1.67) the guna operation would have taken place on the letter following it: so also अचि is in the Locative and by (1.1.66), the guna operation would have taken place on the preceding; so it is not clear of what letter there should be guna substitution, of the preceding or the succeeding. But the present rule shows it must operate on both simultaneously. The word एक ‘single’, shows that a separate or a different substitute does not operate: i. e. the substitute must be one, there should not be two separate substitutes one for each sthani, such as we find in the sutra (8.2.42) (रदाभ्यां निष्ठातो नः, पूर्वस्य च दः “न is the substitute of the त of nishtha, after र् and द, and of the preceding द”). Here न् is taught as substitute both of त् and द्, and as एक is not used in the sutra, we get two न, as भिद् + त = भिन् + न = भिन्नः ॥ But this is not the case here. According to Mahabhashya the word एक is redundant.
Bhashya¶
एकः पूर्वपरयोः (2521) (एकादेशाधिकरणम्) (वार्तिकावतरणभाष्यम्) एकवचनं किमर्थम् ? (6117 पदकृत्यवार्तिकम् ॥ 1 ॥) - एकवचनं पृथगादेशप्रतिषेधार्थम् - एकवचनं क्रियते, एक आदेशो यथा स्यात्, पृथगादेशो मा भूदिति ॥ (6118 एकपदानुपयोगप्रकथनवार्तिकम् ॥ 2 ॥) - न वा द्रव्यवत्कर्मचोदनायां द्वयोरेकस्याभिनिर्वृत्तेः - न वा एतत्प्रयोजनम् । किं कारणम् ? द्रव्यवत्कर्मचोदनायां द्वयोरेकस्याभिनिर्वृत्तेरेक आदेशो भविष्यति । तद्यथा - द्रव्येषु कर्मचोदनायां द्वयोरेकस्याभिनिर्वृत्तिर्भवति । अनयोः पूलयोः कटं कुरु, अनयोर्मृत्पिण्डयोर्घटं कुरु - इति । न चोच्यते एकमिति, एकं चासौ करोति ॥ किं पुनः कारणं द्रव्येषु कर्मचोदनायां द्वयोरेकस्याभिनिर्वृत्तिर्भवति ? (6119 एकपदानुपयोगसमर्थकवार्तिकम् ॥ 3 ॥) - तच्चैकवाक्यभावात् - एकवाक्यभावाद्द्रव्येषु कर्मचोदनायां द्वयोरेकस्याभिनिर्वृत्तिर्भवति । आतश्चैकवाक्यभावाद्व्याकरणेऽपि ह्यन्यत्र द्वयोः स्थानिनोरेक आदेशो भवति - ज्वरत्वरस्रिव्यविमवामुपधायाश्च (6.4.20) भ्रस्जोरोपधयोरमन्यतरस्याम् (6.4.47) इति ॥ (लौकिकदृष्टान्तेनाक्षेपभाष्यम्) यत्तावदुच्यते - एकवाक्यभावान् - इति । तन्न । अर्थात् प्रकरणाद्वा लोके द्वयोरेकस्याभिनिर्वृत्तिर्भवति । अर्थो वाऽस्यैकेन भवति, प्रकृतं वा तत्र भवति - इदमेकमेव कर्तव्यमिति । आतश्चार्थाद्वा प्रकरणाद्वा व्याकरणेऽपि ह्यन्यत्र द्वयोः स्थानिनोर्द्वावादेशौ भवतः - रदाभ्यां निष्ठातो नः पूर्वस्य च दः (8.2.42) उभौ साभ्यासस्य (8.2.21) इति ॥ कथं यत्तदुक्तं - व्याकरणेऽपि हि अन्यत्र द्वयोः स्थानिनोरेक आदेशो भवति - ज्वरत्वरस्रिव्यविमवामुपधायाश्च भ्रस्जो रोपधयोरमन्यतरस्याम् इति ? इह तावत् - ज्वरत्वरस्रिव्यविमवामुपधायश्चेति, स्तां द्वावूठौ नास्ति दोषः, सवर्णदीर्घत्वेन सिद्धम् । इह - भ्रस्जो रोपधयोरमन्यतरस्याम् इति, वक्ष्यति ह्येतत् - भ्रस्जो रोपधयोर्लोप आगमो रम्विधीयत इति ॥ (समाधानभाष्यम्) यदुच्यते - अर्थात् प्रकरणाद्वेति, तन्न । किं कारणम् ? एकवाक्यभावादेव लोके द्वयोरेकस्याभिनिर्वृत्तिर्भवति । आतश्चैकवाक्यभावात् । अङ्ग हि भवान् ग्राम्यं पांसुरपादमप्रकरणज्ञमागतं ब्रवीतु - अनयोः पूलयोः कटं कुरु, अनयोर्मृत्पिण्डयोर्घटं कुरु - इति । एकमेवासौ करिष्यति ॥ कथं यदुक्तं - व्याकरणेऽपि ह्यन्यत्र द्वयोः स्थानिनोर्द्वावादेशौ भवतः - रदाभ्यां निष्ठातो नः पूर्वस्य च दः उभौ साभ्यासस्य इति ? इह तावत् - रदाभ्यां निष्ठातो नः, पूर्वस्य च दः - इति द्वे वाक्ये । कथम् ? योगविभागः करिष्यते - रदाभ्यां निष्ठातो नः ततः पूर्वस्य च दः इति । इहापि - उभौ साभ्यासस्य इति, उभौग्रहणसार्मथ्याद् द्वावादेशौ भविष्यतः ॥ (6120 लौकिकदृष्टान्तेनाक्षेपवार्तिकम् ॥ 4 ॥) - तत्रावयवे शास्त्रार्थसम्प्रत्ययो यथा लोके - तत्रावयवे शास्त्रार्थसम्प्रत्ययः प्राप्नोति, यथा लोके । तद्यथा लोके - वसन्ते ब्राह्मणोऽग्नीनादधीत इति सकृदाधाय कृतः शास्त्रार्थ इति कृत्वा पुनः प्रवृत्तिर्न भवति । गर्भाष्टमे ब्राह्मण उपनेयः इति सकृदुपनीय कृतः शास्त्रार्थ इति कृत्वा पुनः प्रवृत्तिर्न भवति । तथा त्रिर्हृदयङ्गमाभिरदि्भरशब्दाभिरुपस्पृशेत् इति सकृदुपस्पृश्य कृतः शास्त्रार्थ इति कृत्वा पुनः प्रवृत्तिर्न भवति । एवमिहापि खट्वेन्द्रे कृतः शास्त्रार्थ इति कृत्वा मालेन्द्रादिषु न स्यात् ॥ (6121 लौकिकदृष्टान्तेन समाधानवार्तिकम् ॥ 5 ॥) - सिद्धं तु धर्मोपदेशनेऽनवयवविज्ञानाद् यथा लौकिकवैदिकेषु - सिद्धमेतत् । कथम् ? धर्मोपदेशनमिदं शास्त्रम्, धर्मोपदेशने चास्मिञ्ञ्छास्त्रेऽनवयवेन शास्त्रार्थः संप्रतीयते, यथा लौकिकवैदिकेषु च कृतान्तेषु ॥ लोके तावत् - ब्राह्मणो न हन्तव्यः, सुरा न पेया - इति, ब्राह्मणमात्रं न हन्यते, सुरामात्रं च न पीयते । यदि चावयवेन शास्त्रार्थसंप्रत्ययः स्यात्, एकं च ब्राह्मणमहत्वैकां च सुरामपीत्वाऽन्यत्र कामचारः स्यात् । तथा - पूर्ववया ब्राह्मणः प्रत्युत्थेयः इति, पूर्ववयोमात्रं प्रत्युत्थीयते । यदि चावयवेन शास्त्रार्थसंप्रत्ययः स्यात्, एकं पूर्ववयसं प्रत्युत्थायान्यत्र कामचारः स्यात् ॥ तथा - वेदे खल्वपि वसन्ते ब्राह्मणोऽग्निष्टोमादिभिः क्रतूभिर्यजेतेति, अग्न्याधाननिमित्तं वसन्ते वसन्ते इज्यते । यदि चावयवेन शास्त्रार्थसंप्रत्ययः स्यात्, सकृदिष्ट्वा पुनरिज्यायां न प्रवर्तेत ॥ (द्विविधदृष्टान्तव्यवस्थापकभाष्यम्) उभयथेह लोके दृश्यते - अवयवेनापि शास्त्रार्थसंप्रत्ययः, अनवयवेनापि । कथं पुनरिदमुभयं लभ्यते ? लभ्यमित्याह । कथम् ? इह तावत् - वसन्ते ब्राह्मणोऽग्नीनादधीतेति, अग्न्याधानं यज्ञमुखप्रतिपत्त्यर्थम् । सकृदाधाय कृतः शास्त्रार्थःउप्रतिपन्नं यज्ञमुखमिति कृत्वा पुनः प्रवृर्तिर्न भवति । अतोऽत्रावयवेन शास्त्रार्थः संप्रतीयते । तथा - गर्भाष्टमे ब्राह्मण उपनेय इति, उपनयनं संस्कारार्थम् । सकृच्चासावुपनीतः संस्कृतो भवति । अतोऽत्राप्यवयवेन शास्त्रार्थः संप्रतीयते । तथा - त्रिर्हृदयङ्गमाभिरदि्भरशब्दाभिरुपस्पृशेदिति, उपस्पर्शनं शौचार्थम् । सकृच्चासावुपस्पृश्य शुचिर्भवति । अतोऽत्राप्यवयवेन शास्त्रार्थः संप्रतीयते ॥ इहेदानीम् - ब्राह्मणो न हन्तव्यः - सुरा न पेयेति, ब्राह्मणवधे सुरापाने च महान् दोष उक्तः । स ब्राह्मणवधमात्रे सुरापानमात्रे च प्रसक्तः । अतोऽत्रानवयवेन शास्त्रार्थः संप्रतीयते । तथा - पूर्ववया ब्राह्मणः प्रत्युत्थेय इति, पूर्ववयसोऽप्रत्युत्थाने दोष उक्तः, प्रत्युत्थाने च गुणः । कथम् ?ऊर्ध्वं प्राणा ह्युत्क्रामन्ति यूनः स्थविर आयति । प्रत्युत्थानाभिवादाभ्यां पुनस्तान् प्रतिपद्यते ॥ इति । स च पूर्ववयोमात्रे प्रसक्तः । अतोऽत्राप्यनवयवेन शास्त्रार्थः संप्रतीयते । तथा - वसन्ते ब्राह्मणोऽग्निष्टोमादिभिः क्रितुभिर्यजेतेति, इज्यायाः किंचित्प्रयोजनमुक्तम् । किम् ? स्वर्गे लोकेऽप्सरस एनं जाया भूत्वोपशेरते इति । तच्च द्वितीयस्याश्च तृतीयस्याश्चेज्यायाः फलं भवितुमर्हति । अतोऽत्राप्यनवयेन शास्त्रार्थः संप्रतीयते । तथा - शब्दस्यापि ज्ञाने प्रयोजनमुक्तम् । किम् ? एकः शब्दः सम्यग्ज्ञातः शास्त्रान्वितः सुप्रयुक्तः स्वर्गे लोके कामधुग्भवति - इति । यद्येकः शब्दः शास्त्रान्वितः सुप्रयुक्तः स्वर्गे लोके कामधुग्भवति, किमर्थं द्वितीयस्तृतीयश्च प्रयुज्यते ? न वै कामानां तृप्तिरस्ति ॥ (वार्तिकावतरणभाष्यम्) अथ पूर्वपरग्रहणं किमर्थम् ? (6122 पदकृत्यवार्तिकम् ॥ 6 ॥) - पूर्वपरग्रहणं परस्यादेशप्रतिषेधार्थम् - पूर्वपरग्रहणं क्रियते परस्यादेशप्रतिषेधार्थम् । परस्यादेशो मा भूत् - आद् गुणः (6.1.87) इति ॥ कथं च प्राप्नोति ? (6123 पदकृत्यसमर्थकवार्तिकम् ॥ 7 ॥) - पञ्चमीनिर्दिष्टाद्धि परस्य - पञ्चमीनिर्दिष्टाद्धि परस्य कार्यमुच्यते । तद्यथा - द्व्यन्तरुपसर्गेभ्योऽप इर्त् (6.3.97) इति ॥ (6124 पदकृत्यसमर्थकवार्तिकम् ॥ 8 ॥) - षष्ठीनिर्दिष्टार्थं तु - षष्ठीनिर्देशार्थं च पूर्वपरग्रहणं क्रियते । षष्ठीनिर्देशो यथा प्रकल्पेत ॥ (6125 पदकृत्यसमर्थकवार्तिकम् ॥ 9 ॥) - अनिर्दिष्टे हि षष्ठ्यर्थाप्रसिद्धिः - अक्रियमाणे हि पूर्वपरग्रहणे षष्ठ्यर्थस्याप्रसिद्धिः स्यात् । कस्य ? स्थानेयोगत्वस्य ॥ नैष दोषः । आदित्येषा पञ्चमी अचीति सप्तम्याः षष्ठीं प्रकल्पयिष्यति तस्मादित्युत्तरस्य (1.1.67) इति । तथा - अचीत्येषा सप्तमी आदिति पञ्चम्याः षष्ठीं प्रकल्पयिष्यति तस्मिन्निति निर्दिष्टे पूर्वस्य (1.1.68) इति ॥ एवं तर्हि सिद्धे सति यत्पूर्वपरग्रहणं करोति तज्ज्ञापयत्याचार्यः - नोभे युगपत्प्रकल्पिके भवत इति । किमेतस्य ज्ञापने प्रयोजनम् ? यदुक्तं - सप्तमीपञ्चम्योश्च भावादुभयत्र षष्ठीप्रकॢप्तिस्तत्रोभयकार्यप्रसङ्ग इति, स न दोषो भवति ॥ इति श्रीमद्भगवत्पतञ्जलिविरचिते व्याकरणमहाभाष्ये षष्ठाध्यायस्य प्रथमे पादे तृतीयमाह्निकम् ॥
Kashika¶
अधिकारोऽयम्। ख्यत्यात् परस्य (६.१.११२) इति प्रागेतस्मात् सूत्रादित उत्तरं यद् वक्ष्यामस्तत्र पूर्वस्य परस्य द्वयोरपि स्थान एकादेशो भवतीत्येतद् वेदितव्यम्। वक्ष्यति — आद् गुणः (६.१.८७) इति। तत्राचि पूर्वस्यावर्णात् च परस्य स्थान एको गुणो भवति। खट्वेन्द्रः। मालेन्द्रः। पूर्वपरग्रहणं द्वयोरपि युगपदादेशप्रतिपत्त्यर्थम्, एकस्यैव हि स्यात्, नोभे सप्तमीपञ्चम्यौ युगपत् प्रकल्पिके भवत इति। एकग्रहणं पृथगादेशनिवृत्त्यर्थम्, स्थानिभेदाद्धि भिन्नादिषु नत्ववद् द्वावादेशौ स्याताम्॥
Siddhanta Kaumudi¶
इत्यधिकृत्य ॥
Laghu Shabdendushekhar¶
एकः पूर्व । गुण इत्यादेर्विधेयसमर्पकत्वेन तत्रैकत्वसङ्ख्याया विवक्षणेनोभयोः पूर्वपरयोरेकवाक्यतयैव विधेयान्वयेन च “अनयोः पूलयोः कटं कुरु” इत्यादित इवोभयसम्बन्ध्येकविधेयस्यैव प्रतीतेरेकग्रहणं स्पष्टार्थम् ॥
Balamanorama¶
एकः पूर्वपरयोः - तर्हि कुतोऽत्र यणावलादेशौ न भवत इत्यत आह — न पदान्तेति सूत्रेण पदान्तविधौ तन्निषेधादिति । पदान्तभूतेकारौकारयोः स्थाने भवतोर्यणावादेशयोः पदचरमावयवतया तयो कर्तव्ययोः परनिमित्तकस्याऽजादेशस्या.ञल्लोपस्य स्थानिवत्त्वनिषेधादित्यर्थः । अथ एकादेशसन्धिं निरूपयितुमाह — एकः पूर्वपरयोः इत्यधिकृत्येति । पदद्वयात्मकमिदं सूत्रमुत्तरत्रानुवृत्त्यर्थं पठित्वा कतिपयसन्धयो विधास्यन्त इत्यर्थः ।
Nyaas¶
अथ पूर्वपरग्रहणं किमर्थम्, यावता आद्गुणः (6.1.87) इत्यादादादित्येषा पञ्चमी अचीत्यस्याः सप्तम्याः षष्ठीत्वं प्रकल्पयिष्यति; तस्मादित्युत्तरस्य (1.1.67) इति वचनात्। तथाचीत्येषा सप्तम्यादित्यस्याः पञ्चम्याः षष्ठीत्वं प्रकल्पयिष्यति; तस्मिन्निति निर्दिष्टे पूर्वस्य (1.1.66) इति वचनात्। तत्रान्तरेणापि पूर्वपरग्रहणं पूर्वपरयोद्र्वयोरपि भविष्यति? इत्याह -पूर्वपरग्रहणम् इत्यादि। किं पुनः कारणमसति पूर्वपरग्रहणे द्वयोरपि युगपदादेशो न सिध्यति? इत्यत आह -एकस्यैव हि इत्यादि। एवं मन्यते -अचत्येषा सप्तमी यणादेशादिविधौ चरितार्था; आदित्येषां तु पञ्चमी न क्वचिच्चरितार्था, अतः सा सप्तम्याः षष्ठीत्वं प्रकल्पयेत्। तत्रासति पूर्वपरग्रहणेऽच एव स्थाने गुणः स्यत्। वृद्धिरेचि (6.1.88) इत्यत्र च गणविधावादिति पञ्चमी कृतार्थे ति तस्या एचीति सप्तम्यकृतार्था षष्ठीत्वं प्रकल्पयेत्। एवं च वृद्धिरवर्णस्यैव प्रसज्येत। उपसर्गादृति धातौ (6.1.91) इत्यतर द्वयोरपि पञ्चमीसप्तम्योरकृतार्थत्वात्? पर्यायेण परस्परं षष्ठीपरकल्पनेति पर्यायेणैव वृद्धिः स्यात्। यत्? पुनः परस्याभिमतं पञ्चमी सप्तम्याः षष्ठीत्वं प्रकल्पयिष्यति, सप्तम्यपि पञ्चम्याः, ततोऽन्तरेणापि पर्वपरग्रहणं द्व्योरप्यादेशो भविष्यतीति? तन्निरासायाह -नोभे इत्यादि। निवृत्तिधर्मा हि स्थानी भवति, श्रूयमाणस्य च षष्ठीप्रकल्पनं प्रति निमित्तभावः। कथं पूर्वपरौ निवर्तेयाताम्? षष्ठीप्रकल्पनं च प्रति निमित्तभावमुपगच्छेतातम्? अत एवानिवृत्तेर्निमित्तभावस्य चासम्भवान्नोभे सप्तमीपञ्चम्यौ युगयत्प्रकल्पिके भवतः। तस्मादेकस्यैव स्यात्, नोभयोः। अथैकग्रहणं किमर्थम्, यावता भ्रस्जो रोपधयो रमन्यतरस्याम् (6.4.47) इत्यत्र विनाप्येकग्रहणमेक एव सम्भवति, तथाप्यत्रैकग्रहणेन विनाप्येक एव भवष्यतीत्याह -एकम् इत्यादि। रमागमेन हि मित्वात्? मिदचोन्त्यात्परः (1.1.47) इत्यचोऽन्त्यात्? परेण भवितव्यम्। न च द्वयो रमोर्भृज्जातवचोऽन्त्यात्? परेण सम्भवोऽस्ति। ततो युक्तं तद्विनाप्येकग्रहणम्। एक एव रम्? भवतीति गुणादिस्त्वादेशः। सम्भवति च स्थानिभेदे सत्येकैकस्य स्थानिनो गुणादिः पृथगादेशः तत्रासत्येकग्रहणे पृथगादेशः स्यात्। तस्मात्? पूर्वपरयोद्र्वयोः स्थानिनोः पृथगदेशो मा भूदित्येवमर्थमेकग्रहणम्। असति पुनरेकग्रहम आदेशश्च द्वयं प्राप्नोतीत्यमुमर्थं सोपपत्तिकं प्रतिपादयितुमाह -स्थानिभेदाद्धि इत्यादि। यता रदाभ्यां निष्ठातो नः पूर्वस्य च दः (8.2.42) इति स्थानिभेदाद्धेतोर्भिन्नं छिन्नमित्येवमादिषु द्वावेवादेशौ भवतः, तथा खट्वेन्द्र इत्येवमादिष्वपि द्वावादेशौ स्याताम्॥
Prakriyasarvasvam¶
इतः परं पूर्वपरयोः सहैक आदेश उच्यते ।