61082: क्रय्यस्तदर्थे¶
Padacheda: क्रय्यः | S | 1 | 1 |
तदर्थे | S | 7 | 1 |
Sutrartha¶
‘क्रय्य’ शब्दः ‘क्रेतुमुपलब्धम्’ अस्मिन् अर्थे निपात्यते ।
यदा “क्री (द्रव्यविनिमये)” अस्मात् धातोः ‘उपलब्धम्’ अस्मिन् अर्थे ‘यत्’ इति प्रत्ययः विधीयते, तदा प्रकृतसूत्रेण ‘क्रय्य’ इति शब्दः निपात्यते । 1) क्रेतुम् उपलब्धम् (available for purchased) तत् क्रय्यम् । यथा, क्रय्याणि फलानि । प्रक्रिया इयम् —
डुक्रीञ् (द्रव्यविनिमये, क्र्यादिः, (9.1))
→ क्री [**आदिर्ञिटुडवः** (1.3.5), **हलन्त्यम्** (1.3.3), **तस्य लोपः** [1.3.9]]]
→ क्री + यत् [**अचो यत्** (3.1.97) इति यत्-प्रत्ययः]
→ क्रे + य [**सार्वधातुकार्धधातुकयोः** (7.3.84) इति गुणः]
→ क्रय् य [**प्रकृतसूत्रेण एकारस्य अयादेशः निपात्यते** ।]
→ क्रय्य
क्रयः, क्रेयम्, क्रय्यम्
क्रय, क्रेय तथा क्रय्य - एते त्रयः भिन्नार्थकाः शब्दाः सन्ति —
क्री-धातोः एरच् (3.3.56) इत्यनेन भावे अच्-प्रत्यये कृते क्रय शब्दः सिद्ध्यति । क्रयणम् (act of purchasing) इति अर्थः । यथा — वस्तूनाम् क्रयः कृतः ।
क्री-धातोः ‘उपलब्धम्’ इत्यस्मिन् अचो यत् (3.1.97) इति यत्-प्रत्यये कृते प्रकृतसूत्रेण क्रय्य इति शब्दः निपात्यते । क्रेतुम् उपलब्धम् (available for purchase) इति अर्थः । यथा — फलानि क्रय्याणि ।
क्री-धातोः भावकर्मणोः अर्थयोः अचो यत् (3.1.97) इति यत्-प्रत्यये कृते क्षेय इति शब्दः सिद्ध्यति क्रेतुम् योग्यम् (appropriate for purchasing) इति अर्थः । यथा — वस्त्रम् क्रेयम् । दूषितानि फलानि यद्यपि क्रय्याणि, तथापि न क्रेयाणि ।
Sutrartha (English)¶
The words क्रय्य is considered to be derived, in the meaning of ‘the one that can be purchased’.
Vasu English Summary¶
In the क्रय्य there is substitution of अय् for ए when the sense is that of ‘exposed or put out for sale, saleable’.
Vasu English Translation¶
In the क्रय्य there is substitution of अय् for ए when the sense is that of ‘exposed or put out for sale, saleable’. The word क्रय्य is derive from क्री ‘to buy’, with the affix यत्; the guna ए being changed to य ॥ The word तदर्थ means ‘for the purpose of that’ i.e., for the purpose of being bought. As क्रय्या गौः, क्रय्यः कम्बलः ॥ Why do we say ‘when the sense is that of saleable’? Observe क्रेयं नो धान्यं न चास्ति क्रय्यम् “we want to purchase corn, but it is not put out for sale”.
Bhashya¶
क्रय्यस्तदर्थे (2519) (तत्पदार्थोपदर्शकभाष्यम्) तत् - इत्यनेन किं प्रतिनिर्दिश्यते ? स एव क्रीणात्यर्थः । इह मा भूत् - क्रेयं नो धान्यम्, न चास्ति क्रय्यमिति ॥
Kashika¶
क्रीणातेर्धातोस्तदर्थे क्रयार्थं यत् तस्मिन्नभिधेये यति प्रत्यये परतोऽयादेशो निपात्यते। क्रय्यो गौः। क्रय्यः कम्बलः। क्रयार्थं यः प्रसारितः, स उच्यते। तदर्थ इति किम् ? क्रेयं नो धान्यम्, न चास्ति क्रय्यम्॥
Siddhanta Kaumudi¶
तस्मै प्रकृत्यर्थायेदं तदर्थम् । क्रेतारः क्रीणीयुरिति बुद्ध्या आपणे प्रसारितं क्रय्यम् । क्रेयमन्यत् । क्रयणार्हमित्यर्थः ॥
Laghu Shabdendushekhar¶
तस्मै प्रेति । क्रयार्थे वस्तुनि क्रय्य इति निपात्यते इत्यर्थो, व्याख्यानात् । गुण भूतस्यापि तदा परामर्शः । क्रयार्थत्वञ्च फलोपधानरूपं तदर्थे इति विशेषणात्तदाह – क्रेतार इति । योग्यतामात्रग्रहणे त्वव्यावर्त्तकं तत्स्यादिति भावः । केचित्तु स्वीयं धान्यादि दत्त्वा यत्र तन्मूल्यग्रहणं तत्र धान्यं क्रय्यम् । यत्र तु स्वयं द्रव्यं दत्त्वा परकीयधान्यादिग्रहणं तत्र धान्यं क्रेयम्। द्रव्ये तु न क्रय्यत्वं नापि क्रेयत्वं, किं तु धान्यादेरेव, शक्तिस्वभावात् । भाष्यस्वरसोऽप्येवमेवेत्याहुः ॥
Balamanorama¶
क्रय्यस्तदर्थे - क्रय्यस्तदर्थे । इदमपि यान्तादेशनिपातनार्थम् । तदर्थशब्दं व्याचष्टे - तस्मा इति । क्रय्यशब्दे यः क्रीञ्धातुर्यत्प्रत्ययप्रकृतिभूतस्तस्ययोऽर्थोऽभिधेयो द्रव्यविनिमयरूपः क्रयः स प्रकृत्यर्थस्तच्छब्देन विवक्षितः । तस्मै इदं तदर्थं=क्रयार्थं वस्तु । तथाच क्रयार्थे वस्तुनि गम्ये क्रीञ्धातोर्यादौ प्रत्यये परे इति फलति ।यान्तः क्रीञस्तदर्थ॑ इति विधौगौरवान्निपातनमाश्रितम् । क्रयार्थत्वं चात्र फलोपधायकं विवक्षितमित्याह — क्रेतार इत्यादि क्रय्यमित्यन्तम् । योग्यतामात्रग्रहणे तुतदर्थे॑इत्यव्यावर्तकं स्यादिति भावः । क्रीञः कर्मणि ‘अचो यत्’ इति यत् ।सार्वधातुके॑ति गुण एकारः । अत्रैकारस्याऽच्परकत्वाऽभावादनेनाऽयादेशविधिः । क्रेयमन्यदिति । गृहादौ भोजनाद्यर्थं संगृहीतं धान्यादीत्यर्थः ।अर्हे कृत्यतृचश्चेति॑यत् । अत्राऽयादेशो न भवति, फलोपधानस्य क्रयार्थत्वस्य तत्राऽभावादित्यर्थः ।
Tattvabodhini¶
क्रय्यस्तदर्थे - प्रकृत्यर्थायेति । प्रकृत्यर्थो द्रव्यविनिमयः ।
Padamanjari¶
क्रय्य इत्यत्र प्रत्ययार्थश्च कर्म विद्यते, कर्मणि कृत्यविधानात् प्रकृत्यर्थश्च द्रव्यविनिमयः, तत्र प्रत्ययार्थः प्रधानम्, प्रकृत्यर्थस्तूपसर्जनम्, तत्र यदि प्राधान्यातदित्यनेन प्रत्ययार्थः परामृश्यमेव क्रय्यशब्दस्य तस्मिन्नर्थे वृतेर्नार्थस्तदर्थग्रहणेन। अथ सोऽर्थो यस्य तदर्थः शब्दस्तस्मिन्नभिधेय इत्यर्थः ? तदप्ययुक्तम्; शब्दस्य वृत्यसम्भवात्। अतो गुणीभूतोऽपि प्रकृत्यर्थे एव निर्द्दश्यत इति दर्शयति -तदर्थे क्रयार्थं यतस्मिन्नभिधेय इति। क्रयार्थं यः प्रसारित इति। क्रेतारः क्रीणीयुरिति बुद्ध्याऽऽणे यद्व्यवस्थापितमित्«अथः। क्रेयमिति। मूल्येनोपादेयमित्यर्थः। न चेहास्ति क्रय्यमिति। आपणे विक्रयाय प्रसारितं धान्यं नास्तीत्यर्थः। केचितु क्रय्यशब्दे क्रीणातिर्विक्रये वर्तत इत्याहुः। तेनापणे विक्रयाय प्रसारितं द्रव्यम्’क्रय्यम्’ इत्युच्यते ॥
Nyaas¶
क्रय्यः इति। अत्र प्रत्ययार्थश्च कर्म विदयते; कर्मणि कृत्यविधानात्। प्रकृत्यर्थश्च विनिमयः, क्रीणातेर्विनिमयार्थत्वात्। तत्र प्रत्ययार्थः प्रधानम्, प्रकृतिप्रत्यौ प्रत्ययार्थं सह ब्राऊतः इति कृत्वा। प्रकृत्यर्थस्तूपसर्जनम्, प्रतत्ययार्थविशेषणमिति कृत्वा। तत्र यदि प्रधानत्वात्? तदित्यनेन प्रत्यार्थो निर्दिश्येत तदायमर्थः स्यात् -स क्रय्योऽर्थो यस्य शब्दस्य स तदर्थः, तस्मिन्नभिधेये ऋय्य इत्येष शब्दो निपात्यत इति? अयुक्तश्चायम्; न ह्यत्र क्रय्यशब्दस्य क्रय्यार्थः कश्चिच्छब्दोऽभिधेयोऽस्ति, ततस्तस्याप्रतीतेः। अथैवं विज्ञायेत -स एवार्थस्तदर्थ इति? एवमपि तदर्थग्रहणमनर्थकम्। अवश्यमेव हि क्रय्यशब्दो यत्प्रत्ययान्तस्तस्मिन्? यत्प्रत्ययार्थे वर्तते। तस्मात्? तच्छब्देन प्रधाननिर्देशे सति तदर्थग्रहणस्यानर्थक्यम्। अतो गुणभूतोऽपि प्रकृत्यर्थो निर्दिश्यत इति मत्वाऽऽह -तदर्थे क्रयार्थं यत्? तस्मिन्नभिधेये इति। तस्मै इदं तदर्थम्। क्रयार्थमित्यनेन क्रीणात्यर्थस्तच्छब्देन निर्दिश्यत इति दर्शयति। क्रयणं क्रयः, विनियम इत्यर्थः। क्रयार्थमित्यत्रापि चतुर्थीसमास एव -क्रयाय इदं क्रयार्थम्। क्रायार्थ यः प्रसारितः इति। विनिमयार्थं य उपन्यस्त इत्यर्थः। क्रेयं नो धान्यम् इति। क्रेतव्यम्=ग्रहीतव्यम्, स्वीकर्तव्यमितद्यर्थः। न चास्ति क्रव्यम् इति। न चात्र क्रयार्थमुपन्यस्तं धान्यमस्तीत्यर्थः।
Prakriyasarvasvam¶
क्रयार्थं प्रसारितं क्रय्यम् । अन्यत्र क्रेयम् । गृहे इह, साधो एहि, शुद्धर्च अत्र, पादौ अर्पय, एष्वयाद्यादेशे कृते ।