61082: क्रय्यस्तदर्थे ===================== **Padacheda:** क्रय्यः | S | 1 | 1 | तदर्थे | S | 7 | 1 | Sutrartha --------- **'क्रय्य' शब्दः 'क्रेतुमुपलब्धम्' अस्मिन् अर्थे निपात्यते ।** यदा "क्री (द्रव्यविनिमये)" अस्मात् धातोः 'उपलब्धम्' अस्मिन् अर्थे 'यत्' इति प्रत्ययः विधीयते, तदा प्रकृतसूत्रेण 'क्रय्य' इति शब्दः निपात्यते । 1) **क्रेतुम् उपलब्धम्** (available for purchased) तत् क्रय्यम् । यथा, क्रय्याणि फलानि । प्रक्रिया इयम् — .. code-block:: text डुक्रीञ् (द्रव्यविनिमये, क्र्यादिः, (9.1)) → क्री [**आदिर्ञिटुडवः** (1.3.5), **हलन्त्यम्** (1.3.3), **तस्य लोपः** [1.3.9]]] → क्री + यत् [**अचो यत्** (3.1.97) इति यत्-प्रत्ययः] → क्रे + य [**सार्वधातुकार्धधातुकयोः** (7.3.84) इति गुणः] → क्रय् य [**प्रकृतसूत्रेण एकारस्य अयादेशः निपात्यते** ।] → क्रय्य **क्रयः, क्रेयम्, क्रय्यम्** क्रय, क्रेय तथा क्रय्य - एते त्रयः भिन्नार्थकाः शब्दाः सन्ति — 1. क्री-धातोः **एरच्** (3.3.56) इत्यनेन भावे अच्-प्रत्यये कृते **क्रय** शब्दः सिद्ध्यति । क्रयणम् (act of purchasing) इति अर्थः । यथा — वस्तूनाम् क्रयः कृतः । 2. क्री-धातोः 'उपलब्धम्' इत्यस्मिन् **अचो यत्** (3.1.97) इति यत्-प्रत्यये कृते प्रकृतसूत्रेण **क्रय्य** इति शब्दः निपात्यते । क्रेतुम् उपलब्धम् (available for purchase) इति अर्थः । यथा — फलानि क्रय्याणि । 3. क्री-धातोः भावकर्मणोः अर्थयोः **अचो यत्** (3.1.97) इति यत्-प्रत्यये कृते **क्षेय** इति शब्दः सिद्ध्यति क्रेतुम् योग्यम् (appropriate for purchasing) इति अर्थः । यथा — वस्त्रम् क्रेयम् । दूषितानि फलानि यद्यपि क्रय्याणि, तथापि न क्रेयाणि । Sutrartha (English) ------------------- The words क्रय्य is considered to be derived, in the meaning of 'the one that can be purchased'. Vasu English Summary -------------------- In the क्रय्य there is substitution of अय् for ए when the sense is that of 'exposed or put out for sale, saleable'. Vasu English Translation ------------------------ In the क्रय्य there is substitution of अय् for ए when the sense is that of 'exposed or put out for sale, saleable'. The word क्रय्य is derive from क्री 'to buy', with the affix यत्; the *guna* ए being changed to य ॥ The word तदर्थ means 'for the purpose of that' i.e., for the purpose of being bought. As क्रय्या गौः, क्रय्यः कम्बलः ॥ Why do we say 'when the sense is that of saleable'? Observe क्रेयं नो धान्यं न चास्ति क्रय्यम् "we want to purchase corn, but it is not put out for sale". Bhashya ------- क्रय्यस्तदर्थे (2519) (तत्पदार्थोपदर्शकभाष्यम्) तत् - इत्यनेन किं प्रतिनिर्दिश्यते ? स एव क्रीणात्यर्थः । इह मा भूत् - क्रेयं नो धान्यम्, न चास्ति क्रय्यमिति ॥ Kashika ------- क्रीणातेर्धातोस्तदर्थे क्रयार्थं यत् तस्मिन्नभिधेये यति प्रत्यये परतोऽयादेशो निपात्यते। क्रय्यो गौः। क्रय्यः कम्बलः। क्रयार्थं यः प्रसारितः, स उच्यते। तदर्थ इति किम् ? क्रेयं नो धान्यम्, न चास्ति क्रय्यम्॥ Siddhanta Kaumudi ----------------- तस्मै प्रकृत्यर्थायेदं तदर्थम् । क्रेतारः क्रीणीयुरिति बुद्ध्या आपणे प्रसारितं क्रय्यम् । क्रेयमन्यत् । क्रयणार्हमित्यर्थः ॥ Laghu Shabdendushekhar ---------------------- **तस्मै प्रेति** । क्रयार्थे वस्तुनि क्रय्य इति निपात्यते इत्यर्थो, व्याख्यानात् । गुण भूतस्यापि तदा परामर्शः । क्रयार्थत्वञ्च फलोपधानरूपं तदर्थे इति विशेषणात्तदाह – **क्रेतार इति** । योग्यतामात्रग्रहणे त्वव्यावर्त्तकं तत्स्यादिति भावः । केचित्तु स्वीयं धान्यादि दत्त्वा यत्र तन्मूल्यग्रहणं तत्र धान्यं क्रय्यम् । यत्र तु स्वयं द्रव्यं दत्त्वा परकीयधान्यादिग्रहणं तत्र धान्यं क्रेयम्। द्रव्ये तु न क्रय्यत्वं नापि क्रेयत्वं, किं तु धान्यादेरेव, शक्तिस्वभावात् । भाष्यस्वरसोऽप्येवमेवेत्याहुः ॥ Balamanorama ------------ **क्रय्यस्तदर्थे** - क्रय्यस्तदर्थे । इदमपि यान्तादेशनिपातनार्थम् । तदर्थशब्दं व्याचष्टे - तस्मा इति । क्रय्यशब्दे यः क्रीञ्धातुर्यत्प्रत्ययप्रकृतिभूतस्तस्ययोऽर्थोऽभिधेयो द्रव्यविनिमयरूपः क्रयः स प्रकृत्यर्थस्तच्छब्देन विवक्षितः । तस्मै इदं तदर्थं=क्रयार्थं वस्तु । तथाच क्रयार्थे वस्तुनि गम्ये क्रीञ्धातोर्यादौ प्रत्यये परे इति फलति ।यान्तः क्रीञस्तदर्थ॑ इति विधौगौरवान्निपातनमाश्रितम् । क्रयार्थत्वं चात्र फलोपधायकं विवक्षितमित्याह — क्रेतार इत्यादि क्रय्यमित्यन्तम् । योग्यतामात्रग्रहणे तुतदर्थे॑इत्यव्यावर्तकं स्यादिति भावः । क्रीञः कर्मणि 'अचो यत्' इति यत् ।सार्वधातुके॑ति गुण एकारः । अत्रैकारस्याऽच्परकत्वाऽभावादनेनाऽयादेशविधिः । क्रेयमन्यदिति । गृहादौ भोजनाद्यर्थं संगृहीतं धान्यादीत्यर्थः ।अर्हे कृत्यतृचश्चेति॑यत् । अत्राऽयादेशो न भवति, फलोपधानस्य क्रयार्थत्वस्य तत्राऽभावादित्यर्थः । Tattvabodhini ------------- **क्रय्यस्तदर्थे** - प्रकृत्यर्थायेति । प्रकृत्यर्थो द्रव्यविनिमयः । Padamanjari ----------- क्रय्य इत्यत्र प्रत्ययार्थश्च कर्म विद्यते, कर्मणि कृत्यविधानात् प्रकृत्यर्थश्च द्रव्यविनिमयः, तत्र प्रत्ययार्थः प्रधानम्, प्रकृत्यर्थस्तूपसर्जनम्, तत्र यदि प्राधान्यातदित्यनेन प्रत्ययार्थः परामृश्यमेव क्रय्यशब्दस्य तस्मिन्नर्थे वृतेर्नार्थस्तदर्थग्रहणेन। अथ सोऽर्थो यस्य तदर्थः शब्दस्तस्मिन्नभिधेय इत्यर्थः ? तदप्ययुक्तम्; शब्दस्य वृत्यसम्भवात्। अतो गुणीभूतोऽपि प्रकृत्यर्थे एव निर्द्दश्यत इति दर्शयति -तदर्थे क्रयार्थं यतस्मिन्नभिधेय इति। क्रयार्थं यः प्रसारित इति। क्रेतारः क्रीणीयुरिति बुद्ध्याऽऽणे यद्व्यवस्थापितमित्«अथः। क्रेयमिति। मूल्येनोपादेयमित्यर्थः। न चेहास्ति क्रय्यमिति। आपणे विक्रयाय प्रसारितं धान्यं नास्तीत्यर्थः। केचितु क्रय्यशब्दे क्रीणातिर्विक्रये वर्तत इत्याहुः। तेनापणे विक्रयाय प्रसारितं द्रव्यम्'क्रय्यम्' इत्युच्यते ॥ Nyaas ----- `क्रय्यः` इति। अत्र प्रत्ययार्थश्च कर्म विदयते; कर्मणि कृत्यविधानात्। प्रकृत्यर्थश्च विनिमयः, क्रीणातेर्विनिमयार्थत्वात्। तत्र प्रत्ययार्थः प्रधानम्, `प्रकृतिप्रत्यौ प्रत्ययार्थं सह ब्राऊतः` इति कृत्वा। प्रकृत्यर्थस्तूपसर्जनम्, प्रतत्ययार्थविशेषणमिति कृत्वा। तत्र यदि प्रधानत्वात्? तदित्यनेन प्रत्यार्थो निर्दिश्येत तदायमर्थः स्यात् -स क्रय्योऽर्थो यस्य शब्दस्य स तदर्थः, तस्मिन्नभिधेये ऋय्य इत्येष शब्दो निपात्यत इति? अयुक्तश्चायम्; न ह्यत्र क्रय्यशब्दस्य क्रय्यार्थः कश्चिच्छब्दोऽभिधेयोऽस्ति, ततस्तस्याप्रतीतेः। अथैवं विज्ञायेत -स एवार्थस्तदर्थ इति? एवमपि तदर्थग्रहणमनर्थकम्। अवश्यमेव हि क्रय्यशब्दो यत्प्रत्ययान्तस्तस्मिन्? यत्प्रत्ययार्थे वर्तते। तस्मात्? तच्छब्देन प्रधाननिर्देशे सति तदर्थग्रहणस्यानर्थक्यम्। अतो गुणभूतोऽपि प्रकृत्यर्थो निर्दिश्यत इति मत्वाऽऽह -`तदर्थे क्रयार्थं यत्? तस्मिन्नभिधेये` इति। तस्मै इदं तदर्थम्। क्रयार्थमित्यनेन क्रीणात्यर्थस्तच्छब्देन निर्दिश्यत इति दर्शयति। क्रयणं क्रयः, विनियम इत्यर्थः। क्रयार्थमित्यत्रापि चतुर्थीसमास एव -क्रयाय इदं क्रयार्थम्। `क्रायार्थ यः प्रसारितः` इति। विनिमयार्थं य उपन्यस्त इत्यर्थः। `क्रेयं नो धान्यम्` इति। क्रेतव्यम्=ग्रहीतव्यम्, स्वीकर्तव्यमितद्यर्थः। `न चास्ति क्रव्यम्` इति। न चात्र क्रयार्थमुपन्यस्तं धान्यमस्तीत्यर्थः। Prakriyasarvasvam ----------------- क्रयार्थं प्रसारितं क्रय्यम् । अन्यत्र क्रेयम् । गृहे इह, साधो एहि, शुद्धर्च अत्र, पादौ अर्पय, एष्वयाद्यादेशे कृते ।