61055: प्रजने वीयतेः

Padacheda: प्रजने | S | 7 | 1 |

वीयतेः | S | 6 | 1 |

Sutrartha


Vasu English Summary

There is optionally the substitution of आ in the room of the diphthong of the root वी in the causative, when meaning ‘to conceive an embryo’.

Vasu English Translation

There is optionally the substitution of आ in the room of the diphthong of the root वी in the causative, when meaning ‘to conceive an embryo’. The root वी Adadi 39 means ‘to go, to conceive, to shine, to eat, and to desire’. The substitution takes place when it means ‘to impregnate or conceive’. Thus पुरो वानो गाः प्रवापयति or प्रवाययति = गर्भे ग्राहयति ॥ The word प्रजन means the receiving of the embryo which in course of time will lead to the birth of a child.

Kashika

णाविति वर्तते। वी गतिप्रजनकान्त्यसनखादनेषु इत्यस्य धातोः प्रजने वर्तमानस्य णौ परतो विभाषा आकारादेशो भवति। पुरोवातो गाः प्रवापयति, पुरोवातो गाः प्रवाययति। गर्भं ग्राहयतीत्यर्थः। प्रजनो हि जन्मन उपक्रमो गर्भग्रहणम्॥

Siddhanta Kaumudi

अस्यैच आत्वं वा स्याण्णौ प्रजनेऽर्थे । वापयति वाययति वा गाः पुरोवातः । गर्भं ग्राहयतीत्यर्थः । ऊदुपधाया गोहः (SK2364) । गूहयति ॥

Balamanorama

प्रजने वीयतेः - प्रजन वीयतेः । ‘आदेच उपदेशे’ इत्यस्मादादेचेति,॒चिस्फुरो॑रित्तो णाविति, ‘विभाषा लीयतेः’ इत्यतो विभाषेति चानुवर्तते । तदाह — अस्यैच इत्यादि ।वीयते॑रिति न स्यना निर्देशः,वी गतिप्रजनस्थानार्जनोपार्जनेषु॑ केचित् । वस्तुतस्तु व्येञो न ग्रहणं, तस्य प्रजनार्थकत्वाऽभावात् , तस्य णौशाच्छासे॑ति पुगपवादयुग्विधानेन व्याययतीति रूपे विशेषाऽभावाच्चेति शब्देन्दुशेखरे प्रपञ्चितम् । गर्भं ग्राहयतीति । पुरोवातकाले गावो गर्भं गृह्णन्तीति प्रसिद्धिः । अथ ‘गुहू संवरणे’ इत्यस्य गुणनिमित्तेऽजादौ प्रत्यये परे उपधाया ऊत्त्वविधिं स्मारयति — ऊदुपधाया गोह इति । गूहयतीति । लघूपधगुणापवाद ऊत्त्वमिति भावः ।

Tattvabodhini

प्रजने वीयतेः - प्रजने ।वीयते॑ रितिवी गतिप्रजनादौ,आदादिकस्य यका निर्देशः । अत्र केचिदुत्प्रेक्षयन्ति — वीतेरिति वक्तव्ये यका निर्देशाद्वेञोऽपि ग्रहणम्, तस्यापियकि संप्रसारणे वीधातुना समानरूपत्वात् । अतो द्वयोरपि प्रजनेऽर्थे आत्वं वा स्यात् । तत्र आत्वे, तदभावे च यद्यपि व्येञः व्याययतीति रूपं तुल्यं,शाच्छासे॑ति पुकोऽपवादतया युग्विधानात्, तथापि णिजन्तात्क्विप — व्याः व्यौ व्याः । आत्वाऽभावपक्षे व्यैः व्यायौ व्याय इत्यस्ति विशेषः । विभाषाविधानसामर्थ्यात्पक्षेऽपिआदेच उपदेशेऽशिती॑ति न प्रवर्तते । अनेकार्थत्वाच्च धातूनां व्ययतेरपि प्रयोजनोऽर्थ इति ।

Padamanjari

हेतुभयमिति।’पञ्चमी भयेन’ इति समासः, तदाह -हेतोर्भयमिति। किं पुनस्तत्? इत्याह-स यस्य भयस्येति। स चात्वपक्षे न भवतीति। एकदेशविकृतस्यानन्यट्वात्प्राप्नोति, कुतो न भवति? इत्याह -लीभियोरीकारप्रश्लेषनिर्द्देसादिति।’लीलोर्नुग्लुकौ’ इति लियो नुग्विधीयते, यश्च’भियः षुक्’ -तावुभावप्याकारान्तयोर्न भवतः, कुतः? लीऐइ भीऐइ इति ईकारप्रश्लेषेणेकारान्तयोर्विधानात्। लीभियोः प्रश्लेषनिर्द्देशादिति वार्तिके सह पाठादिह लियो ग्रहणम् ॥

Nyaas

यदि `वा गतिगन्धनयोः (धातुपाठः-1050) इत्ययं धातुः प्रजने वर्तते, ततः शक्यतेऽपि योगोऽवक्तुम्; वातेर्हि -वापयतीति भविष्यति, वीयतेस्तु -वाययतीति॥

Prakriyasarvasvam

गर्भग्रहणार्थस्य वीयतेर्णावेच आत्वं वा स्यात् । वापयति, वाययति वा गाः पुरोवातः । गर्भं ग्राहयतीत्यर्थः । चङि अवीवपत्, अवीवयत् । ष्टुञो णिचि स्तावयति । वृद्ध्यावोः स्थानिवत्त्वात् अतुष्टवत् । भू भावयति । यु मिश्रणे यावयति । जु वेगे जावयति । स्तुञ्वत् स्थानिवत्त्वादभ्यास- स्योवर्णश्रवणे प्राप्ते, सन्वाद्भावे ।