61054: चिस्फुरोर्णौ¶
Padacheda: चि-स्फुरोः | S | 6 | 2 |
णौ | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
There is optionally the substitution of आ in the room of the diphthong of the roots चि and स्फुर् when in the Causative.
Vasu English Translation¶
There is optionally the substitution of आ in the room of the diphthong of the roots चि and स्फुर् when in the Causative. Thus चापयति, चाययति (7.3.36) for the addition of प्)) so also स्फोरयति or स्फारयति ॥
Kashika¶
चिञ् स्फुर इत्येतयोर्धात्वोर्णौ परत एचः स्थाने विभाषा आकारादेशो भवति। चापयति, चाययति। स्फारयति, स्फोरयति॥
Siddhanta Kaumudi¶
आत्वं वा स्यात् ॥
Balamanorama¶
चिस्फुरोर्णौ - चिस्फुरोर्णौ । ‘आदेच उपदेशे’ इत्यत आदिति,विभाषा लीयते॑रित्यतो विभाषेति चानुवर्तते इति मत्वा शेषं पूरयति — आत्त्वं वा स्यादिति । चिञो णिचि आत्त्वे चा इ इति स्थिते —
Tattvabodhini¶
चिस्फुरोर्णौ - चिस्फुरोर्णौ ।आदेच उपदेशे॑ इत्यत आदित्यनुवर्ततेविभाषा लीयतेः॑ इत्यतो विभाषाग्रहणं च । तदाह — आत्वं वा स्यादिति ।
Nyaas¶
क्रीङ्जीनां णौ (6.1.48) इत्यत्र प्रदेश इदं नोक्तम्; नित्यं मा भूदित्येवमर्थम्॥
Prakriyasarvasvam¶
चिन्नः स्फुरश्च णावेच आत्वं वा स्यात् । चापयति अचीचपत् । चाययति अचीचयत्* । स्फारयति, स्फोरयति । चङि अनात्वपक्षे अपुस्फुरत् । आत्वपक्षेऽपि ‘णौ कृतम् -’ इति आत्वस्य स्थानिवत्त्वाद् द्विरुक्तौ अपुस्फुरत्१ । <karika>एवं भीस्म्यादिकेऽप्यात्वे स्थानिवत्त्वाद् द्विरुच्यते । इकारवत्त्वादात्वेऽपि सन्वद्वित्वाच्च नो भिदा ॥ ७२९ ॥</karika>
Sutra Prayogas¶
विस्फारयांचकाराऽस्त्रं (भट्टिकाव्यम्): चिस्फुरोणौं इत्यात्वम्।
अपुस्फुरद् (भट्टिकाव्यम्): चि-स्फुरोणों इत्यात्वम्।