61055: प्रजने वीयतेः ==================== **Padacheda:** प्रजने | S | 7 | 1 | वीयतेः | S | 6 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- There is optionally the substitution of आ in the room of the diphthong of the root वी in the causative, when meaning 'to conceive an embryo'. Vasu English Translation ------------------------ There is optionally the substitution of आ in the room of the diphthong of the root वी in the causative, when meaning 'to conceive an embryo'. The root वी *Adadi* 39 means 'to go, to conceive, to shine, to eat, and to desire'. The substitution takes place when it means 'to impregnate or conceive'. Thus पुरो वानो गाः प्रवापयति or प्रवाययति = गर्भे ग्राहयति ॥ The word प्रजन means the receiving of the embryo which in course of time will lead to the birth of a child. Kashika ------- णाविति वर्तते। **वी गतिप्रजनकान्त्यसनखादनेषु** इत्यस्य धातोः प्रजने वर्तमानस्य णौ परतो विभाषा आकारादेशो भवति। पुरोवातो गाः प्रवापयति, पुरोवातो गाः प्रवाययति। गर्भं ग्राहयतीत्यर्थः। प्रजनो हि जन्मन उपक्रमो गर्भग्रहणम्॥ Siddhanta Kaumudi ----------------- अस्यैच आत्वं वा स्याण्णौ प्रजनेऽर्थे । वापयति वाययति वा गाः पुरोवातः । गर्भं ग्राहयतीत्यर्थः । ऊदुपधाया गोहः (SK2364) । गूहयति ॥ Balamanorama ------------ **प्रजने वीयतेः** - प्रजन वीयतेः । 'आदेच उपदेशे' इत्यस्मादादेचेति,॒चिस्फुरो॑रित्तो णाविति, 'विभाषा लीयतेः' इत्यतो विभाषेति चानुवर्तते । तदाह — अस्यैच इत्यादि ।वीयते॑रिति न स्यना निर्देशः,वी गतिप्रजनस्थानार्जनोपार्जनेषु॑ केचित् । वस्तुतस्तु व्येञो न ग्रहणं, तस्य प्रजनार्थकत्वाऽभावात् , तस्य णौशाच्छासे॑ति पुगपवादयुग्विधानेन व्याययतीति रूपे विशेषाऽभावाच्चेति शब्देन्दुशेखरे प्रपञ्चितम् । गर्भं ग्राहयतीति । पुरोवातकाले गावो गर्भं गृह्णन्तीति प्रसिद्धिः । अथ 'गुहू संवरणे' इत्यस्य गुणनिमित्तेऽजादौ प्रत्यये परे उपधाया ऊत्त्वविधिं स्मारयति — ऊदुपधाया गोह इति । गूहयतीति । लघूपधगुणापवाद ऊत्त्वमिति भावः । Tattvabodhini ------------- **प्रजने वीयतेः** - प्रजने ।वीयते॑ रितिवी गतिप्रजनादौ,आदादिकस्य यका निर्देशः । अत्र केचिदुत्प्रेक्षयन्ति — वीतेरिति वक्तव्ये यका निर्देशाद्वेञोऽपि ग्रहणम्, तस्यापियकि संप्रसारणे वीधातुना समानरूपत्वात् । अतो द्वयोरपि प्रजनेऽर्थे आत्वं वा स्यात् । तत्र आत्वे, तदभावे च यद्यपि व्येञः व्याययतीति रूपं तुल्यं,शाच्छासे॑ति पुकोऽपवादतया युग्विधानात्, तथापि णिजन्तात्क्विप — व्याः व्यौ व्याः । आत्वाऽभावपक्षे व्यैः व्यायौ व्याय इत्यस्ति विशेषः । विभाषाविधानसामर्थ्यात्पक्षेऽपिआदेच उपदेशेऽशिती॑ति न प्रवर्तते । अनेकार्थत्वाच्च धातूनां व्ययतेरपि प्रयोजनोऽर्थ इति । Padamanjari ----------- हेतुभयमिति।'पञ्चमी भयेन' इति समासः, तदाह -हेतोर्भयमिति। किं पुनस्तत्? इत्याह-स यस्य भयस्येति। स चात्वपक्षे न भवतीति। एकदेशविकृतस्यानन्यट्वात्प्राप्नोति, कुतो न भवति? इत्याह -लीभियोरीकारप्रश्लेषनिर्द्देसादिति।'लीलोर्नुग्लुकौ' इति लियो नुग्विधीयते, यश्च'भियः षुक्' -तावुभावप्याकारान्तयोर्न भवतः, कुतः? लीऐइ भीऐइ इति ईकारप्रश्लेषेणेकारान्तयोर्विधानात्। लीभियोः प्रश्लेषनिर्द्देशादिति वार्तिके सह पाठादिह लियो ग्रहणम् ॥ Nyaas ----- यदि `वा गतिगन्धनयोः (धातुपाठः-1050) इत्ययं धातुः प्रजने वर्तते, ततः शक्यतेऽपि योगोऽवक्तुम्; वातेर्हि -वापयतीति भविष्यति, वीयतेस्तु -वाययतीति॥ Prakriyasarvasvam ----------------- गर्भग्रहणार्थस्य वीयतेर्णावेच आत्वं वा स्यात् । वापयति, वाययति वा गाः पुरोवातः । गर्भं ग्राहयतीत्यर्थः । चङि अवीवपत्, अवीवयत् । ष्टुञो णिचि स्तावयति । वृद्ध्यावोः स्थानिवत्त्वात् अतुष्टवत् । भू भावयति । यु मिश्रणे यावयति । जु वेगे जावयति । स्तुञ्वत् स्थानिवत्त्वादभ्यास- स्योवर्णश्रवणे प्राप्ते, सन्वाद्भावे ।