61054: चिस्फुरोर्णौ =================== **Padacheda:** चि-स्फुरोः | S | 6 | 2 | णौ | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- There is optionally the substitution of आ in the room of the diphthong of the roots चि and स्फुर् when in the Causative. Vasu English Translation ------------------------ There is optionally the substitution of आ in the room of the diphthong of the roots चि and स्फुर् when in the Causative. Thus चापयति, चाययति (7.3.36) for the addition of प्)) so also स्फोरयति or स्फारयति ॥ Kashika ------- चिञ् स्फुर इत्येतयोर्धात्वोर्णौ परत एचः स्थाने विभाषा आकारादेशो भवति। चापयति, चाययति। स्फारयति, स्फोरयति॥ Siddhanta Kaumudi ----------------- आत्वं वा स्यात् ॥ Balamanorama ------------ **चिस्फुरोर्णौ** - चिस्फुरोर्णौ । 'आदेच उपदेशे' इत्यत आदिति,विभाषा लीयते॑रित्यतो विभाषेति चानुवर्तते इति मत्वा शेषं पूरयति — आत्त्वं वा स्यादिति । चिञो णिचि आत्त्वे चा इ इति स्थिते — Tattvabodhini ------------- **चिस्फुरोर्णौ** - चिस्फुरोर्णौ ।आदेच उपदेशे॑ इत्यत आदित्यनुवर्ततेविभाषा लीयतेः॑ इत्यतो विभाषाग्रहणं च । तदाह — आत्वं वा स्यादिति । Nyaas ----- **क्रीङ्जीनां णौ** (6.1.48) इत्यत्र प्रदेश इदं नोक्तम्; नित्यं मा भूदित्येवमर्थम्॥ Prakriyasarvasvam ----------------- चिन्नः स्फुरश्च णावेच आत्वं वा स्यात् । चापयति अचीचपत् । चाययति अचीचयत्* । स्फारयति, स्फोरयति । चङि अनात्वपक्षे अपुस्फुरत् । आत्वपक्षेऽपि 'णौ कृतम् -' इति आत्वस्य स्थानिवत्त्वाद् द्विरुक्तौ अपुस्फुरत्१ । एवं भीस्म्यादिकेऽप्यात्वे स्थानिवत्त्वाद् द्विरुच्यते । इकारवत्त्वादात्वेऽपि सन्वद्वित्वाच्च नो भिदा ॥ ७२९ ॥ Sutra Prayogas -------------- * **विस्फारयांचकाराऽस्त्रं** (भट्टिकाव्यम्): `चिस्फुरोणौं` इत्यात्वम्। * **अपुस्फुरद्** (भट्टिकाव्यम्): `चि-स्फुरोणों` इत्यात्वम्।