61039: वश्चास्यान्यतरस्याम् किति¶
Padacheda: वः | S | 1 | 1 |
च | S | 0 | 0 |
अस्य | S | 6 | 1 |
अन्यतरस्याम् | S | 7 | 1 |
किति | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
Before the tense-affixes of the Perfect that have an indicatory क (1.2.5), for the य् of वय् may optionally be substituted a व्।
Vasu English Translation¶
Before the tense-affixes of the Perfect that have an indicatory क (1.2.5), for the य् of वय् may optionally be substituted a व्। Thus ऊयतुः or ऊवतुः, ऊवुः or ऊयुः ॥ According to Patanjali, the phrase वश्चास्य of this sutra could have been dispensed with; this much would have been enough:- अन्यतरस्या किति वेञः ॥ Thus वे + अतुम् = वा + वा + अतुस् = ववतुः and ववुः (the vocalisation being prohibited). In the alternative:-वा + अतुस् = उ +अतुस् = उ + उवङ् + अतुस् (6.1.77) = ऊवतुः, ऊवुः ॥ Here there is vocalisation. In the case of वय् substitute, the य is never vocalised, so we have ऊयतुः, ऊयुः ॥ Thus all the three forms have been evolved without using वश्चास्य ॥
Bhashya¶
वश्चास्यान्यतरस्यां किति (2476) (वश्चास्यग्रहणप्रत्याख्यानभाष्यम्) वश्चास्यग्रहणं शक्यमकर्तुम् । अन्यतरस्यां किति वेञ्ञो न संप्रसारणं भवतीत्येव सिद्धम् । कथम् ? प्रसारणे कृत उवङादेशे च द्विर्वचनं सवर्णदीर्घत्वम् । तेन सिद्धम् - ववतुः, ववुः,ऊवतुः,ऊवुः । वयेरपि नित्यं यकारस्य प्रतिषेधः संप्रसारणस्य,ऊयतुः,ऊयुः । त्रैशब्दं चेह साध्यम्, तच्चैवं सति सिद्धं भवति ॥ यद्येवं - ववौ, वविथेति न सिद्ध्यति । ल्यपि च (6.1.41) इत्यनेन चकारेण लिडप्यनुकृष्यते । तस्मिन्नित्ये प्रसारणप्रतिषेधे प्राप्ते इयं किति विभाषाऽऽरभ्यते ॥ इति श्रीभगवत्पतञ्जलिविरचिते व्याकरणमहाभाष्ये षष्ठस्याध्यायस्य प्रथमे पादे द्वितीयमाह्निकम् ॥
Kashika¶
अस्य वयो यकारस्य किति लिटि परतो वकारादेशो भवत्यन्यतरस्याम्। ऊवतुः, ऊवुः। ऊयतुः, ऊयुः। कितीति किम् ? उवाय। उवयिथ॥
Siddhanta Kaumudi¶
वयो यस्य वो वा स्यात्किति लिटि । ऊवतुः । ऊवुः । वयस्तासावभावात्थलि नित्यमिट् । उवयिथ । स्थानिवद्भावेन ञित्तवात्तङ् । ऊये । ऊवे । वयादेशाभावे ॥
Balamanorama¶
वश्चास्यान्यतरस्याम् किति - वश्चास्या । ‘लिटि वयो यः’ इत्यनुवर्तते । तदाह — वयोयस्येत्यादि । उवयिथेति । अकित्त्वान्न वः । अजन्तत्वादकारवत्त्वाच्च थलि इड्विकल्पमाशङ्क्याह — वयेस्तासावभावात्थलि नित्यमिडिति । वयेर्लिटएव विहितत्वेन तासावभवात्अचस्तास्व॑दिति ‘उपदेशेऽत्वतः’ इति च इण्निषेधऽप्रसक्त्या क्रादिनयिमान्नित्यनिडित्यर्थः ।यस्तासावस्ति नित्याऽनिट् चे॑ति भाष्यम् । ऊयथुः- ऊवथुः ऊय-ऊव । उवाय, उवय, ऊयिव-ऊविव, ऊयिम — ऊविम । ननु वयेरञित्त्वात्कथमुभयपदत्वमित्यत आह — स्थानिवद्भावेनेति । ऊये ऊवे इति ।वश्चास्यान्यतरस्या॑मिति वत्वविकल्पः । वत्वाऽभावे ‘लिटि वयो यः’ इति यकारस्य संप्रसारणनिषेधः । वकारस्यग्रहिज्ये॑ति,वचिस्वपी॑ति वा संप्रसारणम् । ऊयाते ऊयिरे । ऊयिषे ऊयाथे [ऊयिढ्वे] ऊयिध्वे । ऊये उयिवहे ऊयिमहे । क्रादिनियमादिट् । एवम् ऊवाते ऊविरे इत्यादि । वयादेशाऽभावे इति । यजादित्वात्लिटभ्यासस्ये॑तिवचिस्वपी॑ति च संप्रसारणे प्राप्ते सती॑ति शेषः ।
Tattvabodhini¶
वश्चास्यान्यतरस्याम् किति - वश्चास्या.॒अस्ये॑त्यनेनवयो यः॑ इति परामृश्यते । तदाह — वयो यस्येति ।वो वा किती॑त्येव सुवचं, लिटि वयो यः॑ इति प्रकृतत्वात् ।उपदेशेऽत्वतः॑ इति निषेधमाशङ्क्याह - वयस्तासावभावादिति । ननु स्थानिनस्तासौ विद्यमानत्वात् स्थानिवद्भावेन तासौ विद्यमानत्वं सुलभमिति चेत् । अत्राहुः - शास्त्रीयकार्ये हि स्थानिवद्भावो न तु लौकिके ।अचस्तास्व॑दिति निषेधस्य शास्त्रीयत्वेऽपि सोऽत्र नातिदिश्यते,अच॑ इत्युक्तेरल्विधित्वादिति ।
Padamanjari¶
अस्यग्रहणेन वयो यकारः प्रतिनिर्द्दिश्यते, अन्यथादेशाकारस्योच्चारणार्थत्वे प्रमाणाभावाद्वय एवायं सर्वादेशः सम्भाव्येत। अस्यग्रहणे तु सति यद्यष्यकारवानादेशः तथाप्यतो लोपेन सिद्धमिष्टम्। वश्चास्यग्रहणं शक्यमकर्तुम्। कथम्? ठन्यतरस्यां किति वेञःऽ इति सूत्रं कर्तव्यम्, लिटीत्येव, किति लिटि परतो वेञः सम्प्रसारणं न भवत्यन्यतरस्याम् -ववतुः, ववुः; सम्प्रसारणपक्षे उपङदेशे सति द्विर्वचनम्, सवर्णदीर्घत्वम् -ऊचतुः, ऊचुः;’वेञो वयिः’ -ऊयतुः ऊयुरिति। कथं ववौ, वविथ?’ल्यपि च’ इति चकारेण लिडनुकृष्यते, तत्पिति नित्यनिषेधार्थं भविष्यति ॥
Prakriyasarvasvam¶
किति लिटि वयो यस्य वत्वं वा स्यात् । ऊवतुः । ऊवुः । ऊवथुः । ऊव । ऊविव । ऊविम । तङि ऊवे । ऊवाते । ऊविरे । ऊविषे । ऊवाथे । ऊविढ्वे । ऊविध्वे । ऊवे । ऊविवहे । ऊविमहे । आशिषि ऊयात् । वासीष्ट । वासीध्वम् । लुडादौ वाता । वास्यति । वास्यते । कर्मणि चिण्वत्वे वायिषीष्ट । वायिता । वायिष्यते । अन्यत्र तद्वत् । व्येञ् संवरणे । व्ययति, व्ययते । यकि यजादित्वात् प्रसारणे ‘हलः’ इति दीर्घः । वायते । लुङि वेञ् वत् । अव्यासीत् अव्यासिष्टाम् । अव्यास्त, इत्यादि ।
Sutra Prayogas¶
ऊवुः (भट्टिकाव्यम्): वश्चास्यान्यतरस्याम् इति यकारस्य वकारादेशः।