61040: वेञः

Padacheda: वेञः | S | 6 | 1 |

Sutrartha


Vasu English Summary

The semi-vowel of वे ‘to weave’ is not vocalised in the Perfect.

Vasu English Translation

The semi-vowel of वे ‘to weave’ is not vocalised in the Perfect. Thus ववौ, ववतुः, ववुः ॥ This root belongs to यजादि class and would have been vocalised before कित् affixes by (6.1.15); and before non-कित् affixes the Reduplicate syllable of the Perfect would have been vocalised by (6.1.17). Both vocalisations are prohibited here.

Kashika

लिटीत्यनुवर्तते। वेञ् तन्तुसन्ताने इत्यस्य धातोर्लिटि परतः संप्रसारणं न भवति। ववौ, ववतुः, ववुः। किति यजादित्वाद् धातोः प्राप्तमकित्यपि लिट््यभ्यासस्योभयेषाम् (६.१.१७) इत्यभ्यासस्य, अत उभयं प्रतिषिध्यते॥

Siddhanta Kaumudi

वेञो न संप्रसारणं स्याल्लिटि । ववौ । ववतुः । ववुः । वविथ । ववाथ । ववे । वाता । ऊयात् । वासीष्ट । अवासीत् ।{$ {!1007 व्येञ्!} संवरणे$} । व्ययति ॥

Balamanorama

वेञः - वेञः । ‘लिटि वयो यः’ इत्यतो लिटीति,न संप्रसारणे संप्रसारण॑मित्यतो न संप्रसारणमिति चानुवर्तते ।तदाह — वेञो नेति । अत्र कितीति नानुवर्तते । तदाह — ववाविति । णलि संप्रसारणनिषेधे ‘आदेच उपदेशे’ इत्त्यात्वे ‘आत औ णलः’ इत्यौभावेवृद्धिरेची॑ति वृद्धौ रूपम् । ववतुरिति । ‘आदेचः’ इत्यात्त्वेआतो लोपः॑ । एवं ववुः । भारद्वाजनियमात्थलि वेट्, वेञस्तासावनिट्कत्वात् । तदाह — वविथ ववाथेति । इट्पक्षे अकित्त्वेऽपि इट्परत्वादाल्लोप इति भावः । ववथुः वव । ववौ वविव वविम । क्रादिनियमादिट् । ववे इति । ववाते वविरे । वविषे ववाथे [वविढ्वे] । वविध्वे । ववे वविवहे वविमहे । वातेति । लुटि तासि आत्त्वम् । वास्यति वास्यते । वयतु वयताम् । अवयत् अवयत । वयेत् वयेत । ऊयादिति । आशीर्लिङि यासुटि कित्त्वात्वचिस्वपी॑ति संप्रसारणे पूर्वरूपेअकृत्सार्वधातुकयो॑रिति दीर्ग इति भावः । वासीष्टेति । आशीर्लिङि आत्मनेपदे, सीयुटि आत्त्वे रूपम् । वासीयास्ताम् । अवासीदिति । आत्त्वे कृते इट्पकौ । अवास् इ स् ईदिति स्थितेइट ईटी॑ति सिज्लोपः । अवासिष्टामित्यादि । आत्मनेपदे — अवास्त अवासातामित्यादि । अवास्यत् अवास्यत । व्येञ् संवरणे इति । ञित्त्वादुभयपदी । अनिट् । व्ययति व्ययते इति । शपि अयादेशः । णलादौ तु आत्त्वे विव्यौ विव्यतुरित्यादि प्राप्तम् ।

Tattvabodhini

वेञः - वेञः । लिटि किम् । उतम् । उतवान् ।

Padamanjari

पूर्वं वश्चास्यग्रहणे क्रियमाणे’ल्यपि व्यो ज्यश्च’ इति एकयोग एव कर्तव्यः, एवं हि द्विश्चकारोऽपि न कर्तव्यो भवति ॥

Prakriyasarvasvam

वेञो लिटि ‘लिट्यभ्यासस्य—’ इति प्राप्तं कित्त्वात् प्राप्तं च प्रसारणं न स्यात् । ‘आत औ णलः । ववौ । कित्वाल्लोपः । ववतुः । थलि वेट् । इट्याल्लोपः । वविथ, ववाय । वव । ववौ । वविव । तङि ववे । वविषे । वविढ्वे, वविध्वे ।