61038: लिटि वयो यः

Padacheda: लिटि | S | 7 | 1 |

वयः | S | 6 | 1 |

यः | S | 6 | 1 |

Sutrartha


Vasu English Summary

In the substituted root वय (2.4.41), the य in the Perfect is not vocalised.

Vasu English Translation

In the substituted root वय (2.4.41), the य in the Perfect is not vocalised. The phrase न संप्रसारणं is understood here. Thus उवाय, ऊयतुः, ऊयुः ॥ The word लिट् is employed in this aphorism for the sake of subsequent sutras, this one could have done well without it even.

Kashika

न संप्रसारणमित्यनुवर्तते। लिटि परतो वयो यकारस्य संप्रसारणं न भवति। उवाय, ऊयतुः, ऊयुः। लिड्ग्रहणमुत्तरार्थम्॥

Siddhanta Kaumudi

वयो यस्य संप्रसारणं न स्याल्लिटि । ऊयतुः । ऊयुः ॥

Balamanorama

लिटि वयो यः - लिटि वयो । संप्रसारणं नेति ।न संप्रसारणे संप्रसारण॑मित्यतस्तदनुवृत्तेरिति भावः । तथा च यकारस्य संप्रसारणनिषेधे वकारस्य संप्रसारणमिति भावः । तदाह — ऊयतुरिति ।

Padamanjari

लिङ्ग्रहणमुतरार्थमिति। नेहार्थं लिटः; अन्यत्र वयादेशस्यासम्भवात् ॥

Nyaas

वयेद्र्वौ यणौ, तत्र पूर्वण वकारस्य सम्प्रसारणप्रतिषेधे प्राप्ते यकारस्यानेन सम्प्रसारणं लिटि प्रतिषिद्ध्यते। तत्र प्रतिषिद्धे यकारः सम्प्रसारणभाग्न भवतीति वकारस्य सम्प्रसारणं भवति धातोरभ्यासस्य च; तत्र धातोग्र्रह्रादिसूत्रेण (6.1.16) अभ्यासस्य लिटब्यासस्योभयेषाम् (6.1.17) इत्यनेन। अथ किमर्थं लिह्ग्रहणम्, यावता वयेरादेशस्य लिटोऽन्यत्र सम्भवो नास्ति, तद्विधौ लिटन्यतरस्याम् (2.4.40) इत्यतो लिङ्ग्रहणानुवृत्तेः, तत्सामर्थ्यादेव लिटि भविष्यति? इत्यत आह -लिङ्ग्रहणमुत्तरार्थम् इति। वेञः (6.1.39) इति प्रतिषेधो लिटि यथा स्यादित्येवमर्थं लिङ्ग्रहणम्॥

Prakriyasarvasvam

लिटि वयो यस्य प्रसारणं न स्यात् । यजिवत् ऊयतुः । ऊयुः । उवयिथ । ऊयथुः । ऊय । उवाय, उवय । ऊयिव । वयादेशस्य स्थानिवत्त्वात् तङपि । ऊये । ऊयाते । ऊयिषे । ऊयिढ्वे, ऊयिध्वे ।