61037: न सम्प्रसारणे सम्प्रसारणम्¶
Padacheda: न | S | 0 | 0 |
सम्प्रसारणे | S | 7 | 1 |
सम्प्रसारणम् | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
When a semi-vowel base has been vocalised, there is no vocalisation of the other semi-vowel that may precede it in the same word.
Vasu English Translation¶
When a semi-vowel base has been vocalised, there is no vocalisation of the other semi-vowel that may precede it in the same word. Thus व्यध्; has two semi-vowels व् and य्; when य् is once vocalised into इ, the preceding व will not be vocalised into उ ॥ Thus we have विद्धः ॥ From व्यच् — विचितः, व्येञ् — संवीतः ॥ Though the rule of vocalisation does not specify what particular semivowel is to be vocalised, yet according to the maxim that the operation is to be performed on the letter nearest to the operator, the second semivowel in the above cases is vocalised and the first is not, by force of this rule. Had the first semi-vowel been vocalised, then there would be no scope for this sutra, because then no semi-vowel will be found preceding a vocalised letter. This sutra is a jnapaka that the vocalisation commences with the second of the conjunct semi-vowels.
Though the anuvritti of संप्रसारण was understood here, the repetition of this word shows that the prohibition of double vocalisation in the same word applies even when the semivowels are not contiguous. Thus by (6.1.133) there is vocalisation of the word युवन्, the व being changed to उ, the य is not changed as यूना ॥ It might be objected that when the उ of यु, and उ the samprasarana of व coalesce into one by sandhi rules, then there being the substitution of one long ऊ for the two उ’s and this is sthanivat to the original, the य and व् of युवन् should be considered in fact as contiguous and not separated by an intervening letter, and therefore, the explanation given above does not hold good; we reply. The substitution of one long vowel for two vowels, is not considered sthanivat (See (l. 1.58)). Even though it be considered as sthanivat, it is still a separating letter.
Vart:- There is vocalisation of the semivowel of त्रि when followed by ऋच्, and there is elision of the ऋ of ऋच्, when it refers to Metres. As तिस्र ॠचो यस्मिन् = तृचं सुक्तं ॥ तृचं साम ॥ The word तृच् takes the samasanta affix अ by (5.4.74). Why do we say when referring to a metre? Observe त्यृचं कर्म ॥
Vart:- In the Chhandas there is diversely vocalisation of the semi-vowel of रयि followed by the affix मतुप् as रयि + मत् = रइ + मत् = र + इ + मत् = र + इ + वत् (8.2.15) = रवेत्; as, आ रेवानेतु नो विशः ॥ Sometimes it does not take place, as रयिमान् पुष्टिवर्द्धनः ॥ The म here is not changed to व as required by (8.2.15).
Vart:- There is vocalisation of कक्ष्या before मत् when a Name is meant: as कक्षीवन्तं य औशिजः ॥ This Vartika is unnecessary. See (8.2.12) where the form कक्षीवत् is given.
Bhashya¶
न संप्रसारणे संप्रसारणम् (2474) (सूत्रप्रयोजनभाष्यम्) किमर्थमिदमुच्यते ? वचिस्वपियजादीनां च ग्रहादीनां च संप्रसारणमुक्तम् । तत्र यावन्तो यणः सर्वेषां संप्रसारणं प्राप्नोति । इष्यते च परस्य यथा स्यान्न पूर्वस्य - इति । तच्चान्तरेण यत्नं न सिध्यतीति - न संप्रसारणे संप्रसारणम् । एवमर्थमिदमुच्यते ॥ किमन्येऽप्येवं विधयो न भवन्ति - अतो दीर्घो यञ्ञि सुपि च (7-3-101;102) इति, घटाभ्याम् । अकारमात्रस्य दीर्घत्वं कस्मान्न भवति ? अस्त्यत्र विशेषः । इयमत्र परिभाषोपतिष्ठते - अलोऽन्त्यस्य (1.1.52) इति । ननु चेदानीमेतया परिभाषयेहापि शक्यमुपस्थातुम् । नेत्याह । न हि वचिस्वपियजादीनां ग्रहादीनां चान्त्यो यणस्ति । एवं तर्ह्यनन्त्यविकारेऽन्त्यसदेशस्य कार्यं भवतीत्यन्त्यसदेशो यो यण् तस्य कार्यं भविष्यति । नैतस्याः परिभाषायाः सन्ति प्रयोजनानि ॥ (प्रयोजनाक्षेपभाष्यम्) एवं तर्ह्याचार्यप्रवृत्तिर्ज्ञापयति - न सर्वस्य यणः संप्रसारणं भवतीति यदयं प्यायः पीभावं शास्ति । कथं कृत्वा ज्ञापकम् ? पीभाववचन एतत्प्रयोजनम् - आपीनोऽन्धुः, आपीनमूधः - एतद् रूपं यथा स्यादिति । यदि चात्र सर्वस्य यणः संप्रसारणं स्यात् पीभाववचनमनर्थकं स्यात् । संप्रसारणे कृते संप्रसारणपरपूर्वत्वे द्वयोरिकारयोरेकादेशे सिद्धं रूपं स्यात् - आपीनोऽन्धुः, आपीनमूध इति । पश्यति त्वाचार्यः - न सर्वस्य यणः संप्रसारणं भवतीति ततः प्यायः पीभावं शास्ति ॥ (प्रत्याक्षेपभाष्यम्) नैतदस्ति ज्ञापकम् । सिद्धे हि विधिरारभ्यमाणो ज्ञापको भवति, न च प्यायः संप्रसारणेन सिध्यति । संप्रसारणे हि सत्यन्त्यस्य प्रसज्येत ॥ (प्रत्याक्षेपनिरासभाष्यम्) एवमपि ज्ञापकमेव । कथम् ? प्याय इति नैषा स्थानषष्ठी । का तर्हि ? विशेषणषष्ठी । प्यायो यो यणिति । तदेतज्ज्ञापयत्याचार्यः - न सर्वस्य यणः संप्रसारणं भवतीति यदयं प्यायः पीभावं शास्ति ॥ (आक्षेपसमर्थकभाष्यम्) एवमप्यनैकान्तिकमेतत् । एतावज्ज्ञाप्यते - न सर्वस्य यणः संप्रसारणं भवतीति । तत्र कुत एतत् परस्य भविष्यति न पूर्वस्येति ॥ उच्यमानेऽप्येतस्मिन् सूत्रे कुत एतत्परस्य भविष्यति न पुनः पूर्वस्येति । एकयोगलक्षणं खल्वपि संप्रसारणम्, तद्यदि तावत्परमभिनिर्वृत्तं पूर्वमप्यभिनिर्वृत्तमेव । प्रसक्तस्य चानभिनिर्वृत्तस्य प्रतिषेधेन निवृत्तिः शक्या कर्तुं नाभिनिर्वृत्तस्य । यो हि भुक्तवन्तं ब्रूयान्मा भुक्था इति, किं तेन कृतं स्यात् । अथापि पूर्वमनभिनिर्वृत्तं परमप्यनभिनिर्वृत्तमेव । तत्र निमित्तसंश्रयोऽनुपपन्नो न संप्रसारणे संप्रसारणमिति ॥ (आक्षेपनिवारकभाष्यम्) नैष दोषः । यत्तावदुच्यते - उच्यमानेऽप्येतस्मिन् कुत एतत्परस्य भविष्यति न पूर्वस्येति । इहेङि्गतेन चेष्टितेन निमिषितेन महता वा सूत्रप्रबन्धेनाचार्याणामभिप्रायो गम्यते । एतदेव ज्ञापयति - परस्य भविष्यति न पूर्वस्येति यदयं न संप्रसारणे संप्रसारणमिति प्रतिषेधं शास्ति ॥ यदप्युच्यते - एकयोगलक्षणं खल्वपि संप्रसारणं तद्यदि तावत्परमभिनिर्वृत्तं पूर्वमप्यभिनिर्वृत्तमेव प्रसक्तस्य चानभिनिर्वृत्तस्य प्रतिषेधेन निवृत्तिः शक्या कर्तुमिति । अस्तूभयोरभिनिर्वृत्तिः । न वयं पूर्वस्य प्रतिषेधं शिष्मः । किं तर्हि ? संप्रसारणाश्रयं यत् प्राप्नोति तस्य प्रतिषेधम् । ततः पूर्वत्वे प्रतिषिद्धे यणादेशेन सिद्धम् ॥ यदप्युच्यते - अथापि पूर्वमनभिनिर्वृत्तं परमप्यनभिनिर्वृत्तमेव तत्र निमित्तसंश्रयोऽनुपपन्न इति । तार्दथ्यात्ताच्छब्द्यं भविष्यति । तद्यथा - इन्द्रार्था स्थूणा - इन्द्र इति । एवमिहापि संप्रसारणार्थं संप्रसारणम् । तद्यत्प्रसारणार्थं प्रसारणं तस्मिन् प्रतिषेधो भविष्यति ॥ (वार्तिकावतरणभाष्यम्) अथ संप्रसारणमिति वर्तमाने पुनः संप्रसारणग्रहणं किमर्थम् ? (6043 पदकृत्यवार्तिकम् ॥ 1 ॥) - प्रसारणप्रकरणे पुनः प्रसारणग्रहणमतोऽन्यत्र प्रसारणप्रतिषेधार्थम् - प्रसारणमिति वर्तमाने पुनः संप्रसारणग्रहण एतत् प्रयोजनं विदेशस्थमपि यत् संप्रसारणं तस्यापि प्रतिषेधो यथा स्यात् - व्यथो लिटि (7.4.68) विव्यथे । नैतदस्ति प्रयोजनम् । हलादिशेषापवादोऽत्र संप्रसारणम् ॥ इदं तर्हि - श्वयुवमघोनामतद्धिते (6.4.133) यूना, यूने । उच्यमानेऽप्येतस्मिन्न सिध्यति । किं कारणम् ? उकारेण व्यवधानात् । एकादेशे कृते नास्ति व्यवधानम् । एकादेशः पूर्वविधौ स्थानिवद्भवतीति स्थानिवद्भावाद्व्यवधानमेव । एवं तर्हि - (6044 उपसंख्यानवार्तिकम् ॥ 2 ॥) - समानाङ्गग्रहणं च - समानाङ्गग्रहणं च कर्तव्यम् । न संप्रसारणे संप्रसारणं समानाङ्गे इति वक्तव्यम् ॥ (6045 उपसंख्याने दोषवार्तिकम् ॥ 3 ॥) - तत्रोपोषुषि दोषः - तत्रोपोषुषि दोषो भवति । उपोषुषा, उपोषुषे, उपोपुषि - इति ॥ (6046 दोषनिरासवार्तिकम् ॥ 4 ॥) - न वा यस्याङ्गस्य प्रसारणप्राप्तिस्तस्मिन् प्राप्तिप्रतिषेधात् - न वा एष दोषः । किं कारणम् ? यस्याङ्गस्य प्रसारणप्राप्तिस्तस्मिन् द्वितीया या प्राप्तिः सा प्रतिषिध्यते । अत्र च वसिः क्वसावङ्गम्, क्वस्वन्तं पुनर्विभक्तौ ॥ अथवा - यस्याङ्गस्य प्रसारणप्राप्तिरित्यनेन किं क्रियते ? यावद्ब्रूयात् प्रसक्तस्यानभिनिर्वृत्तस्य प्रतिषेधेन निवृत्तिः शक्या कर्तुमिति । अत्र च यदा वसेः, न तदा क्वसोः । यदा च क्वसोः, अभिनिर्वृत्तं तदा वसेर्भवति ॥ अथवा - यस्याङ्गस्य प्रसारणप्राप्तिरित्यनेन किं क्रियते ? यावद्ब्रूयादसिद्धं बहिरङ्गमन्तरङ्ग इति । असिद्धत्वाद्बहिरङ्गलक्षणस्य वसुसंप्रसारणस्यान्तरङ्गलक्षणः प्रतिषेधो न भविष्यति ॥ (6047 उपसंख्यानवार्तिकम् ॥ 5 ॥) - ऋचि त्रेरुत्तरपदादिलोपश्छन्दसि - ऋचि त्रेः संप्रसारणं वक्तव्यम्, उत्तरपदादिलोपश्छन्दसि वक्तव्यः । तृचं सूक्तम्, तृचं साम । छन्दसीति किम् ? त्यृचानि ॥ (6048 उपसंख्यानवार्तिकम् ॥ 6 ॥) - रयेर्मतौ बहुलम् - रयेर्मतौ संप्रसारणं बहुलं वक्तव्यम् । आरेवानेतु नो विशः । न च भवति - रयिमान् पुष्टिवर्धनः ॥ (6049 उपसंख्यानवार्तिकम् ॥ 7 ॥) - कक्ष्यायाः संज्ञायाम् - कक्ष्यायाः संज्ञायां मतौ संप्रसारणं कर्तव्यम् । कक्षीवन्तं य औशिजः । कण्वः - कक्षीवान् । संज्ञायामिति किमर्थम् ? कक्ष्यावान् हस्ती ॥
Kashika¶
संप्रसारणे परतः पूर्वस्य यणः संप्रसारणं न भवति। व्यध — विद्धः। व्यच — विचितः। व्येञ् — संवीतः। एकयोगलक्षणमपि संप्रसारणमत एव वचनात् प्रथमं परस्य यणः क्रियते, पूर्वस्य च प्रसक्तं प्रतिषिध्यते। संप्रसारणमिति वर्तमाने पुनः संप्रसारणग्रहणं विदेशस्थस्यापि संप्रसारणस्य प्रतिषेधो यथा स्यादिति। श्वयुवमघोनामतद्धिते (६.४.१३३) — यूनः। यूना। संप्रसारणग्रहणसामर्थ्यादेव पूर्वस्य प्रतिषेधे वक्तव्ये सवर्णदीर्घत्वमेकादेशो न स्थानिवद् भवति। सति वा स्थानिवत्त्वे व्यवधानमेतावदाश्रयिष्यते॥ ऋचि त्रेरुत्तरपदादिलोपश्छन्दसि॥ ऋचि परतस्त्रेः संप्रसारणं भवति, उत्तरपदादिलोपश्च छन्दसि विषये। तिस्र ऋचो यस्मिन् तत् तृचं सूक्तम्, तृचं साम। ऋक्पूरब्धूःपथामानक्षे (५.४.७४) इति समासान्तः। छन्दसीति किम् ? त्र्यृचं कर्म॥ रयेर्मतौ बहुलम्॥ रयिशब्दस्य छन्दसि विषये मतौ परतो बहुलं संप्रसारणं भवति। आ रेवानेतु नो विशः। न च भवति — रयि॒मान् पु॑ष्टि॒वर्ध॑नः (मा० सं० ३.४०)॥
Siddhanta Kaumudi¶
संप्रसारणे परतः पूर्वस्य यणः संप्रसारणं न स्यात् । इति यकारस्य नेत्वम् । अतएव ज्ञापकादन्त्यस्य यणः पूर्वं संप्रसारणम् । यूनः । यूना । युवभ्यामित्यादि । अर्वा । हे अर्वन् ॥
Laghu Siddhanta Kaumudi¶
संप्रसारणे परतः पूर्वस्य यणः संप्रसारणं न स्यात्। इति यकारस्य नेत्वम्। अत एव ज्ञापकादन्त्यस्य यणः पूर्वं संप्रसारणम्। यूनः। यूना। युवभ्याम् इत्यादि॥ अर्वा। हे अर्वन्॥
Balamanorama¶
न सम्प्रसारणे सम्प्रसारणम् - न संप्रसारणे । इति यकारस्येति । सवर्णदीर्घनिष्पन्नस्य ऊकारस्य ‘अचः परस्मिन्’ इति स्थानिवत्त्वेन संप्रसारणतया यकारस्य संप्रसारणपरकत्वान्न संप्रसारणमिकार इत्यर्थ#ः । ननूकारद्वयस्थानिकस्य ऊकारस्य स्थानिवत्त्वे सति तस्य उकारद्वयात्मकतया प्रथमेन उकारेण व्यवधानात्संप्रसारणपरत्वाऽभावात्कथमिह निषेधः ।येन नाव्यवधान॑मिति न्यायस्य तु नायं विषयः, विव्याथेत्यादौव्यथो लिटी॑ति वकारस्याऽव्यवहितसंप्रसारणपरत्वे निषेधस्य चरितार्थत्वादिति चेन्मैवम् । एवं हि सतिन संप्रसारणे संप्रसारण॑मिति निषेधस्यव्यथो लिटी॑ति संप्रसारणमात्रविषयकत्वमापद्येत । एवंच सतिव्यथो यो लिटी॑ति यकारग्रहणेनैव सिद्धेन संप्रसारणे संप्रसारण॑मिति सूत्रमनर्थकमेव स्यात् । अतःआयुवे॑ति संप्रसारणनिषेधकत्वमस्यावश्यकमिति व्यवहितेऽपि संप्रसारणे परे ‘यून’ इत्यादौ निषेधो निर्बाधः,यूनस्ति॑रित्यादिनिर्देशाच्चेत्यलम् । ननु सकृत्प्रवृत्त्यैव युवन्शब्दे यवयोः संप्रसारणे जाते निषेधो व्यर्थः । निमित्तत्वानुपपत्तिश्च । यद्वा प्रथमं यकारस्य संप्रसारणमस्तु । तदानीं संप्रसारणपरत्वाऽभावेन निषेधाऽप्रवृत्तेः । अनन्तरं तु वकारस्यापि संप्रसारणमस्तु । तत्राह — अत एव ज्ञापकादिति । अन्यथा एतन्निषेधारम्भवैयथ्र्यापातादिति भावः । इत्यादिति । यूने । यूनः, २ । यूनोः । यूनि ।आतो मनिन्क्वनिब्वनिपश्च॑,अन्येभ्योऽपि दृश्यते॑ इति ऋधातोर्वनिपि गुणे रपरत्वेऽर्वन्शब्दोऽओ योगरूढः ।
Tattvabodhini¶
न सम्प्रसारणे सम्प्रसारणम् - न संप्रसारणे ।ह्वः॑ संप्रसारण॒मित्यतः ॑संप्रसारणमित्यनुवर्तमानेऽपि पुनः सम्प्रसारणग्रहणात्प्रदेशान्तरस्थंआयुवमघोना॑मित्यपि संप्रसारणं निषिध्यते, तदाह — इति यकारस्य नेत्वमिति । यून इति । ननू कारेण व्यवधानात्कथमत्र निपेधः,विव्याध॒॑विव्यथे॑इत्यादावव्यवधानेऽपि निषेधस्य चरितार्थत्वात् । न च सम्प्रसारणग्रहणादेव व्यवधानमिति वाच्यम्,अचः परस्मि॑न्निति स्थानिवत्त्वात् । अत्राहुः — विदेशस्थानिषेधार्थत्पुनः सम्प्रसारणग्रहणादेव व्यवधानेऽप्यत्र निषेधोभविष्यतीत्यदोषः । न च॒व्यथो लिटी॑ति विदेशस्थेन यकारस्य संप्रसारणे कृते वकारस्य तदभावायन सम्प्रसारणे॑इति सूत्रं प्रवर्त्त्य पुनः संप्रसारणग्रहणं चरितार्थमिति व्यवधेने निषेधो न भविष्यतीति शङ्क्यं,व्यथो लिटी॑त्येतद्धलादिः शेषापवाद॒इत्याकरे स्पष्टत्वात् । ॑उत्सर्गसदेशश्चापवाद॒इति परस्यैव संप्रसारणं भवति न पूर्वस्ये॑ति कैयटेन व्याख्यातत्वाच्चेचि ।
Padamanjari¶
येषां सम्प्रसारणं विहितं तेषां यावन्तो यणस्तेषां सर्वेषां सम्प्रसारणे प्राप्ते प्रतिषेधोऽयमुच्यते। ननु चालोन्त्यपरिभाषयान्त्यस्यैव भविष्यति? नानया परिभाषया शक्यमिहोपस्थातुम्, वच्यादीनामन्त्यस्य यणोऽसम्भवात्। ठनन्त्यविकारेऽन्त्यसदेशस्यऽ इत्यनया परिभाषया तर्हि अन्त्यसदेशस्यैव भविष्यति, नेतरस्य? नैषास्ति परिभाषा; प्रयोजनाभावात्। एतच्चास्माभिः परिभाषाप्रकरणाख्ये ग्रन्थे उपपादितम्। एवं तर्हि ज्ञापकात्सिद्धम्, यदयं प्यायः पीभावं शास्ति, तज्ज्ञापयति -न सर्वस्य यणः सम्प्रसारणं भवतीति। यदि स्यात्, प्यायः सम्प्रसारणमेव विदध्यात्। द्वयोर्यकारयोः सम्प्रसारणे पूर्वत्वे च’हलः’ इति दीर्घत्वे च सिद्धं स्यात्पीनं मुखमिति। ननु च प्यायोऽन्त्य यणः। सम्भ्वाकतस्यैव स्यात्? स्यादेवं यदि’प्यायः’ इति स्थानषष्ठी विज्ञायेत, अवयवषष्ठी चैषा विज्ञास्यते -प्यायो यो यण् तस्येति। एवमप्येतावदेवानेन ज्ञाप्यते-न ज्ञाप्यते -न सर्वस्य यणः सम्प्रसारणं भवतीति, तत्र कुत् एतत् - परस्यैव भवति न पूर्वस्येति, न च विध्यतीत्यादिनिर्द्देशात्परस्यैवेति शक्यमवगन्तुम्? पर्यायेण प्रवृतावपि तदुपपतेः। तस्मादारभ्यमेवैतत्। ननु पूर्वपरयोर्यणोरेकयोगलक्षणं सम्प्रसारणं तद्यदि परस्याभिनिर्वृतं पूर्वस्याप्यभिनिर्वृतमेव, न चाभिनिर्वृतस्य प्रतिषेधेन निवृत्तिः शक्या विज्ञातुम्, यो हि भुक्तवन्तं ब्रूयाद् मा भुंक्था इति, किं तेन कृतं स्यात्! अथ पूर्वस्यानभिनिर्वृतं परस्याप्यनभिनिर्वृतमेव, तत्र निमित्त्वेनाश्रयणमनुपपन्नम्? इत्यत आह -एकयोगलक्षणमपीति। अपरः कल्पः - अस्तु द्वयोरप्यभिनिर्वृतम्, कथं तर्हि प्रतिषिद्ध्यते? न सम्प्रसारणं प्रतिषिद्ध्यते, किं तर्हि? तदाश्रयं पूर्वत्वम्। तदेव त्वत्र सम्प्रसारणशब्देनोपचारादुच्यते, तस्मिन्प्रतिषिद्धे यणादेशेन सिद्धमिष्टम्। अस्तु वा द्वयोरप्यनभिनिर्वृतम्। कथं तर्हि निमितत्वम्? नैवात्र सम्प्रसारणनिमितम्, किं तर्हि? तद्भावी यो यण् स एव च सप्तम्यन्तेन सम्प्रसारणशब्देनोच्यत इति। पुनः सम्प्रसारणग्रहणमिति। असति तस्मिन्, ठनन्तरस्य विधिर्वा भवति प्रतिषेधो वाऽ इति पूर्वप्रकरणविहितस्यैव सम्प्रसारणस्य प्रतिषेधः स्यान्न विदेशस्थस्य। विभिनन्नो देशःउविदेशः। सम्पब्रसारणग्रहणादेवेति। इह तु’व्यथो लिटि’ विव्यथे इति हलादिःशेषापवादः सम्प्रसारणम्, प्रकरणादुत्सर्गदेशश्चापवादो भवतीति परस्यैव संप्रसारणात्सिद्धम्। अत एव पुनः संप्रसारणाद्विदेशस्थेपि संप्रसारणे प्रतिषेध इतीष्टव्यम्, अन्यथा तत्रेति वाच्यं स्यात्। व्यवधानमेतावदाश्रयिष्यत इति। तेनोपपूर्वाद्वसेः’भाषायां सदवसश्रुवः’ इति लिटः क्वसौ विभक्तौ च परतो वसोस्सम्प्रसारणे उपेयुषेत्यादौ धातोः प्राप्तस्य यजादिलक्षणस्य संप्रसारणस्य प्रतिषेधो न भवति, प्रत्यक्षेण षकारेण व्यवदानादिति भावः। यदि तु व्यवधानमात्रे स्यात्, तदा समानाङ्गग्रहणं कर्तव्यम्। निमितनिमितिनौ यत्रैकस्मिन्नेवाङ्गे भवतः, तत्र प्रतिषेधो भवतीति वक्तव्यम्। उपेयुषीत्यत्र क्वसौ धातुरङ्गम्, क्वस्वन्तं च विभक्ताविति प्रतिषेधाभावः। अन्तरङ्गत्वाद्वाऽत्र पूर्वमेव धातोः सम्प्रसारणम्। ऋचि त्रेरिति। कल्पसूत्रकारास्तु द्विशब्दस्यापि सम्प्रसारणं प्रयुञ्जते -ठ्तृचाः प्रतिपदनुचराःऽ,’द्वचाः प्रगाथाः’ इति ॥
Nyaas¶
येषां सम्प्रसारमुक्तं तेषां यावन्तो यणः सम्भवन्ति तेषां सर्वेषां सम्प्रसारणं प्राप्तमिति प्रतिषेधोऽयमारभ्यते। ननु चालोऽन्त्यपरिभाषया (1.1.51) अन्त्यस्यैव भविष्यति, नानन्त्यस्य? नैतदस्ति; न ह्रनया परिभाषया शक्यमिहोपस्थातुम्। विचस्वपियजादीनामन्त्यस्य यणोऽसम्भवात्। एवं तर्हि अनन्त्यविकारेऽन्त्यसदेशस्य`(व्या।प।63) इत्यन्त्यसदेशस्य कार्यं भविष्यति -अन्त्यसदेशो यो यण्? तस्यैव कार्यं भविष्यति, नैतरस्य? नैषास्ति परिभाषा; प्रयोजनाभावात्। यदाह -तस्याः परिभाषाया सन्ति प्रयोजनातीति। तस्मात्? कर्तव्यमेतत्? सूत्रम्। ननु च पूर्वपरयोरेकयोगलक्षणं सम्प्रसारहणम्, ततो यदि तत्? परस्याभिनिर्वृत्तं तदा पूर्वस्याप्यभिनिर्वृत्तमेव, न चाभिनिर्वृत्तस्य निवृत्तिः शक्यते कर्त्तुम्, नाप्यनभिनिर्वृत्तस्य निमित्तत्वेनाश्रयणं युज्यते, ततोऽस्मादेव प्रतिषेधवचनात्? तत्? परस्य तावत्? क्रियते; तत्र कृते तु पूर्वस्यापि प्राप्तं प्रतिषिध्यते। अथ सम्प्रसारणमित्यनुवर्तमाने पुनः सम्प्रसारणं किमर्थम्? इत्याह -`सम्प्रसारणम् इत्यादि। असति पुनः सम्प्रसारणग्रहणे अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा (व्या। प।19) इति प्रकृतस्यैव सम्प्रसारणस्य प्रतिषेधः स्यात्, न विदेशस्थस्य। तस्माद्विदेशस्थस्यापि भिन्नप्रकारणविहितस्य प्रतिषेधो यथा स्यादित्येवमर्थं पुनः सम्प्रसारणग्रहणम्। यूनो यूना इति। सम्प्रसारणे कृते परपूर्वत्वे कृते च अकः सवर्णे दीर्घः (6.1.101) । ननु च क्रियमाणेऽपि पुनः सम्प्रसारणग्रहणे तत्र प्रतिषेधो न स्यात्, सवर्णदीर्घत्वस्य पूर्वविधौ स्थानिवद्भावे सत्युकारव्यवहितत्वात्? अत आह -सम्प्रसारणग्रहणसामर्थ्यदेव इत्यादि। यदि स्थानिवद्भावः स्यात्, अनर्थकं पुनः सम्प्रसारणग्रहणं स्यादित्यभिप्रायः। अभ्युपेत्य पुनः परिहारान्तरमाह -सति वा इत्यादि। सम्प्रसारणग्रहणसामर्थ्यादेवात्राश्रूयमाणोऽपिशास्तरान्तरेण स्थानिवद्भावमापन्नो योऽज्? व्यवधानं करोति, तन्मात्रेण व्यवधानं नाश्रयिष्यते -मा भूत्? सम्प्रसारणग्रहणमनर्थकमिति। ननु च यूनश्च कुत्सायाम्? (4.1.165) , `वृद्धो यूना (1.2.65) इति निपातनादेव यूनः, यूनेत्यत्र सम्प्रसारणं न भविष्यति, तत्? किमेतन्निवृत्त्यर्थेन पुनः सम्प्रसारणग्रहणेन? नैतदस्ति; अबाधकन्यपि निपातनानि भवन्तीत्युक्तम्। अपि चैतद्विषयमेव निपातनं विज्ञायते, तथा च -यूनः, यूना यूनीत्यत्र सम्प्रसारणं स्यादेवेति। आरेवान् इति। रयिरस्यास्तीति मतुप्। सम्प्रसारणे कृते आद्गुणः; (6.1.84) , छन्दसीरः (8.2.15) इति वत्वम्॥
Prakriyasarvasvam¶
सम्प्रसारणे परे पूर्वस्य यणः सम्प्रसारणं न । उतोस्सवर्णदीर्घः यूनः । यूना । यूना । युवभ्याम् । अर्वा ।।
Vartika¶
रयेर्मतौ बहुलम् ।