61036: अपस्पृधेथामानृचुरानृहुश्चिच्युषेतित्याजश्राताःश्रितमाशीराशीर्त्ताः

Padacheda: अपस्पृधेथाम् | T | | |

आनृचुः | T | | |

आनृहुः | T | | |

चिच्युषे | T | | |

तित्याज | T | | |

श्राताः | S | 1 | 3 |

श्रितम् | S | 1 | 1 |

आशीर् | S | 1 | 1 |

आशीर्त्ताः | S | 1 | 3 |

Sutrartha


Vasu English Summary

In the छन्दस् the following irregular forms are met with - अस्पृधेथाम् , आनृचुः , आनृहुः , चिच्युषे , तित्याज , श्राताः , श्रितम् , आशीः , आशीर्त्तः।

Vasu English Translation

In the छन्दस् the following irregular forms are met with - अस्पृधेथाम् , आनृचुः , आनृहुः , चिच्युषे , तित्याज , श्राताः , श्रितम् , आशीः , आशीर्त्तः। The word छन्दसि is understood here. From the root स्पर्द्ध ‘to challenge’, is formed अपस्पृधेथाम् being the Imperfect (लङ्), 2nd Person Dual, Atmanepada : there is reduplication of the root, vocalisation of र्, and the elision of अ irregularly. As, इन्द्रश्च विष्णो यदपस्पृधेथाम् ॥ In secular language the form is अस्पर्धेथाम् ॥ Some say, it is derived from स्पर्द्ध with the preposition अप, the vocalisation of र, the elision of अ, and the non-prefixing of the augment अट् in the Imperfect (6.4.75). The counter-example of this will be अपास्पर्द्धेथाम् ॥ From अर्च and अर्ह ‘to respect, to worship’, are derived आनृचुः and आनृहुः in the Perfect before the 3rd person plural उस्, there being vocalisation of र and the elision of अ irregularly. Then there is reduplication, then ॠ changed to अ, then the lengthening of this अ, then the addition of the augment म, as : अर्च् + उस् = ॠच् + उस् = ॠ + ॠच् + उस् + अ + ॠच् + उस् (7.4.66) = आ + ॠच् + उस् (7.4.70) = आ + न् + ॠच् + उस् (7.4.71) = आनृचुः ॥ The irregularity consists in the samprasarana with the elision of अ ॥ Thus यवग्रा अर्कमानृचुः, न वसून्यानृहुः ॥ The secular forms will be अनर्चुः, आनर्हुः ॥ The form चिच्युषे is the Perfect 2nd person singular of the root च्युङ् ‘to go’: there is vocalisation of the reduplicate, and the non-addition of the augment इट् before the affix से ॥ This is the irregularity. The regular form is चुच्युविषे ॥ The form तित्याज is the Perfect of त्यज्, the vocalisation of the reduplicate is the irregularity. The regular form is तत्याज ॥ From the root श्रीञ् ‘to cook’, is derived श्राता before the Nishtha affix, श्री changed to श्रा irregularly. As श्रातास्त इन्द्रसोमाः ॥ The form श्रितं is also derived from the same root by shortening the vowel with the same affix. As सोमो गौरी अधिश्रितः, श्रिता नो गृहाः ॥ Some say the श्रा substitution of श्री takes place when the word refers to सोम, in the plural, and श्रि when it refers to other than सोम ॥ Sometimes the word श्रातः is seen in the singular, referring to objects other than सोम । Thus यदि श्रातो जुहोतन ॥ In fact, the exhibition of the word श्राताः in the plural in the sutra is not absolutely necessary. The words आशीर् and आशीर्त्तः are from the same root श्री, with the prefix आङ् and taking the affixes क्विप् and क्त respectively. Before these श्री is replaced by शीर्, and the non-addition of न in the Nishtha is irregular. As, तामाशीरा दुहन्ति आशीर्त्त ऊर्ज्जम्, क्षीरैर्मध्यत आशीर्त्तः ॥

Bhashya

अपस्पृधेथामानृचुरानृहुश्चिच्युषे तित्याज श्राताः श्रितमाशीराशीर्ताः (2473) (निपातनोपदर्शकभाष्यम्) अपस्पृधेथामिति किं निपात्यते ? स्पर्धेर्लङ्यात्मनेपदानां मध्यमपुरुषस्य द्विवचने आथामि द्विर्वचनं संप्रसारणमकारलोपश्च निपात्यते । इन्द्रश्च विष्णो यदपस्पृधेथाम्, अस्पर्धेथामिति भाषायाम् ॥ अपर आह - अपपूर्वात्स्पर्धेर्लङ्यात्मनेपदानां मध्यमपुरुषस्य द्विवचने आथामि संप्रसारणमकारलोपश्च निपात्यते । इन्द्रश्च विष्णो यदपस्पृधेथाम्, अपास्पर्धेथामिति भाषायाम् ॥ श्राताः श्रितमिति किं निपात्यते ? श्रीणातेः क्ते श्राभावश्रिभावौ निपात्येते । क्व पुनः श्राभावः, क्व वा श्रिभावः ? सोमे श्राभावः, अन्यत्र श्रिभावः । न तर्हीदानीमिदं भवति - श्रितः सोम इति । बहुवचने श्राभावः ॥ न तर्हीदानीमिदं भवति - श्रिता नो ग्रहाः । सोमबहुत्वे श्राभावः, अन्यत्र श्रिभावः ॥

Kashika

छन्दसीति वर्तते। अपस्पृधेथामिति स्पर्ध संघर्षे इत्यस्य लङि आथामि द्विर्वचनं रेफस्य संप्रसारणमकारलोपश्च निपातनात्। इन्द्र॑श्च विष्णो॒ यदप॑स्पृधेथाम् (ऋ० ६.६९.८)। अस्पर्धेथामिति भाषायाम्। अपर आह — स्पर्धेरपपूर्वस्य लङ््याथामि संप्रसारणमकारलोपश्च निपातनात्। बहुलं छन्दस्यमाङ्योगेऽपि (६.४.७५) इत्यडागमाभावः। अत्र प्रत्युदाहरणमपास्पर्धेथामिति भाषायाम्। आनृचुरानृहुरिति। अर्च पूजायाम् अर्ह पूजायाम् अर्ह पूजायाम् इत्यनयोर्धात्वोर्लिट्युसि संप्रसारणमकारलोपश्च निपातनात्। ततो द्विर्वचनमुरदत्वम् अत आदेः (७.४.७०) इति दीर्घत्वम्। तस्मान्नुड् द्विहलः (७.४.७१) इति नुडागमः। य उ॒ग्रा अ॒र्कमा॑नृ॒चुः (ऋ० १.१९.४)। न वसू॑न्यानृ॒हुः (शौ० सं० २.३५.१)। आनर्चुः, आनर्हुरिति भाषायाम्। चिच्युषे। च्युङ् गतौ इत्यस्य धातोर्लिटि सेशब्देऽभ्यासस्य संप्रसारणमनिट् च निपातनात्। चिच्यु॒षे (ऋ० ४.३०.२२)। चुच्युविष इति भाषायाम्। तित्याज। त्यज हानौ इत्यस्य धातोर्लिट्यभ्यासस्य संप्रसारणं निपात्यते। ति॒त्याज॑ (ऋ० १०.७१.६)। तत्याजेति भाषायाम्। श्राता इति। श्रीञ् पाके इत्येतस्य धातोर्निष्ठायां श्राभावः। श्रा॒ता॑स्त॒ इन्द्र॒ सो॑माः॒ (मै० सं० १.९.१)। श्रितमिति। तस्यैव श्रीणातेर्ह्रस्वत्वम्। सोमो॑ गौ॒री अधि॑श्रि॒तः (ऋ० ९.१२.३)। श्रिता नो गृहाः। अनयोः श्राभावश्रिभावयोर्विषयविभागमिच्छन्ति — सोमेषु बहुषु श्राभाव एव, अन्यत्र श्रिभाव इति। सोमादन्यत्र क्वचिदेकस्मिन्नपि श्राभावो दृश्यते। यदि॑ श्रा॒तो जु॒होत॑न॒ (ऋ० १०.१७९.१)। तस्य श्राता इति बहुवचनस्या — विवक्षितत्वादुपसंग्रहो द्रष्टव्यः। आशीराशीर्त इति। तस्यैव श्रीणातेराङ्पूर्वस्य क्विपि निष्ठायां च शीरादेशः, निष्ठायाश्च नत्वाभावो निपातनात्। तामाशीरा दुहन्ति। आशीर्त ऊर्जम्। क्षी॒रैर्म॑ध्य॒त आशी॑र्तः (ऋ० ८.२.९)॥

Siddhanta Kaumudi

एते छन्दसि निपात्यन्ते । इन्द्रश्च विष्णो यदपस्पृधेयाम् (इन्द्र॑श्च विष्णो॒ यदप॑स्पृधेयाम्) । स्पर्धेर्लङि आथाम् । अर्कमानृचुः (अ॒र्कमा॑नृ॒चुः) । वसून्यानृहुः । अर्चेरर्हेश्च लिट्युसि । चिच्युषे (चि॒च्युषे॑) । च्युङो लिटि थासि । यस्तित्याज (यस्ति॒त्याज॑) । त्यजेर्णलि । श्रातास्त इन्द्र सोमाः (श्रा॒तास्त॑ इन्द्र॒ सोमाः॑) । श्रिता नो ग्रहाः । श्रीञ् पाके निष्ठायाम् । आशीरं दुहे (आ॒शीरं॑ दु॒हे) । मध्यत आशीर्तः (म॒ध्य॒त आशी॑र्तः) । श्रीञ् एव क्विपि निष्ठायां च ॥

Padamanjari

अपर आहेति। कस्याञ्चिच्छाखायामपस्पृधेथामित्याद्यौदातं पठ।ल्ते, अन्यस्यां तु पदद्वयम्, उभयमप्यनेन निपातनेन संगृह्यते। तत्रैकपद्ये’तिङ्ङतिङः’ इति निघातः प्राप्तः,’यद्वृतान्नित्यम्’ इति प्रतिषिद्धः। तत्राट्स्वरेणाद्यौदातं पदं भवति। यदा तु द्वे पदे, तदा निघातप्रतिषेधे’तास्यनुदातेत्’ इति लसार्वधातुकानुदातत्वे धातुस्वरेण स्पृधेथामिति पदमाद्यौदातम्’तिङ् चोदातिवति’ इत्यपशब्दस्य निघातः। बहुवचनस्याविवक्षितत्वादिति। सोमस्यैव बहुत्वे श्राभाव इति नियमानाश्रयणाच्च, अन्यथा बहुत्वातविवक्षायामपि सोमादन्यत्र श्राभावो न स्याद् विषयविभागवादितनाम् ॥

Nyaas

अकारलोपश्च इति। धातोरवयवो योऽकारस्तस्य निपातनाल्लोपः। अपास्पद्धैथाम् इति। अपाकारस्य आटश्च (6.1.87) इति सवर्णदीर्घत्वम्। विषयविभागमिच्छति इति। स च निपातनसामर्थ्यालल्लभ्यत इति वेदितव्यम्। यदिक्वचिदप्येकस्मिन्? श्राभावो दृश्यते, तदर्थं तर्हि यत्नान्तरमास्थेयम्। न हि श्राता इत्यनेनैतदपि सिद्धयति; सूत्रे बहुवचननिर्देशात्। अत आह -तस्य इत्यादि॥

Prakriyasarvasvam

स्पर्धेर्ल५ङि आथामि । इन्द्रश्च विष्णो यदपस्पृधेथाम् । शाखान्तरे पदद्वयात् त्ववपूर्वात् स्पर्धेर्लङीत्याहुः । अर्चार्हौ लिटि उसि—ते स्याम य आनृचुः । आर्कमानृचुः । न वसून्यानृहुः । च्युङो लिटि थासि चिच्युषे । यस्ता विश्वानि चिच्युषे । त्यजेर्लिटि । यस्तित्याज । श्रीञ् । पाके इत्यस्यक्ते श्राता श्रितमिति च । श्राता इति बहुत्वमविवक्षितम् । श्रातं हविरेष्विन्द्रः । सोमो गौरीअधिश्रितः । श्रीञ एव क्विपि क्ते च । इन्द्राय माव आशिरम् । क्षीरैर्मथ्यत आशीर्त्तः ।<!रयेर्मतौ बहुलं!> (वा. ६-१-३७) छन्दसि धनार्थ रयेर्मतौ बहुलं सम्प्रसारणं स्यात् । पूर्वरूपम् । आद्गुणः । रेवन्तं हित्वा शृणोमि । अत्र रयिशब्दस्य इवर्णान्तत्वात् छन्दसीरः (८-२-१५) इति मतोर्बत्वम् । रेफान्ताच्च परस्य मतोर्वत्वं स्यादित्यर्थः । बहुलोक्तेः क्वचित् सम्प्रसारणं न । यो रयिवः । अत्र ‘मतुवसोः’ - (८-३-१) इति रुत्वम् । वत्वस्य क्वाचित्कत्वात् अर्वन्तो वा ये रयिमन्तः ।