61035: चायः की

Padacheda: चायः | S | 6 | 1 |

की | S | | | 1

Sutrartha


Vasu English Summary

For चाय् is diversely substituted की in the छन्दस्।

Vasu English Translation

For चाय् is diversely substituted की in the छन्दस्। Thus विधुना निचिक्युः, नान्यं चिक्युर्न निचिक्युरन्यम् ॥ These are forms ending in the affix उस् of the Perfect. Sometimes there is no substitution. As अग्निर्ज्योतिर्निचाय्यः ॥

Kashika

बहुलं छन्दसीति वर्तते। चायतेर्धातोश्छन्दसि विषये बहुलं कीत्ययमादेशो भवति। वि॒यन्ता॒ न्य१॒॑न्यं चि॒क्युर्न नि चि॑क्युर॒न्यम् (ऋ० १.१६४.३८)। लिट्युसि रूपम्। न भवति — अ॒ग्निर्ज्योति॑र्नि॒चाय्य॑ (मा० सं० ११.१)॥

Siddhanta Kaumudi

न्यंन्यं चिक्युर्न निचिक्युरन्यम् (न्यं1न्यं चि॒क्युर्न निचि॑क्युर॒न्यम्) । लिटि उसि रूपम् । बहुलग्रहणानुवृत्तेर्नेह । अग्निं ज्योतिर्निचाय्य (अ॒ग्निं ज्योति॒र्नि॒चाय्य॑) ॥

Nyaas

निचिक्यु इति। एरनेकाचः (6.4.82) इत्यादिना यणादेशः। निचाय्य इति। ल्यबन्तमेतत्। दीर्घोच्चारणं चिकीवानित्यत्र दीर्घस्य श्रवणार्थम्। इदं क्वसौ रूपम्॥

Prakriyasarvasvam

बहुलं स्यात् । न्याश अन्यं चिवयुः । क्वसौ चिकीवान् । क्वचिन्न । उज्जिहीते निचाय्य । ल्यबयम् ।