61034: बहुलं छन्दसि

Padacheda: बहुलम् | S | 1 | 1 |

छन्दसि | S | 7 | 1 |

Sutrartha


Vasu English Summary

In the छन्दस् , the semi-vowel of this root is diversely vocalised.

Vasu English Translation

In the छन्दस् , the semi-vowel of this root is diversely vocalised. Thus हुवे or ह्वयामि, as इन्द्राग्नी हुवे ‘Invoke Indra and Agni’. देवीं सरस्वतीं हुवे ॥ The form हुवे is Atmanepada, Present tense, Ist Person singular the vikarana शप् is elided, then there is vocalisation and substitution of उवङ् ॥ So also ह्वयामि मरुतः शिवान्, ह्वयामि विश्वान् देवान् ॥ So also हवः as श्रुधीहवम् (Rig I.2.1.) ‘hear the invocation’.

Kashika

ह्व इति वर्तते। छन्दसि विषये ह्वयतेर्धातोर्बहुलं संप्रसारणं भवति। इ॒न्द्रा॒ग्नी…हु॒वे (ऋ० ५.४.६.३)। देवीं सरस्वतीं हुवे। ह्वेञो लट्यात्मनेपदोत्तमैकवचने बहुलं छन्दसि (२.४.७३) इति शपो लुकि कृते संप्रसारणमुवङादेशश्च। न च भवति — ह्वयामि मरुतः शिवान्। ह्वया॑मि (विश्वान्)दे॒वान् (ऋ० ७.३.४.८)॥

Siddhanta Kaumudi

ह्वः संप्रसारणं स्यात् । इन्द्रमाहुव ऊतये (इन्द्र॒माहु॑व ऊ॒तये॑) ।<!ऋचि त्रेरुत्तरपदादिलोपश्च छन्दसि !> (वार्तिकम्) ॥ ऋच्शब्दे परेत्रेः संप्रसारणुत्तरपदादेर्लोपश्चेति वक्तव्यम् । तृचं सूक्तम् । छन्दसि किम । त्र्यृचानि ।<!रयेर्मतौ बहुलम् !> (वार्तिकम्) ॥ रेवान् । रयिमान्पुष्टिबर्धनः (रयि॒मान्पु॑ष्टि॒बर्ध॑नः) ॥

Prakriyasarvasvam

ह्वः सम्प्रसारणं बहुलं स्यात् । हुवे३ (व?) । ह्वयतेर्लटि तङि अदिप्रभृतिभ्यः शपो ‘बहुलं छन्दसि’ (२-४-७३) इति शब्लुकि सार्वधातुकस्येटो डित्वादुवङ् । बहुलोक्तेः उपह्व४ये सुहवम् ।