61021: चायः की ============== **Padacheda:** चायः | S | 6 | 1 | की | S | | | 1 Sutrartha --------- **** Vasu English Summary -------------------- The verb की is substituted for the verb चायृ 'to worship, to observe', when the Intensive affix यङ् follows. Vasu English Translation ------------------------ The verb की is substituted for the verb चायृ 'to worship, to observe', when the Intensive affix यङ् follows. The phrase यङि is understood here. Thus चेकीयते, चेकीयेते, चेकीयन्ते ॥ The exhibition of की in the *sutra* with a long ई indicates that there is long vowel even in tenses where यङ् is elided, as चेकीतः ॥ For if the *sutra* had enunciated कि with a short इ as the substitute of चाय्, the forms चेकीयते &c would have been still valid. Thus कि + यङ् = चि + कि + य = चे + कि + य = चे + की + य (7.4.25) causing the lengthening of the short इ). But then the *Nishtha* would have been चेकितः which is wrong. Kashika ------- यङीति वर्तते। **चायृ पूजानिशामनयोः** इत्येतस्य धातोर्यङि परतः कीत्ययमादेशो भवति। चेकीयते, चेकीयेते, चेकीयन्ते। दीर्घोच्चारणं यङ्लुगर्थम्। चेकीतः॥ Siddhanta Kaumudi ----------------- चेकीयते ॥ Padamanjari ----------- कीति दीर्घोच्चारणमनर्थकम्, ह्रस्वादेशेऽपि ठकृत्सार्वधातुकयोःऽ इति दीर्घस्य सिद्धत्वात्? तत्राह -दीर्घाच्चारणमित्यादि। कथं पुनर्यङ्च्यमान आदेशो यङ्लुकि स्यात्? प्रत्ययलक्षणेन।'न लुमताङ्गस्य' ? एवं तर्हि दीर्घोच्चारणसामर्थ्याल्लुक्यपि भविष्यति, पूर्वसूत्रविहितं तु प्रसारणं यङ्लुकि न भवत्येव। न च'सम्प्रसारणाश्रयं च कार्यं बलवत्' इति प्रागेव लुकः सम्प्रसारणम्; प्रत्याथ्यातत्वादस्याः परिभाषायाः। तथा च पूर्वत्रोभयेषां ग्रहणं कृतम्, अनयताऽनयैव परिभाषया हलादिशेषात्प्रगेव सम्प्रसारणं भविष्यतीत्यनर्थकं तत्स्यात्। सास्वपीति, सास्वप्ति। सास्वप्तः, साश्वपीतः। वाव्येति, वाव्याति ॥ Nyaas ----- अथ किमर्थं दीर्घोच्चारणम्, यावता ह्रस्वादेशेऽपि `अकृत्सार्वधातुकयोः` (7.4.25) इति दीर्घत्वेन चेकीयत इति सिद्धत्येव? इत्याह -`दीर्घोच्चारणम्` इत्यादि। कथं पुनः `यङि च` (7.4.30) इत्युच्यमाने आदेशो यङ्लुकि स्यात्? प्रत्ययलक्षणेन स्यात्। अथापि **न लुमताङ्गस्य** (1.1.63) इति प्रत्ययलक्षणं प्रतिषिध्यते? एवमप्यस्मादेव दीर्घोच्चारमाद्यङ्लुकि भवतीति विज्ञायते, अन्यथा तदपार्थकं स्यात्!`चेकीतः` इति। तसन्तमेतत्। **यङोऽचि च** (2.4.74) इति यङो लुक्॥ Prakriyasarvasvam ----------------- चायतेर्यङि की स्यात् । चेकीयते । 'लिङ्यङोश्च' (६-१-२९) इति प्यायः पी । पेपीयते । 'विभाषा श्वेः' (६-१-३०) इति वा प्रसारणम् । 'हलः' (६-४-२) इति दीर्घः । द्वित्वम् । शोशूयते । प्रसारणाभावे तु 'अकृत्सार्वधातुकयोः—' (७-४-२५) इति दीर्घः । शेश्वीयते । एवं स्तुञादेरपि अकृत् (७-४-२५) इति दीर्घः । तोष्टूयते । जेजीयते । 'घमास्था—' (६-४-६६) इतीत्वे कृते द्वित्वम् । देदीयते । देधीयते । मेमीयते । तेष्ठीयते । जेगीयते । पेपीयते । जेहीयते । सेषीयते । हाङ्स्तु इत्वाभावाद् जाहायते । 'अयङ् यि क्ङिति' (७-४-२२) इति शीङो यङि शय्य इत्यस्य द्वित्वम् । शाशय्यते ।