54122: नित्यमसिच् प्रजामेधयोः ============================= **Padacheda:** नित्यम् | S | 1 | 1 | असिच् | S | 1 | 1 | प्रजामेधयोः | S | 6 | 2 | Sutrartha --------- **** Vasu English Summary -------------------- The affix असिच् (अस्) comes invariably after 1. प्रजा and 2. मेधा final in a बहुव्रीहि समास when the above particles 1. नञ् 2. दुस् and 3. सु precede them. Vasu English Translation ------------------------ The affix असिच् (अस्) comes invariably after 1. प्रजा and 2. मेधा final in a बहुव्रीहि समास when the above particles 1. नञ् 2. दुस् and 3. सु precede them. Thus अविद्यमाना प्रजाऽस्य = अप्रजस् nom. s. अप्रजा, so also दुष्प्रजा, सुप्रजा, अमेधा, दुर्मेधा, सुमेधा ॥ The word "invariably" (नित्य) shows that the *anuvritti* of the word "optionally" of the last *sutra* does not run here. The word *nitya* also indicates that the affix *ach* comes after *praja* and *medha* even when preceded by other words. As: श्रोत्रियस्येव ते राजन्मन्दकस्याल्पमेधसः अनुवाकहता बुद्धिर्नैषा तत्त्वार्थदर्शिनी ॥ Kashika ------- नञ्दुस्सुभ्य इत्येव। नञ् दुस् सु इत्येतेभ्यः परौ यौ प्रजामेधाशब्दौ तदन्तात् बहुव्रीहेर्नित्यमसिच् प्रत्ययो भवति समासान्तः। अविद्यमाना प्रजास्य अप्रजाः। दुष्प्रजाः। सुप्रजाः। अविद्यमाना मेधास्य अमेधाः। दुर्मधाः। सुमेधाः। नित्यग्रहणं किम् ? यावता पूर्वसूत्रेऽन्यतरस्यांग्रहणं नैव स्वर्यते? एवं तर्हि नित्यग्रहणादन्यत्रापि भवतीति सूच्यते। श्रोत्रियस्येव ते राजन् मन्दकस्याल्पमेधसः। अनुवाकहता बुद्धिर्नैषा तत्त्वार्थदर्शिनी ॥ Siddhanta Kaumudi ----------------- नञ्दुः सुभ्य इत्येव । अप्रजाः । दुष्प्रजाः । सुप्रजाः । अमेधाः । दुर्मेधाः । सुमेधाः ॥ Balamanorama ------------ **नित्यमसिच् प्रजामेधयोः** - नित्यमसिच् । नञ्दुःसुभ्य इत्येवेति । पूर्वसूत्रादनुवर्तत इति भावः । एतेभ्यः पराभ्यां प्रजामेधाशब्दाभ्यां नित्यमसिच्समासान्त स्यात्, स तद्धित इत्यर्थः । असिचस्चकार इत् । इकार उच्चारणार्थः ।अन्यतरस्या॑मित्यनुवृत्तिनिवृत्त्यर्थं नित्यग्रहणम् । अस्वरितत्वादेव तदनुवृत्त्यभावे सिद्धे स्पष्टार्थमिति तत्त्वम् । अप्रजा इति । अविद्यमाना प्रजा यस्येति विग्रहः ।नञोऽस्त्यर्थाना॑मिति समासः । असिचियस्येति चे॑त्यकारलोपादप्रजस्शब्दात्सुबुत्पत्तिः । सौ तुअत्वसन्तस्ये॑ति दीर्घः ।हळ्ङ्या॑बिति सुलोपः । यद्यप्यकारं विना सिचि विहितेऽपि सिद्धमिदन्तथापि सिच्यभत्वेन आकारलोपाऽभावादप्रजास्शब्दात्सुबुत्पत्तौ, प्रथमैकवचने 'अप्रजा' इति रूपसिद्धावपि अप्रजासाविति न स्यात् । किंतु अप्रजासावित्यादि स्यात् । तस्मादकारोच्चारमं भत्वसंपादनार्थमावश्यकम् । दुष्प्रजा इति । दुर्गता प्रजा यस्येति विग्रहः ।प्रादिभ्यो धातुजस्ये॑ति समासः । असिजादि पूर्ववत् । अमेधा इत्यादि.अविद्यमानां मेधा यस्येति विग्रहः । असिजादि पूर्ववत् । केचित्तु नित्यग्रहणमन्यतो विदानार्थं तेनाल्पमेधस इत्यादि सिध्यतीत्यप्याहुः । Tattvabodhini ------------- **नित्यमसिच् प्रजामेधयोः** - नित्यमसिच् । अकारोच्चारणं भत्वसम्पादनार्थम्, ते नसुप्रजसावित्यादौयस्येति चे॑ त्यकारलोपः सिध्यति । अस्वरितत्वादेव अन्यतरस्याङ्ग्रहणा ननुवृत्तिसिद्धौ नित्यग्रहणमन्यतो विधानार्थम् । तेनअल्पमेधस॑इति सिध्यतीति वृत्तिकारादयः । Padamanjari ----------- असेवायं न विहितः, सकास्येत्संज्ञा मा भूदिति। एवं तर्हीत्यादि। भाष्ये एतन्नाश्रितम्। चित्करणम् - दुःप्रजाः, दुर्मेधा इत्यत्रान्तोदातार्थम्। अन्यत्र'नञ्सुभ्याम्' इत्येव सिद्धम् ॥ Nyaas ----- `एवं तर्हि नित्यग्रहणेनान्यत्रापि सूच्यते` इति। ग्रन्ताधिक्यादर्थाधिक्यं भवतीति कृत्वा। असिचश्चित्करणं दुष्प्रजाः, दुर्मेधा इत्यन्तोदात्तत्वं यथा स्यात्? अप्रजाः, इत्यादौ तु नार्थश्चित्करणेन; **नञ्सुभ्याम्** (6.2.172) इत्यनेनैवोत्तरपदान्तोदात्तत्वस्य सिद्धत्वात्॥ Prakriyasarvasvam ----------------- नञ्दुःसुभ्योऽनयोर्नित्यमसिच् स्यात् । अप्रजाः । दुष्प्रजाः । सुप्रजाः । अमेधाः । दुर्मेधाः । सुमेधाः । 'अन्यत्राप्यस्तीति वृत्त्युक्त्या 'मन्दालपाभ्यां च मेधायाः (स० ५-४-१४४) इति भोजवर्द्धमानोक्त्या च मन्दमेधाः । अल्पमेधाः ॥ Sutra Prayogas -------------- * **सुप्रजसि** (रघुवंशम्): `नित्यमसिच्प्रजामेधयोः` इत्यसिच्प्रत्ययः। * **सुमेधसा** (किरातार्जुनीयम्): `नित्यमसिच्प्रजामेधयोः` इत्यसिच्प्रत्ययः।