54110: नदीपौर्णमास्याग्रहायणीभ्यः

Padacheda: नदी-पौर्णमासी-आग्रहायणीभ्यः | S | 5 | 3 |

Sutrartha

यस्य अव्ययीभावसमासस्य अन्ते ‘नदी’, ‘पौर्णमासी’, ‘आग्रहायणी’ एतेषु कश्चन शब्दः विद्यते, तस्मात् विकल्पेन ‘टच्’ इति समासान्तप्रत्ययः भवति ।

यस्य अव्ययीभावसमासस्य अन्ते ‘नदी’, ‘पौर्णमासी’, ‘आग्रहायणी’ एतेषु किञ्चन पदमस्ति तस्मात् ‘टच्’ इति समासान्तप्रत्ययः विकल्पेन भवति । यथा - 1. नद्याः समीपम् = उप + नदी + टच् [वैकल्पिकः टच्-प्रत्ययः] → उप + नद् + अ [यस्येति च (6.4.148) इति टिलोपः] → उपनद पक्षे टच्-प्रत्ययं विना ‘उपनदि’ इत्यपि रूपं सिद्ध्यति । (ह्रस्वो नपुंसके प्रातिपदिकस्य (1.2.47) इति ह्रस्वादेशः विधीयते) । नद्याः समीपमुपनदमुपनदि वा । एवमेव - 2. पौर्णमास्याः समीपमुपपौर्णमासम् उपपौर्णिमासि वा । 3. आग्रहायण्याः समीपमुपाग्रहायणम्, उपाग्रहायणि वा । स्मर्तव्यम् - अदन्त-अव्ययीभाव-समासात् विहितस्य विभक्तिप्रत्ययस्य नाव्ययीभावादतोऽम्त्वपञ्चम्याः (2.4.83) इत्यनेन अम्-आदेशः भवति ।

Vasu English Summary

The affix टच् comes optionally after an अव्ययीभाव समास ending in 1. नदी 2. पौर्णमासी and 3. आग्रहायणि।

Vasu English Translation

The affix टच् comes optionally after an अव्ययीभाव समास ending in 1. नदी 2. पौर्णमासी and 3. आग्रहायणि। Thus नद्याः समीपम् = उपनदम् or उपनदि, उपपौर्णमासम् or उपपौर्णमासि, उपाग्रहायणम् or उपाग्रहायणि ॥

Kashika

नदी पौर्णमासी आग्रहायणी इत्येवमन्तादव्ययीभावादन्यतरस्यां टच् प्रत्ययो भवति। नद्याः समीपम् उपनदम्, उपनदि। उपपौर्णमासम्, उपपौर्णमासि। उपाग्रहायणम्, उपाग्रहायणि॥

Siddhanta Kaumudi

वा टच् स्यात् । उपनदम् । उपनदि । उपपौर्णमासम् । उपपौर्णमासि । उपाग्रहायणम् । उपाग्रहायणि ॥

Balamanorama

नदीपौर्णमास्याग्रहायणीभ्यः - नदीपौर्णमासी । शेषपूरणेन सूत्रं व्याचष्टे-वा टजिति ।अन्यतरस्या॑मितिट॑जिति चानुवर्तत इति भावः । नदी पौर्णमासी आग्रहायणी-एतदन्तादव्ययीभावसमासाट्टज्वा स्यादिति यावत् । अत्र नदीसंज्ञकस्य न ग्रहणम्, पौर्णमास्याग्रहायणीग्रहणाल्लिङ्गात् । उपनदमिति । नद्याः समीपमित्यर्थः । सामीप्ये उपेत्यस्याव्ययीभावसमासः । टच् । ‘यस्येति च’ इतीकारलोपः । उपनदशब्दात्सुप् । अम्भाव इति भावः । उपनदीति । टजभावे रूपम् । नपुंसकह्रस्वः । ‘अव्ययादाप्सुपः’ इति लुक् । उपपौर्णमासमिति । पौर्णमास्याः समीपमित्यर्थः । टचि उपनदमितिवद्रूपम् । उपपौर्णमासीति । टजभावे रूपम् । एवम् — उपाग्रहायणमुपाग्रहायणीति ज्ञेयम् । अग्रे हायनमस्याः । आग्रहायणी=मार्गशीर्षपौर्णमासी । अत ऊध्र्वं मकरायनप्रवृत्त्या उदगयनप्रवृत्तेः । उदगयनादिरेव हि संवत्सरस्यादिः ।अयन द्वे गतिरुदग्दक्षिणार्कस्य वत्सरः॑ इति प्रसिद्धेः ।

Tattvabodhini

नदीपौर्णमास्याग्रहायणीभ्यः - नदीपौर्ण । इह स्वरूपस्यैव ग्रहणं न संज्ञायाः, पौर्णमास्याग्रहायण्योः पृथग्ग्रहणात् । उपनदीति । टचभावे नपुंसकह्रस्वः । अत्र व्याचक्षते — ॒वृत्तिग्रन्थमनुरुध्येदं विकल्पकथनम् । परमार्थतस्तु नेहान्यतरस्यामित्यनुवर्तते ।बहुगणे॑ति सूत्रस्थभाष्यविरोधात् । तत्र हि — नदीशब्देन नदीविशेषाणां गङ्गायमुनादीनां ग्रहणमाशङ्क्य शरत्प्रभृतिषु विपाट्शब्दपाठान्नेति समाहितम् । न चेदं भाष्यंनदीपौर्णमासी॑त्यत्र टचः पाक्षिकत्वे सङ्गच्छते,नित्यार्थतया तत्पाठस्योपपत्तेः । अतएव सेनकग्रहणमुत्तरत्राऽर्थवत् । कैयटस्तु व्यवस्थितविभाषामाश्रित्य वृत्तिग्रन्थं कथंचित्समर्थितवानिति ।

Padamanjari

‘नदि’ इति स्वरूपग्रहणम्, न संज्ञायाः; पौर्णमास्याग्रहायण्योः पृथग्ग्रहणात् ॥

Nyaas

नदीग्रहणेन स्वरूपं गृह्रते, न संज्ञा। यदि संज्ञा गृह्रेत, पौर्णमास्याग्रहायणीग्रहणं न कुर्यात्। ननु च नियमार्थमेतत्? स्यात्? ईकारान्तस्यापि नद्योः पौर्णमास्याग्रहायण्योरेव भवतीति? नैतदस्ति; यद्येतत्? प्रयोजनं स्यात्? पौर्णमास्याग्रहायणी इत्येवं ब्राऊयात्। तस्मात् स्वरपग्रहणमिति। उपनदि इति गोस्त्रियोरुपसर्जनस्य (1.2.48) इति ह्रस्वः॥

Praudhamanorama

इह स्वरूस्यैव ग्रहणं न संज्ञायाः पौर्णमास्याग्रहायण्योः पृथग्ग्रहणात्।

Prakriyasarvasvam

एभ्योऽव्ययीभावे टज् वा । उपनदम् उपनदि । अधिपौर्णमासम्, अधि- पौर्णमासि । उपाग्रहायणम्, उपाग्रहायणि ॥