54108: अनश्च¶
Padacheda: अनः | S | 5 | 1 |
च | S | 0 | 0 |
Sutrartha¶
यस्य अव्ययीभावसमासस्य अन्ते ‘अन्’ इति विद्यते तस्मात् टच् इति समासान्तप्रत्ययः भवति ।
यस्य अव्ययीभावसमासस्य उत्तरपदम् ‘अन्’ इत्यनेन समाप्यते, तस्मात् ‘टच्’ इति समासान्तप्रत्ययः भवति । कानिचन उदाहरणानि एतानि - 1. राजानं प्रति = प्रति + राजन् + टच् [वर्तमानसूत्रेण टच्-प्रत्ययः] → प्रति + राज् + अ [नस्तद्धिते (6.4.144) इति टिलोपः] → प्रतिराज । राजानं प्रति प्रतिराजम् । 2. आत्मनि इत्येव = अधि + आत्मन् + टच् [वर्तमानसूत्रेण टच्-प्रत्ययः] → अध्यात्मन् + टच् [इको यणचि (6.1.77) इति यणादेशः] → अध्यात्म् + अ [नस्तद्धिते (6.4.144) इति टिलोपः] → अध्यात्म । आत्मनि इत्येव अध्यात्मम् । 3. पञ्चानाम् समीपम् = उप + पञ्चन् + टच् [वर्तमानसूत्रेण टच्-प्रत्ययः] → उप + पञ्च् + अ [नस्तद्धिते (6.4.144) इति टिलोपः] → उपपञ्च पञ्चानां समीपम् उपपञ्चम् । स्मर्तव्यम् - 1. यदि अन्नन्तः शब्दः नपुंसकलिङ्गवाची अस्ति, तर्हि नपुंसकादन्यतरस्याम् इत्यनेन अग्रिमसूत्रेण टच्-प्रत्ययः विकल्प्यते । 2. अदन्त-अव्ययीभाव-समासात् विहितस्य विभक्तिप्रत्ययस्य नाव्ययीभावादतोऽम्त्वपञ्चम्याः (2.4.83) इत्यनेन अम्-आदेशः भवति ।
Vasu English Summary¶
The affix टच् comes after an अव्ययीभाव समास ending in अम् as the final of a compound.
Vasu English Translation¶
The affix टच् comes after an अव्ययीभाव समास ending in अम् as the final of a compound. Thus उपराजम्, अध्यात्मम्, प्रत्यात्मम् ॥ The final अन् is elided by (6.4.144).
Kashika¶
अन्नन्तादव्ययीभावात् टच् प्रत्ययो भवति समासान्तः। उपराजम्। प्रतिराजम्। अध्यात्मम्। प्रत्यात्मम्॥
Siddhanta Kaumudi¶
अन्नन्तादव्ययीभावाट्टच् स्यात् ॥
Laghu Siddhanta Kaumudi¶
अन्नन्तादव्ययीभावाट्टच् स्यात्॥
Balamanorama¶
अनश्च - अनश्च । ‘अव्ययीभावे’ इत्यनुवृत्तं पञ्चम्या विपरिणम्यते । ‘अन’ इति तद्विशेषणम् । तदन्तविधिः । तदाह अन्नन्तादिति ।
Nyaas¶
उपराजम्, प्रतिराजम् इति। उपशरदं प्रतिशरदमितिवदव्ययीभावः। अव्यात्मम् इति। आत्मन्यधीति विभक्त्यर्थे। प्रत्यात्मम् इति। पूर्ववदाभिमुख्ये॥
Prakriyasarvasvam¶
<karika>अन्नन्तादव्ययीभावात् समासान्तष्टजिष्यते । ‘नस्तद्धिते’टिलोपः स्यादुपराजमुपार्यमम् ॥ ३७५ ॥</karika>
Sutra Prayogas¶
प्रतियुवम् (शिशुपालवधम्): अनश्च इत्यव्ययीभावे समासान्तः।
अध्यध्वम् (शिशुपालवधम्): अनश्च इति समासान्तोऽप्रत्ययः।
स-राजं (भट्टिकाव्यम्): अनश्च इति टच् समा- सान्तः।