54108: अनश्च ============ **Padacheda:** अनः | S | 5 | 1 | च | S | 0 | 0 | Sutrartha --------- **यस्य अव्ययीभावसमासस्य अन्ते 'अन्' इति विद्यते तस्मात् टच् इति समासान्तप्रत्ययः भवति ।** यस्य अव्ययीभावसमासस्य उत्तरपदम् 'अन्' इत्यनेन समाप्यते, तस्मात् 'टच्' इति समासान्तप्रत्ययः भवति । कानिचन उदाहरणानि एतानि - 1. राजानं प्रति = प्रति + राजन् + टच् [वर्तमानसूत्रेण टच्-प्रत्ययः] → प्रति + राज् + अ [**नस्तद्धिते** (6.4.144) इति टिलोपः] → प्रतिराज । राजानं प्रति प्रतिराजम् । 2. आत्मनि इत्येव = अधि + आत्मन् + टच् [वर्तमानसूत्रेण टच्-प्रत्ययः] → अध्यात्मन् + टच् [**इको यणचि** (6.1.77) इति यणादेशः] → अध्यात्म् + अ [**नस्तद्धिते** (6.4.144) इति टिलोपः] → अध्यात्म । आत्मनि इत्येव अध्यात्मम् । 3. पञ्चानाम् समीपम् = उप + पञ्चन् + टच् [वर्तमानसूत्रेण टच्-प्रत्ययः] → उप + पञ्च् + अ [**नस्तद्धिते** (6.4.144) इति टिलोपः] → उपपञ्च पञ्चानां समीपम् उपपञ्चम् । स्मर्तव्यम् - 1. यदि अन्नन्तः शब्दः नपुंसकलिङ्गवाची अस्ति, तर्हि **नपुंसकादन्यतरस्याम्** इत्यनेन अग्रिमसूत्रेण टच्-प्रत्ययः विकल्प्यते । 2. अदन्त-अव्ययीभाव-समासात् विहितस्य विभक्तिप्रत्ययस्य **नाव्ययीभावादतोऽम्त्वपञ्चम्याः** (2.4.83) इत्यनेन अम्-आदेशः भवति । Vasu English Summary -------------------- The affix टच् comes after an अव्ययीभाव समास ending in अम् as the final of a compound. Vasu English Translation ------------------------ The affix टच् comes after an अव्ययीभाव समास ending in अम् as the final of a compound. Thus उपराजम्, अध्यात्मम्, प्रत्यात्मम् ॥ The final अन् is elided by (6.4.144). Kashika ------- अन्नन्तादव्ययीभावात् टच् प्रत्ययो भवति समासान्तः। उपराजम्। प्रतिराजम्। अध्यात्मम्। प्रत्यात्मम्॥ Siddhanta Kaumudi ----------------- अन्नन्तादव्ययीभावाट्टच् स्यात् ॥ Laghu Siddhanta Kaumudi ----------------------- अन्नन्तादव्ययीभावाट्टच् स्यात्॥ Balamanorama ------------ **अनश्च** - अनश्च । 'अव्ययीभावे' इत्यनुवृत्तं पञ्चम्या विपरिणम्यते । 'अन' इति तद्विशेषणम् । तदन्तविधिः । तदाह अन्नन्तादिति । Nyaas ----- `उपराजम्, प्रतिराजम्` इति। उपशरदं प्रतिशरदमितिवदव्ययीभावः। `अव्यात्मम्` इति। आत्मन्यधीति विभक्त्यर्थे। `प्रत्यात्मम्` इति। पूर्ववदाभिमुख्ये॥ Prakriyasarvasvam ----------------- अन्नन्तादव्ययीभावात् समासान्तष्टजिष्यते । 'नस्तद्धिते'टिलोपः स्यादुपराजमुपार्यमम् ॥ ३७५ ॥ Sutra Prayogas -------------- * **प्रतियुवम्** (शिशुपालवधम्): `अनश्च` इत्यव्ययीभावे समासान्तः। * **अध्यध्वम्** (शिशुपालवधम्): `अनश्च` इति समासान्तोऽप्रत्ययः। * **स-राजं** (भट्टिकाव्यम्): `अनश्च` इति टच् समा- सान्तः।