54107: अव्ययीभावे शरत्प्रभृतिभ्यः¶
Padacheda: अव्ययीभावे | S | 7 | 1 |
शरत्प्रभृतिभ्यः | S | 5 | 3 |
Sutrartha¶
शरदादिगणे विद्यमानेभ्यः शब्देभ्यः अव्ययीभावसमासे ‘टच्’ इति समासान्तप्रत्ययः भवति ।
शरदादिगणे विद्यमानाः शब्दाः यत्र अव्ययीभावसमासे प्रयुज्यन्ते, तत्र तेभ्यः ‘टच्’ इति समासान्तप्रत्ययः विधीयते । शरदादिगणः अयम् - शरद्, विपाश्, अनस्, मनस्, उपानह्, दिव्, हिमवत्, अनडुह्, दिश्, दृश्, सदृश्, चतुर्, त्यद्, तद्, यद्, कियत्, जरायाः जरस् च (गणसूत्रम्), प्रतिपरसमनुभ्योऽक्ष्णः (गणसूत्रम्) , पथिनश्च (गणसूत्रम्) । उदाहरणानि अधः दत्तानि सन्ति । सर्वत्र अव्ययं विभक्तिसमीप.. (2.1.6) इत्यनेन अव्ययीभावसमासः भवति । 1. शरदः समीपम् = उप + शरद् + टच् → उपशरद । 2. विपाशः अभिमुखम् = प्रति + विपाश् + टच् → प्रतिविपाश । 3. अनसः (= शकटम् ) समीपम् = उप + अनस् + टच् → उपानस । 4. मनसः समृद्धिः = सु + मनस् + टच् → सुमनस । 5. उपानहा सह = स + उपानह् + टच् → सोपानह । 6. दिवः पश्चात् = अनु + दिव् + टच् → अनुदिव । 7. हिमवतः समीपम् = उप + हिमवत् + टच् → उपहिमवत । 8. अनडुहा सह = अनु + अनडुह् + टच् → अन्वनडुह । 9. दिशयोर्मध्ये = अप + दिश् + टच् → अपदिश । 10. दृशः समीपम् = उप + दृश् + टच् → उपदृश । 11. सदृशः समीपम् = उप + सदृश् + टच् → उपसदृश । 12. चतुर्ण्णाम् सदृशम् = स + चतुर् + टच् → सचतु । 13. त्यस्य समीपम् = उप + त्यद् + टच् → उपत्यद । 14. यस्य समीपम् = उप + यद् + टच् → उपयद । 15. तस्य समीपम् = उप + तद् + टच् → उपतद । 16. कियतः समीपम् = उप + कियत् + टच् → उपकियत । अत्र त्रीणि गणसूत्राणि पाठ्यन्ते - 1. जरायाः जरस् च - अव्ययीभावसमासे विहितस्य ‘जरा’ शब्दस्य ‘जरस्’ आदेशः भवति तथा च तस्मात् ‘टच्’ इति समासान्तप्रत्ययः विधीयते । यथा - जरसः समीपम् = उप + जरा + टच् → उप + जरस् + टच् → उपजरस । 2. प्रति-पर-सम-अनुभ्यः अक्ष्णः - ‘अक्षि’ इत्यस्य शब्दस्य ‘प्रति’, ‘पर’, ‘सम’, ‘अनु’ एतेषां योगे अव्ययीभावसमासे ‘टच्’ इति समासान्तप्रत्ययः भवति । यथा - अ) अक्षिमक्षिम् प्रति = प्रति + अक्षि + टच् → प्रत्यक्ष । आ) अक्ष्णः परम् = पर + अक्षि + टच् → परोक्ष । अत्र रेफोत्तरस्य अकारस्य ओकारादेशः निपात्यते । परोक्षे लिट् (3.2.115) इत्यत्र पाणिनिना कृतः ‘परोक्ष’ इति निर्देशः अस्य ज्ञापकः अस्ति । इ) अक्ष्णः योग्यम् = सम् + अक्षि + टच् → समक्ष । ई) अक्षः पश्चात् = अनु + अक्षि + टच् → अन्वक्ष । 3. पथिनश्च - ‘पथिन्’ शब्दस्य विषये अपि ‘प्रति’, ‘पर’, ‘सम’, ‘अनु’ एतेषां योगे अव्ययीभावसमासे ‘टच्’ इति समासान्तप्रत्ययः भवति । यथा - अ) पन्थानं पन्थानं प्रति = प्रति + पथिन् + टच् → प्रतिपथ । नस्तद्धिते (6.4.144) इति टिलोपः भवति । एवमेव अग्रेऽपि ज्ञेयम् । आ) पथः परम् = पर + पथिन् + टच् → परपथ । इ) पथः योग्यम् = सम् + पथिन् + टच् → संपथ, सम्पथ । वा पदान्तस्य (8.4.59) इति वैकल्पिके परसवर्णे कृते रूपद्वयं सिद्ध्यति । ई) पथः पश्चात् = अनु + पथिन् + टच् → अनुपथ । स्मर्तव्यम् - अदन्त-अव्ययीभाव-समासात् विहितस्य विभक्तिप्रत्ययस्य नाव्ययीभावादतोऽम्त्वपञ्चम्याः (2.4.83) इत्यनेन अम्-आदेशः भवति । अतः अत्र निर्मिताः सर्वे शब्दाः ‘अम्’ प्रत्ययान्ताः एव प्रयुज्यन्ते । यथा - उपशरदम्, प्रतिविपाशम् - आदयः ।
Vasu English Summary¶
The affix टच् comes after the words शरत् etc. when forming an अव्ययीभाव समास ।
Vasu English Translation¶
The affix टच् comes after the words शरत् etc. when forming an अव्ययीभाव समास । Thus शरदः समीपम् = उपशरदम्, प्रतिशरदम्, उपविपाशम्, प्रतिविपाशम् ॥
Why do we say when forming an Avyayibhava compound? Observe परमशरत् ॥ Those words of शरदादि class which end in a झय् consonant add invariably (नित्य) the affix tach in spite of (5.4.111). The anuvritti of avayayibhava extends upto (5.4.113).
1 शरद्, 2 विपाश्, 3 अनस्, 4 मनस्, 5 उपानह्, 6 अनडुह्, 7 दिव्, 8 हिमवत्, 9 हिरुक्, 10 विद्, 11 सद्, 12 दिश्, 13 दृश्, 14 विश्, 15 चतुर्, 16 त्यद्, 17 तद्, 18 यद्, 19 कियत्, 20 जराया जरस् च (as उपजरसम्), 21 प्रतिपरसमनुभ्योऽक्ष्णः (as प्रत्यक्षं, परोक्षः, समक्षम्, and अन्वक्षम्, The second is Tatpursha) 22 पथिन्, 23 सदृश् ॥
Kashika¶
शरदित्येवमादिभ्यः प्रातिपदिकेभ्यष्टच् प्रत्ययो भवत्यव्ययीभावे। शरदः समीपम् उपशरदम्। प्रतिशरदम्। उपविपाशम्। प्रतिविपाशम्। अव्ययीभाव इति किम्? परमशरत्। येऽत्र झयन्ताः पठ्यन्ते तेषां नित्यार्थं ग्रहणम्। स्वर्यते चेदमव्ययीभावग्रहणं प्राग् बहुव्रीहेः॥ शरत्। विपाश्। अनस्। मनस्। उपानह्। दिव्। हिमवत्। अनडुह्। दिश्। दृश्। चतुर्। यद्। तद्। जराया जरश्च (ग०सू० १६०)। प्रतिपरसमनुभ्योऽक्ष्णः (ग०सू० १६१)। पथिन्। प्रत्यक्षम्। परोक्षम्। समक्षम्। अन्वक्षम्। प्रतिपथम्। परपथम्। संपथम्। अनुपथम्॥
Siddhanta Kaumudi¶
शरदादिभ्यष्टच् स्यात्समासान्तोऽव्ययीभावे । शरदः समीपमुपशरदम् । प्रतिविपाशम् । शरद् । विपाश् । अनस् । मनस् । उपानह् । दिव् । हिमवत् । अनडुह् । दिश् । दृश् । विश् । चेतस् । चतुर् । त्यद् । तद् । यद् । कियत् । (गणसूत्रम् -) जरायाः जरस् च । उपजरसम् । (गणसूत्रम् -) प्रतिपरसमनुभ्योऽक्ष्णः ॥ यस्येति च (SK311) ॥ प्रत्यक्षम् । अक्ष्णः परमिति विग्रहे समासान्तविधानसामर्थ्यादव्ययीभावः । परोक्षे लिट् (SK2171) इति निपातनात्परस्यौकारादेशः । परोक्षम् । परोक्षा क्रियेत्यादि तु अर्श आद्यचि । समक्षम् । अन्वक्षम् ॥
Laghu Siddhanta Kaumudi¶
शरदादिभ्यष्टच् स्यात्समासान्तोऽव्ययीभावे । शरदः समीपमुपशरदम् । प्रतिविपाशम् । जराया जरश्च (वार्त्तिकम्) । उपजरसमित्यादि ॥
Balamanorama¶
अव्ययीभावे शरत्प्रभृतिभ्यः - अव्ययीभावे ।राजाहः सखिभ्यष्ट॑जित्यतष्टजित्यनुवर्तते । तदाह — शरदादिभ्य इति । अव्ययीभावे उत्तरपदं यच्छरदादिप्रकृतिकं सुबन्तं तदन्ताट्टच्स्यात् । स च अलौकिकविग्रहवाक्यान्तावयव इत्यर्थः । उपशरदमिति ।अव्ययं विभक्ती॑त्यादिना समीपार्थकस्य उपेत्यव्ययस्य शरद इति षष्ठन्तेनाव्ययीभावः । टच् । टचः । समासावयवत्वेन तदन्तस्याव्ययीभावसमासत्वान्नाव्ययीभावादित्यम् । अपशरदित्यस्य अव्ययीभावसमासत्वाऽभावादनव्ययत्वात्अव्ययानां भमात्रे टिलोपः॑ इति न भवति । विपाट्शब्दो नदीविशेषे वर्तते ।विपाशा तु विपाट् स्त्रियाम् इत्यमरः । ‘लक्षणेनाभिप्रती’ इति अव्ययीभावसमासः । शरदादिगणं पठति-शरदित्यादिना । अत्र झयन्तानां ‘झयः’ इति विकल्पे प्राप्ते नित्यार्थः पाठः ।जराया जरश्चे॑ति शरदादिगणसूत्रम् । जराशब्दस्य जरसादेशश्चाऽस्मिन्गणे वाच्य इत्यर्थः । उपजरसमिति । जरायाः समीपमित्यर्थः । सामीप्ये उपेत्यव्ययस्य जराया इति षष्ठन्तेनाव्ययीभावसमासे कृते टच्, सुब्लुक्, उपेत्यस्य पूर्वनिपातः । टचो विभक्तित्वाऽभावात्तस्मिन्परेऽप्राप्तेजरसि अनेन जरस् । टजन्ताद्यथायथं सुपोऽम्भाव इति भावः । ‘प्रतिपरसम्’ इत्यपि गुणसूत्रम् । एतेभ्यः परस्याऽक्षिरशब्दस्य इह गणे पाठ इत्यर्थः । यस्येति चेति । टचस्तद्धितत्वात्तस्मिन्परे इकारस्य लोप इति भावः । प्रत्यक्षमिति । अक्षिणी प्रतीति विग्रहः । अक्ष्णोरभिमुखमित्यर्थः । ‘लक्षणेत्थम्’ इति कर्मप्रवचनीयत्वात् द्वितीया । ‘लक्षणेनांभिप्रती’ इत्यव्ययीभावः । टच्, सुब्लुक् ‘यस्येति च’ इति इकारलोपः । प्रत्यक्षशब्दाद्यथायथं सुबुत्पत्तिः, अम्भाव इति भावः । परमिति । व्यवहितमित्यर्थः । अविषय इति यावत् । अक्ष्णः परमिति विग्रहे अव्ययीभाव इत्यन्वयः । ननु परशब्दस्याऽनव्ययत्वात्कथमिहाव्ययीभाव इत्यत आह — समासान्तविधानसामर्थ्यादिति ।प्रतिपरम॑मिति परशब्दात्परस्याक्षिशब्दस्य टजर्थं शरदादिगणे पाठोऽवगतः ।अव्ययीभावे शरत्प्रभृतिभ्यः॑ इत्यव्ययीभावे टज्विहितः । तत्सामर्थ्यादनव्ययस्यापि परशब्दस्याव्ययीभाव इत्यर्थः । परोक्षमिति । अक्ष्णः परमिति विग्रहे परमित्यस्य अक्षि इत्यनेनाव्ययीभावसमासः । टच्, सुब्लुक् । परशब्दस्य ओकारोन्तादेशः । पररूपम् । परोक्षाद्यथायथं सुप् । अम्भाव इति भावः । अर्शाअद्यचीति । परोक्षमस्यास्तीत्यर्थे परोक्षशब्दाद्धर्मप्रधानात् ‘अर्शाअदिभ्योऽच्’ इति मत्वर्थीये अच्प्रत्यये कृते ‘यस्येति च’ इत्यकारलोपे टापि च कृते परोक्षा क्रिया इत्यादि ज्ञेयमित्यर्थः । अत्र गणसूत्रे परग्रहणं प्रक्षिप्तमित#इ युक्तम् । ‘परोक्षे लिट्’ इति सूत्रस्थबाष्यकैयटयोरत्र समासान्तस्यापि निपातनेनैव साधितत्वात् । समक्षमिति । अक्ष्णोर्योग्यमित्यर्थः । यथार्थेऽव्ययीभावः । टच्, इकारलोप इति भावः । अन्वक्षमिति । अक्ष्णोः पञ्चादित्यर्थः । पश्चादर्थेऽव्ययीभावः । शेषं समक्षवत् ।
Tattvabodhini¶
अव्ययीभावे शरत्प्रभृतिभ्यः - प्रतिविपाशमिति ।लक्षनेनाभिप्रती -॑इति समासः ।विपाशा तु विपाट् स्त्रिया॑मित्यमरः । गणं पठति — शरदित्यादिना । अत्र ये झयन्तास्तेषांझयः॑ इति विकल्पे प्राप्ते नित्यार्थः पाठः । इहजराया जरस्,प्रतिपरे॑ति च द्वयं गणसूत्रम् । उपजरसमिति । जरायाः समीपमित्यर्थः । यस्येतिचेति । टचस्तद्धितकत्वात्तस्मिन्परे इकारलोप इति भावः । प्रत्यक्षमिति । वीप्सायां यथार्थत्वेन समासः । अक्ष्णो राभिमुख्यमित्यर्थेलक्षणेनाभिप्रती -॑ इति वा समासः । अक्ष्णः परमिति । अविषय इत्यर्थः । वृत्तिविषयेअक्षि॑ शब्द इन्द्रियमात्रपरः । अव्ययाऽघटितसमुदायस्य कथमिहाव्ययीभावो, विधायकसूत्राऽभावादित्याशङ्क्याह — विधानसामर्थ्यादिति । समक्षमिति । अक्ष्णो योग्यम् । अन्वक्षमिति । अक्ष्णः पश्चादित्यर्थेऽव्ययीभावः ।
Padamanjari¶
जराया जरस् चेति। जराशब्दादच् प्रत्ययो भवति, अव्ययीभावे जरसादेशश्च - उपजरसम्। प्रतिपरसमनुभ्योऽक्ष्णं इति। प्रादिभ्यः परो योऽक्षिशब्दस्ततष्टज्भवति, तत्र परशब्दस्याव्ययीभावसम्भवातत्पुरुषाथ ग्रहणम्। प्रत्यक्षमिति।’यथार्थे यदव्ययम्’ इति वीप्सायामव्ययीभावः, परक्ष्मणः परोक्षम्,’परोक्षे लिट्’ इति निर्द्देशात्पञ्चमीसमासः, उपसर्जनस्य च परनिपातः, अक्ष्यकारस्य चोत्वम्। अक्षियोग्यमुसमक्षम्, यथार्थे योग्यतायामव्ययीभावः। अन्वक्षमिति। पश्चादर्थेऽव्ययीभावः॥
Praudhamanorama¶
समासस्य समासार्थोत्तरपदस्य वा चरमावयव इत्यर्थः। तेनोपशरदमित्यत्र ‘नाव्ययीभावात्’ इत्यम् द्विपुरीत्यादौ ‘द्विगोः’ इति ङीप् च सिद्ध्यति। जराया इति। गणसूत्रम्। अक्ष्णः परमिति। अविषय इत्यर्थः। वृत्तिविषयेऽक्षिशब्द इन्द्रियमात्रपरः। समक्षमिति। अक्ष्णोः योग्यम्। उपनदीति। टजभावे नपुंसकह्रस्वः। इदं त्ववधेयम्- ‘नदीभिश्च’ इति सूत्रे विशेषाणामिव स्वरूपस्य ग्रहणं, विशेषाणामेवेत्यत्र मानाभावादित्युक्तम्। तेन पञ्चनदमिति सिद्ध्यति। अत्र च नित्योऽच्। तदुक्तम्- गोदावर्याश्च नद्याश्च संख्याया उत्तरे यदि॥ इति। एतच्च ‘अच्प्रत्यन्वव’ इत्यत्राजिति योगविभागात् सिद्धम्।
Prakriyasarvasvam¶
शरदादिभ्योऽव्ययीभावे समासान्तस्तद्धितष्टच् स्यात् । ‘शरद्विपाशनसमन- सुपानद्विमवदनडुत्पथिद्युदिग्दृग्यत्तच्चतुर्भ्यः’ (स० ५-४-१२२) प्रतिशरदम् । उपविपाशम् । अध्यनसम् । अधिमनसम् । प्रत्युपानहम् । अधिहिमवतम् । अन्वनडुहम् । अनुपथम् । अधिदिवम् । प्रतिदिशम् । अभिदृशम् । अधियदं दृष्टः । उपतदमास्ते । यत्र दृष्टस्तत्समीप आस्त इत्यर्थः । अधिचतुरम् । ‘जराया जरस् च’ । (स० ५-४-१२३) उपजरसं वर्तते । ‘प्रतिपरसमनुभ्योऽक्ष्णः’ (स० ५-४-१२४) आभिमुख्येऽव्ययीभावः । प्रत्यक्षमास्ते । योग्यतायां समक्षमास्ते । अक्षियोग्यमित्यर्थः । एवमक्ष्णः पश्चादन्वक्षम् । परशब्दस्तु तत्पुरुष एवेति रामहरौ । अक्ष्णः परं परोक्षम् । पृषोदरादौ वक्ष्यते । प्रत्यक्षसमक्षौ तत्पुरुषेऽपि वक्ष्येते ॥
Sutra Prayogas¶
समक्षम् (रघुवंशम्): अव्ययीभावे शरत्प्रभृतिभ्यः इति समासान्तष्टच्प्रत्ययः।
समक्षं (रघुवंशम्): अव्ययीभावे शरत्प्रभृतिभ्यः इति समासान्तष्टच्।
उमासमक्षम् (कुमारसम्भवम्): अव्ययीभावे शरत्प्रभृतिभ्यः इति समासान्तोऽच्प्रत्ययः।
प्रतिदिशम् (किरातार्जुनीयम्): अव्ययीभावे शरत्प्रभृतिभ्यः इति शरत्प्रभृतित्वात् समासान्तः टच् प्रत्ययः।
समक्षम् (किरातार्जुनीयम्): अव्ययीभावे शरत्प्रभृतिभ्यः इति समासान्तष्टच्प्रत्ययः।
प्रतिदिशं (शिशुपालवधम्): अव्ययीभावे शरत्प्रभृतिभ्यः इति समासान्तोऽच्प्रत्ययः।
प्रतिदिशम् (शिशुपालवधम्): अव्ययीभावे शरत्प्रभृतिभ्यः इति समासान्तष्टच्प्रत्ययः।
समक्ष (शिशुपालवधम्): अव्ययीभावे शरत्प्रभृतिभ्यः इति समासान्तः।
अथोपशरदे (भट्टिकाव्यम्): अव्ययीभावे शरत्प्रभृतिभ्यः इति समासान्तष्टच्।
अनु-दशं (भट्टिकाव्यम्): अव्ययीभावे शरत्प्रभृतिभ्यः इति टच्।
प्रति-दिशम् (भट्टिकाव्यम्): अव्ययीभावे शरत्प्रभृतिभ्यः इति टच्।