54104: ब्रह्मणो जानपदाख्यायाम्¶
Padacheda: ब्रह्मणः | S | 5 | 1 |
जानपदाख्यायाम् | S | 7 | 1 |
Sutrartha¶
यस्मिन् तत्पुरुषसमासे ‘ब्रह्मन्’ शब्दः उत्तरपदरूपेण विद्यते तथा च येन समस्तपदेन ब्रह्मण जनपदेन सह सम्बन्धः निर्दिश्यते, तस्मात् टच् इति समासान्तप्रत्ययः भवति ।
ब्रह्मन् (= ब्राह्मणः) इति शब्दः यस्मिन् तत्पुरुषसमासे उत्तरपदरूपेण विद्यते, तथा च येन समस्तपदेन ‘जानपदम्’ (= जनपदस्य इदम्) इति ब्रह्मणः निर्देशः भवति तस्मात् टच् इति समासान्तप्रत्ययः भवति । यथा - सुराष्ट्रे ब्रह्मा (The brahmin of Surashtra) [सप्तमी शौण्डैः (2.1.40) इत्यस्मात् ‘सप्तमी’ इति योगविभागेन सप्तमीतत्पुरुषसमासः] → सुराष्ट्र + ब्रह्मन् + टच् [वर्तमानसूत्रेण टच् इति समासान्तप्रत्ययः] → सुराष्ट्र + ब्रह्म् + अ [नस्तद्धिते (6.4.144) इति टिलोपः] → सुराष्ट्रब्रह्म । सुराष्ट्रे ब्रह्मा सुराष्ट्रब्रह्मः । The brahmin belonging to Surashtra - इत्याशयः । यदि जनपदेन सह सम्बन्धः न दर्श्यते, तर्हि वर्तमानसूत्रस्य प्रयोगः न भवति । यथा - देवानाम् ब्रह्मा देवब्रह्मा । अत्र टच्-प्रत्ययः न भवति । स्मर्तव्यम् - यस्मिन् तत्पुरुषसमासे जनपदवाची शब्दः पूर्वपदरूपेण विद्यते, तत्रैव अस्य सूत्रस्य प्रयोगः भवति, यतः तदा एव समस्तपदम् ‘जनपदेन सह ब्रह्मणः सम्बन्धम्’ प्रदर्शयितुम् शक्नोति ।
Vasu English Summary¶
The affix टच् comes after the word ब्रह्मण in a तत्-पुरुष समास when the compound denotes a person belonging to a certain country.
Vasu English Translation¶
The affix टच् comes after the word ब्रह्मण in a तत्-पुरुष समास when the compound denotes a person belonging to a certain country. The word जानपदः = जनपदेषु भवः ‘belonging to a country’. This affix comes after that Tatpurusha the first member of which is a word denoting a country. Thus सुराष्ट्रेषु ब्रह्मा = सुराष्ट्रब्रह्मः, and अवन्तिब्रह्मः “a Brahmana of Surashtra or Avanti”. This is an example of Locative Tatpurusha compound.
Why do we say “when referring to the name of a country”? Observe देवब्रह्मा नारदः ‘Narada the bard of the gods’.
Kashika¶
ब्रह्मन्शब्दान्तात् तत्पुरुषात् टच् प्रत्ययो भवति, समासेन चेद् ब्रह्मणो जानपदत्वमाख्यायते। जनपदेषु भवो जानपदः। यस्य तत्पुरुषस्य जनपदशब्दः पूर्वपदं तस्मादेतत् प्रत्ययविधानम्। सुराष्ट्रेषु ब्रह्मा सुराष्ट्रबह्मः। अवन्तिब्रह्मः। योगविभागात् सप्तमीसमासः। जानपदाख्यायामिति किम् ? देवब्रह्मा नारदः॥
Siddhanta Kaumudi¶
ब्रह्मान्तात्तत्पुरुषाट्टच् स्यात्समासेन जानपदत्वमाख्यायते चेत् । सुराष्ट्रे ब्रह्मा सुराष्ट्रब्रह्मः ॥
Balamanorama¶
ब्रह्मणो जानपदाख्यायाम् - ब्राहृणो जानपदाख्यायां । जनपदे भवो जानपदः । भावप्रधानो निर्देशः । तस्य केनाख्येत्याकाङ्क्षायां प्रकृतत्वात्समासेनेति लभ्यते । तदाह — समासेनेत्यादि । जानपदत्वमित्यनन्तरं ‘ब्राहृण’ इति शेषः । सुराष्ट्रे ब्राहृएति । ब्राहृशब्दोऽत्र पुंलिङ्गः । ब्राहृआ — विप्रः ।वेदस्तत्त्वं तपो ब्राहृ ब्राहृआ विप्रः प्रजापतिः॑ इत्यमरः । सप्तमीति योगुविभागात्समासः । टच्, टिलोपः,परवल्लिङ्ग॑मिति पुंस्त्वम् । जानपदेति किं । देवब्राहृआ नारदः ।
Tattvabodhini¶
ब्रह्मणो जानपदाख्यायाम् - ब्राहृणो । जनपदे भवो जानपदः ।द्व्येकयो॑रितिवद्भावप्रधानो निर्देशस्तस्याख्यायां, प्रत्यासत्त्या समासेनेत्येतल्लभ्यते । तदाह -समासेन जानपदत्विमिति । कस्येत्याकाङ्क्षायां संनिधानाह्ब्राआहृण इति लभ्यते । सुराष्ट्रब्राहृ इति ।सप्तमी॑ति योगविभागात्समासः । जानपदेति किम् । देवब्राहृआ नारदः ।
Padamanjari¶
अन्तरेणापि भावप्रत्ययं जानपदशब्दो भावप्रधानः,’द्व्येकयोः’ इतिवदित्याह-समासेन चेद् ब्रह्मणो जानपदत्वमाख्यायते इति। यद्यप्येकं ब्रह्मग्रहणम्, तेन च समासो विशेषितः, तथापि प्रत्यासतेर्ब्रह्मण एव जानपदत्वं विशेषणं विज्ञायते, तस्मादेतत्प्रत्ययविधानमिति। तत एव हि प्रत्ययविदाने ब्रह्मणो जानपदत्वं शक्यमाख्यातुम्। देवब्रह्मएति। षष्ठीसमासः, कर्मधारो वा ॥
Nyaas¶
जानपदाख्यायाम् इति। भावप्रधानोऽत्र जानपदशब्दः। अत एव वृत्तावाह - समासेन चेद्ब्राहृणो जानपदत्वमाख्यायते इति। भवति हि भावप्रत्ययमन्तरेणापि भावप्रधानो निर्देशः, यथा - द्व्येकयोर्द्विवचनैकवचने (1.4.22) इति। कथं पुनब्र्राहृणो जानपदत्वं शक्यं विशेषयितुम्, यावतैकमिह ब्राहृग्रहणम्, तेन च समासो विशेषितः? नैतदस्ति; तन्त्रेण द्वौ ब्राहृशब्दावृच्चरितौ - तत्रैकेन समासो विशेष्यते, अपरेण जानपदत्वम्, यस्य तत्पुरुषस्य जनपदशब्दः पुर्वपदम्। पूर्ववत्? समासः॥
Prakriyasarvasvam¶
जनपदभवत्वोक्तौ ब्रह्मान्ताट्टच् । जनपदपूर्वाद् ब्रह्मण इत्यर्थः । चोलेषु ब्रह्मा चोलब्रह्मः । काशिब्रह्मः ॥