54105: कुमहद्भ्यामन्यतरस्याम्¶
Padacheda: कु-महद्भ्याम् | S | 5 | 2 |
अन्यतरस्याम् | S | 7 | 1 |
Sutrartha¶
यस्मिन् तत्पुरुषसमासे ‘कु’ उत ‘महत्’ शब्दः पूर्वपदरूपेण विद्यते, तथा च ‘ब्रह्मन्’ शब्दः उत्तरपदरूपेण विद्यते, तस्मात् विकल्पेन ‘टच्’ इति समासान्तप्रत्ययः भवति ।
यस्मिन् तत्पुरुषसमासे ‘कु’ उत ‘महत्’ शब्दः पूर्वपदरूपेण विद्यते, तथा च ‘ब्रह्मन्’ ( = ब्राह्मणः) शब्दः उत्तरपदरूपेण विद्यते, तस्मात् विकल्पेन ‘टच्’ इति समासान्तप्रत्ययः भवति । यथा - 1. कुत्सितः ब्रह्मा [कुगतिप्रादयः (2.2.18) इति तत्पुरुषसमासः] → कु + ब्रह्मन् + टच् [वर्तमानसूत्रेण टच् इति समासान्तप्रत्ययः] → कु + ब्रह्म् + अ [नस्तद्धिते (6.4.144) इति टिलोपः] → कुब्रह्म कुत्सितः ब्रह्मा कुब्रह्मः । पक्षे टच्-प्रत्ययस्य अभावे ‘कुब्रह्मा’ इत्यपि सिद्ध्यति । 2. महान् च असौ ब्रह्मा [सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः (2.1.61) इति तत्पुरुषसमासः] → महत् + ब्रह्मन् + टच् [वर्तमानसूत्रेण टच् इति समासान्तप्रत्ययः] → महा + ब्रह्मन् + टच् [आन्महतः समानाधिकरणजातीययोः (6.3.46) इति तकारस्य आकारादेशः] → महा + ब्रह्म् + अ [नस्तद्धिते (6.4.144) इति टिलोपः] → महाब्रह्म पक्षे टच्-प्रत्ययस्य अभावे ‘महाब्रह्मा’ इति रूपमपि सिद्ध्यति । स्मर्तव्यम् - तत्पुरुषस्याङ्गुलेः संख्याऽव्ययादेः (5.4.86) इत्यस्मात् प्रारब्धम् तत्पुरुषसमासान्तप्रत्ययानां प्रकरणमत्र समाप्यते ।
Vasu English Summary¶
The affix टच् comes optionally after the word ब्रह्मण preceded by the words 1. कु and 2. महत् in a तत्-पुरुष समास ।
Vasu English Translation¶
The affix टच् comes optionally after the word ब्रह्मण preceded by the words 1. कु and 2. महत् in a तत्-पुरुष समास । Thus कुब्रह्मः or कुब्रह्मा, महाब्रह्मः or महाब्रह्मा । The word ब्रह्मम् is a synonym of ब्राह्मण “a Brahmana”.
Kashika¶
कुमहद्भ्यां परो यो ब्रह्मा तदन्तात् तत्पुरुषात् टच् प्रत्ययो भवत्यन्यतरस्याम्। कुब्रह्मः, कुब्रह्मा। महाब्रह्मः, महाब्रह्मा। ब्राह्मणपर्यायो ब्रह्मन्शब्दः॥
Siddhanta Kaumudi¶
आभ्यां ब्रह्मणो वा टच् स्यात् तत्पुरुषे । कुत्सितो ब्रह्मा कुब्रह्मः । कुब्रह्मा ॥
Balamanorama¶
कुमहद्भ्यामन्यतरस्याम् - कुमहद्भ्याम् । कुब्राहृएति । टजभावे रूपम् । ‘कुगतिप्रादयः’ इति समासः । कुब्राहृ इति । टचि रूपं, टिलोपः ।
Tattvabodhini¶
कुमहद्भ्यामन्यतरस्याम् - कुब्राहृ इति । ब्राआहृणपर्यायो ब्राहृन्शब्दः ।
Prakriyasarvasvam¶
आभ्यां ब्रह्मणः तत्पुरुषे वा टच् । कुब्रह्मः, कुब्रह्मा । महाब्रह्मः, महाब्रह्मा । इति ॥
Sutra Prayogas¶
महा-ब्रह्मैराट (भट्टिकाव्यम्): कुमहद्भ्यामन्यतरस्याम् इति टच्।
कु-ब्रह्म-यज्ञ-के (भट्टिकाव्यम्): कु-महद्भ्यामन्यतरस्याम् इति समासान्तष्टच्।