54104: ब्रह्मणो जानपदाख्यायाम् ============================== **Padacheda:** ब्रह्मणः | S | 5 | 1 | जानपदाख्यायाम् | S | 7 | 1 | Sutrartha --------- **यस्मिन् तत्पुरुषसमासे 'ब्रह्मन्' शब्दः उत्तरपदरूपेण विद्यते तथा च येन समस्तपदेन ब्रह्मण जनपदेन सह सम्बन्धः निर्दिश्यते, तस्मात् टच् इति समासान्तप्रत्ययः भवति ।** ब्रह्मन् (= ब्राह्मणः) इति शब्दः यस्मिन् तत्पुरुषसमासे उत्तरपदरूपेण विद्यते, तथा च येन समस्तपदेन 'जानपदम्' (= जनपदस्य इदम्) इति ब्रह्मणः निर्देशः भवति तस्मात् टच् इति समासान्तप्रत्ययः भवति । यथा - सुराष्ट्रे ब्रह्मा (The brahmin of Surashtra) [**सप्तमी शौण्डैः** (2.1.40) इत्यस्मात् 'सप्तमी' इति योगविभागेन सप्तमीतत्पुरुषसमासः] → सुराष्ट्र + ब्रह्मन् + टच् [वर्तमानसूत्रेण टच् इति समासान्तप्रत्ययः] → सुराष्ट्र + ब्रह्म् + अ [**नस्तद्धिते** (6.4.144) इति टिलोपः] → सुराष्ट्रब्रह्म । सुराष्ट्रे ब्रह्मा सुराष्ट्रब्रह्मः । The brahmin belonging to Surashtra - इत्याशयः । यदि जनपदेन सह सम्बन्धः न दर्श्यते, तर्हि वर्तमानसूत्रस्य प्रयोगः न भवति । यथा - देवानाम् ब्रह्मा देवब्रह्मा । अत्र टच्-प्रत्ययः न भवति । स्मर्तव्यम् - यस्मिन् तत्पुरुषसमासे जनपदवाची शब्दः पूर्वपदरूपेण विद्यते, तत्रैव अस्य सूत्रस्य प्रयोगः भवति, यतः तदा एव समस्तपदम् 'जनपदेन सह ब्रह्मणः सम्बन्धम्' प्रदर्शयितुम् शक्नोति । Vasu English Summary -------------------- The affix टच् comes after the word ब्रह्मण in a तत्-पुरुष समास when the compound denotes a person belonging to a certain country. Vasu English Translation ------------------------ The affix टच् comes after the word ब्रह्मण in a तत्-पुरुष समास when the compound denotes a person belonging to a certain country. The word जानपदः = जनपदेषु भवः 'belonging to a country'. This affix comes after that *Tatpurusha* the first member of which is a word denoting a country. Thus सुराष्ट्रेषु ब्रह्मा = सुराष्ट्रब्रह्मः, and अवन्तिब्रह्मः "a *Brahmana* of *Surashtra* or *Avanti*". This is an example of Locative *Tatpurusha* compound. Why do we say "when referring to the name of a country"? Observe देवब्रह्मा नारदः '*Narada* the bard of the gods'. Kashika ------- ब्रह्मन्शब्दान्तात् तत्पुरुषात् टच् प्रत्ययो भवति, समासेन चेद् ब्रह्मणो जानपदत्वमाख्यायते। जनपदेषु भवो जानपदः। यस्य तत्पुरुषस्य जनपदशब्दः पूर्वपदं तस्मादेतत् प्रत्ययविधानम्। सुराष्ट्रेषु ब्रह्मा सुराष्ट्रबह्मः। अवन्तिब्रह्मः। योगविभागात् सप्तमीसमासः। जानपदाख्यायामिति किम् ? देवब्रह्मा नारदः॥ Siddhanta Kaumudi ----------------- ब्रह्मान्तात्तत्पुरुषाट्टच् स्यात्समासेन जानपदत्वमाख्यायते चेत् । सुराष्ट्रे ब्रह्मा सुराष्ट्रब्रह्मः ॥ Balamanorama ------------ **ब्रह्मणो जानपदाख्यायाम्** - ब्राहृणो जानपदाख्यायां । जनपदे भवो जानपदः । भावप्रधानो निर्देशः । तस्य केनाख्येत्याकाङ्क्षायां प्रकृतत्वात्समासेनेति लभ्यते । तदाह — समासेनेत्यादि । जानपदत्वमित्यनन्तरं 'ब्राहृण' इति शेषः । सुराष्ट्रे ब्राहृएति । ब्राहृशब्दोऽत्र पुंलिङ्गः । ब्राहृआ — विप्रः ।वेदस्तत्त्वं तपो ब्राहृ ब्राहृआ विप्रः प्रजापतिः॑ इत्यमरः । सप्तमीति योगुविभागात्समासः । टच्, टिलोपः,परवल्लिङ्ग॑मिति पुंस्त्वम् । जानपदेति किं । देवब्राहृआ नारदः । Tattvabodhini ------------- **ब्रह्मणो जानपदाख्यायाम्** - ब्राहृणो । जनपदे भवो जानपदः ।द्व्येकयो॑रितिवद्भावप्रधानो निर्देशस्तस्याख्यायां, प्रत्यासत्त्या समासेनेत्येतल्लभ्यते । तदाह -समासेन जानपदत्विमिति । कस्येत्याकाङ्क्षायां संनिधानाह्ब्राआहृण इति लभ्यते । सुराष्ट्रब्राहृ इति ।सप्तमी॑ति योगविभागात्समासः । जानपदेति किम् । देवब्राहृआ नारदः । Padamanjari ----------- अन्तरेणापि भावप्रत्ययं जानपदशब्दो भावप्रधानः,'द्व्येकयोः' इतिवदित्याह-समासेन चेद् ब्रह्मणो जानपदत्वमाख्यायते इति। यद्यप्येकं ब्रह्मग्रहणम्, तेन च समासो विशेषितः, तथापि प्रत्यासतेर्ब्रह्मण एव जानपदत्वं विशेषणं विज्ञायते, तस्मादेतत्प्रत्ययविधानमिति। तत एव हि प्रत्ययविदाने ब्रह्मणो जानपदत्वं शक्यमाख्यातुम्। देवब्रह्मएति। षष्ठीसमासः, कर्मधारो वा ॥ Nyaas ----- `जानपदाख्यायाम्` इति। भावप्रधानोऽत्र जानपदशब्दः। अत एव वृत्तावाह - `समासेन चेद्ब्राहृणो जानपदत्वमाख्यायते` इति। भवति हि भावप्रत्ययमन्तरेणापि भावप्रधानो निर्देशः, यथा - **द्व्येकयोर्द्विवचनैकवचने** (1.4.22) इति। कथं पुनब्र्राहृणो जानपदत्वं शक्यं विशेषयितुम्, यावतैकमिह ब्राहृग्रहणम्, तेन च समासो विशेषितः? नैतदस्ति; तन्त्रेण द्वौ ब्राहृशब्दावृच्चरितौ - तत्रैकेन समासो विशेष्यते, अपरेण जानपदत्वम्, यस्य तत्पुरुषस्य जनपदशब्दः पुर्वपदम्। पूर्ववत्? समासः॥ Prakriyasarvasvam ----------------- जनपदभवत्वोक्तौ ब्रह्मान्ताट्टच् । जनपदपूर्वाद् ब्रह्मण इत्यर्थः । चोलेषु ब्रह्मा चोलब्रह्मः । काशिब्रह्मः ॥