54095: ग्रामकौटाभ्यां च तक्ष्णः

Padacheda: ग्राम-कौटाभ्याम् | S | 5 | 2 |

च | S | 0 | 0 |

तक्ष्णः | S | 5 | 1 |

Sutrartha

यस्मिन् तत्पुरुषसमासे पूर्वपदम् ‘ग्राम’ तथा ‘कौट’ एतयोः किञ्चन अस्ति तथा च उत्तरपदम् ‘तक्षन्’ इति शब्दः अस्ति, तस्मात् ‘टच्’ इति समासान्तप्रत्ययः भवति ।

यस्मिन् तत्पुरुषसमासे पूर्वपदम् ‘ग्राम’ तथा ‘कौट’ (= कुट्यां भवः इत्याशयः) एतौ शब्दौ स्तः तथा च ‘तक्षन्’ इति शब्दः अस्ति, तस्मात् ‘टच्’ इति समासान्तप्रत्ययः भवति । यथा - 1. ग्रामस्य तक्षा (carpenter of the village) [षष्ठी (2.2.8) इति षष्ठीतत्पुरुषसमासः] → ग्राम + तक्षन् + टच् [वर्तमानसूत्रेण टच् इति समासान्तप्रत्ययः] → ग्रामतक्ष् + अ [नस्तद्धिते (6.4.144) इति टिलोपः] → ग्रामतक्ष ग्रामस्य तक्षा ग्रामतक्षः । 2. कौटश्चासौ तक्षा च (carpenter who stays in a hut and works from there. Works independently, not under someone इत्याशयः) [विशेषणं विशेष्येण बहुलम् (2.1.57) इति कर्मधारयसमासः ] → कौट + तक्षन् + टच् [वर्तमानसूत्रेण टच् इति समासान्तप्रत्ययः] → कौटतक्ष् + अ [नस्तद्धिते (6.4.144) इति टिलोपः] → कौटतक्ष विशेषः - ‘कौट’ इति शब्दः ‘कुट्यां भवः’ इत्यस्मिन् अर्थे प्राग्दीव्यतोऽण् (4.1.83) इति अण्-प्रत्ययं कृत्वा सिद्ध्यति । ज्ञातव्यम् - अन्येषु तत्पुरुषसमासेषु उत्तरपदरूपेण विद्यमानात् ‘तक्षन्’ शब्दात् टच् प्रत्ययः न भवति । यथा - राज्ञः तक्षा = राजतक्षा ।

Vasu English Summary

The affix टच् comes after तक्ष when preceded by 1. ग्राम and 2. कौट in a तत्-पुरुष समास ।

Vasu English Translation

The affix टच् comes after तक्ष when preceded by 1. ग्राम and 2. कौट in a तत्-पुरुष समास । The anuvritti of jati and sanjna does not run into this sutra. Thus, ग्रामस्य तक्षा = ग्रामतक्षः, बहूनां साधारणः ‘the public carpenter of all’. कुट्यां भवः = कौटः; कौटस्य तक्षा = कौटतक्षः meaning स्वतन्त्रः कर्मजीवी, न कस्यचित्प्रातिबद्धः ‘and independent artisan, not particularly bound under engagement to any one’.

Kashika

जातिसंज्ञयोरिति नानुवर्तते। ग्रामकौटाभ्यां परो यस्तक्षन्शब्दस्तदन्तात् तत्पुरुषात् टच् प्रत्ययो भवति। ग्रामस्य तक्षा ग्रामतक्षः। बहूनां साधारण इत्यर्थः। कुट्यां भवः कौटः, तस्य तक्षा कौटतक्षः। स्वतन्त्रः कर्मजीवी, न कस्यचित् प्रतिबद्ध इत्यर्थः। ग्रामकौटाभ्यामिति किम्? राजतक्षा॥

Siddhanta Kaumudi

ग्रामस्य तक्षा ग्रामतक्षः । साधारण इत्यर्थः । कुट्यां भवः कौटः स्वतन्त्रः स चासौ तक्षा च कौटतक्षः ॥

Balamanorama

ग्रामकौटाभ्यां च तक्ष्णः - ग्रामकौटाभ्यां च । आभ्यां टजिति । ग्रामकौटाभ्यां परो यस्तक्षन्शब्दस्तदन्तात्तत्पुरुषाट्टच्स्यादित्यर्थः । ग्रामतक्ष इति । टचि टिलोपः । साधारण इति । ग्रामे यावन्तो जनाः सन्ति तावतां विधेय इत्यर्थः । कुटआं भव इति । कुटीमेकां क्रयादिना सम्पाद्य तत्र यो वसति, न तु परकीयभूमिप्रदेशे स कौट इत्यर्थः । फलितमाह — स्वतन्त्र इति । कौटतक्ष इति । टचि, टिलोपः ।

Tattvabodhini

ग्रामकौटाभ्यां च तक्ष्णः - ग्रामकौटाभ्यां ।जातिसंज्ञयोः॑इति नानुवर्तते । ग्रामेति किम् । राज्ञस्तक्षा राजतक्षा । अतिआ इति । आआनमतिक्रान्तो जेवेनेत्यर्थः ।

Nyaas

बहूनां साधारण इत्यर्थः इति। ग्रामशब्दस्य जनपदसमुदाये वृत्तेः। कौटतक्षः इति। पूर्ववत्समासः॥

Prakriyasarvasvam

टच् स्यात् । बहूनामधीनस्तक्षा ग्रामतक्षः । स्वकुटीस्थितोऽनधीनः कौटतक्षः ।।