54095: ग्रामकौटाभ्यां च तक्ष्णः =============================== **Padacheda:** ग्राम-कौटाभ्याम् | S | 5 | 2 | च | S | 0 | 0 | तक्ष्णः | S | 5 | 1 | Sutrartha --------- **यस्मिन् तत्पुरुषसमासे पूर्वपदम् 'ग्राम' तथा 'कौट' एतयोः किञ्चन अस्ति तथा च उत्तरपदम् 'तक्षन्' इति शब्दः अस्ति, तस्मात् 'टच्' इति समासान्तप्रत्ययः भवति ।** यस्मिन् तत्पुरुषसमासे पूर्वपदम् 'ग्राम' तथा 'कौट' (= कुट्यां भवः इत्याशयः) एतौ शब्दौ स्तः तथा च 'तक्षन्' इति शब्दः अस्ति, तस्मात् 'टच्' इति समासान्तप्रत्ययः भवति । यथा - 1. ग्रामस्य तक्षा (carpenter of the village) [**षष्ठी** (2.2.8) इति षष्ठीतत्पुरुषसमासः] → ग्राम + तक्षन् + टच् [वर्तमानसूत्रेण टच् इति समासान्तप्रत्ययः] → ग्रामतक्ष् + अ [**नस्तद्धिते** (6.4.144) इति टिलोपः] → ग्रामतक्ष ग्रामस्य तक्षा ग्रामतक्षः । 2. कौटश्चासौ तक्षा च (carpenter who stays in a hut and works from there. Works independently, not under someone इत्याशयः) [**विशेषणं विशेष्येण बहुलम्** (2.1.57) इति कर्मधारयसमासः ] → कौट + तक्षन् + टच् [वर्तमानसूत्रेण टच् इति समासान्तप्रत्ययः] → कौटतक्ष् + अ [**नस्तद्धिते** (6.4.144) इति टिलोपः] → कौटतक्ष विशेषः - 'कौट' इति शब्दः 'कुट्यां भवः' इत्यस्मिन् अर्थे **प्राग्दीव्यतोऽण्** (4.1.83) इति अण्-प्रत्ययं कृत्वा सिद्ध्यति । ज्ञातव्यम् - अन्येषु तत्पुरुषसमासेषु उत्तरपदरूपेण विद्यमानात् 'तक्षन्' शब्दात् टच् प्रत्ययः न भवति । यथा - राज्ञः तक्षा = राजतक्षा । Vasu English Summary -------------------- The affix टच् comes after तक्ष when preceded by 1. ग्राम and 2. कौट in a तत्-पुरुष समास । Vasu English Translation ------------------------ The affix टच् comes after तक्ष when preceded by 1. ग्राम and 2. कौट in a तत्-पुरुष समास । The *anuvritti* of *jati* and *sanjna* does not run into this *sutra*. Thus, ग्रामस्य तक्षा = ग्रामतक्षः, बहूनां साधारणः 'the public carpenter of all'. कुट्यां भवः = कौटः; कौटस्य तक्षा = कौटतक्षः meaning स्वतन्त्रः कर्मजीवी, न कस्यचित्प्रातिबद्धः 'and independent artisan, not particularly bound under engagement to any one'. Kashika ------- जातिसंज्ञयोरिति नानुवर्तते। ग्रामकौटाभ्यां परो यस्तक्षन्शब्दस्तदन्तात् तत्पुरुषात् टच् प्रत्ययो भवति। ग्रामस्य तक्षा ग्रामतक्षः। बहूनां साधारण इत्यर्थः। कुट्यां भवः कौटः, तस्य तक्षा कौटतक्षः। स्वतन्त्रः कर्मजीवी, न कस्यचित् प्रतिबद्ध इत्यर्थः। ग्रामकौटाभ्यामिति किम्? राजतक्षा॥ Siddhanta Kaumudi ----------------- ग्रामस्य तक्षा ग्रामतक्षः । साधारण इत्यर्थः । कुट्यां भवः कौटः स्वतन्त्रः स चासौ तक्षा च कौटतक्षः ॥ Balamanorama ------------ **ग्रामकौटाभ्यां च तक्ष्णः** - ग्रामकौटाभ्यां च । आभ्यां टजिति । ग्रामकौटाभ्यां परो यस्तक्षन्शब्दस्तदन्तात्तत्पुरुषाट्टच्स्यादित्यर्थः । ग्रामतक्ष इति । टचि टिलोपः । साधारण इति । ग्रामे यावन्तो जनाः सन्ति तावतां विधेय इत्यर्थः । कुटआं भव इति । कुटीमेकां क्रयादिना सम्पाद्य तत्र यो वसति, न तु परकीयभूमिप्रदेशे स कौट इत्यर्थः । फलितमाह — स्वतन्त्र इति । कौटतक्ष इति । टचि, टिलोपः । Tattvabodhini ------------- **ग्रामकौटाभ्यां च तक्ष्णः** - ग्रामकौटाभ्यां ।जातिसंज्ञयोः॑इति नानुवर्तते । ग्रामेति किम् । राज्ञस्तक्षा राजतक्षा । अतिआ इति । आआनमतिक्रान्तो जेवेनेत्यर्थः । Nyaas ----- `बहूनां साधारण इत्यर्थः` इति। ग्रामशब्दस्य जनपदसमुदाये वृत्तेः। `कौटतक्षः` इति। पूर्ववत्समासः॥ Prakriyasarvasvam ----------------- टच् स्यात् । बहूनामधीनस्तक्षा ग्रामतक्षः । स्वकुटीस्थितोऽनधीनः कौटतक्षः ।।