54094: अनोऽश्मायस्सरसाम् जातिसंज्ञयोः

Padacheda: अनः-अश्म-अयस्-सरसाम् | S | 6 | 3 |

जाति-संज्ञयोः | S | 7 | 2 |

Sutrartha

यस्य तत्पुरुषसमासस्य उत्तरपदरूपेण ‘अनस्’, ‘अश्मन्’, ‘अयस्’ तथा ‘सरस्’ एतेषु कश्चन शब्दः विद्यते, तस्मात् जातौ तथा संज्ञायाम् गम्यमानायाम् ‘टच्’ इति समासान्तप्रत्ययः भवति ।

यस्य तत्पुरुषसमासस्य अन्ते ‘अनस्’ (गृहम्), ‘अश्मन्’, ‘अयस्’ तथा ‘सरस्’ एतेषु कश्चन शब्दः विद्यते, तथा च यत्र समस्तपदेन जातेः उत संज्ञायाः निर्देशः भवति, तत्र ‘टच्’ इति समासान्तप्रत्ययः विधीयते । उदाहरणानि एतादृशानि - 1. उपगतमनः [कुगतिप्रादयः (2.2.18) इति तत्पुरुषसमासः] → उप + अनस् + टच् [वर्तमानसूत्रेण टच् इति समासान्तप्रत्ययः] → उपानस [अकः सवर्णे दीर्घः (6.1.101) इति सवर्णदीर्घः] उपानसम् इति काचन जातिः । 2. महान् च असौ अनः [सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः (2.1.61) इति कर्मधारयसमासः] → महत् + अनस् + टच् [वर्तमानसूत्रेण टच् इति समासान्तप्रत्ययः] → महा + अनस् + अ [आन्महतः समानाधिकरणजातीययोः (6.3.46) इति महत्-शब्दस्य तकारस्य आकारादेशः] → महानस महानस (kichen) इति संज्ञा अस्ति । 3. अमृतं च तद् अश्म [विशेषणं विशेष्येण बहुलम् (2.1.57) इति कर्मधारयसमासः] = अमृत + अश्म + टच् [वर्तमानसूत्रेण टच् इति समासान्तप्रत्ययः] → अमृताश्मन् + अ [अकः सवर्णे दीर्घः (6.1.101) इति सवर्णदीर्घः] → अमृताश्म् + अ [नस्तद्धिते (6.4.144) इति टिलोपः] → अमृताश्म अमृताश्मः इयम् काचन जातिः । 4. पिण्डम् च तद् अश्म [विशेषणं विशेष्येण बहुलम् (2.1.57) इति कर्मधारयसमासः] = पिण्ड + अश्मन् + टच् [वर्तमानसूत्रेण टच् इति समासान्तप्रत्ययः] → पिण्डाश्मन् + अ [अकः सवर्णे दीर्घः (6.1.101) इति सवर्णदीर्घः] → पिण्डाश्म् + अ [नस्तद्धिते (6.4.144) इति टिलोपः] → पिण्डाश्म ‘पिण्डाश्मः’ इति काचन संज्ञा । 5. कालं च तद् अयः [विशेषणं विशेष्येण बहुलम् (2.1.57) इति कर्मधारयसमासः] = काल + अयस् + टच् [वर्तमानसूत्रेण टच् इति समासान्तप्रत्ययः] → कालायस् + अ [अकः सवर्णे दीर्घः (6.1.101) इति सवर्णदीर्घः] → कालायस ‘कालायसम्’ इति लोहस्य कश्चन जातिः । Black iron इत्याशयः । 6. लोहितम् च तद् अयः [विशेषणं विशेष्येण बहुलम् (2.1.57) इति कर्मधारयसमासः] = लोहित + अयस् + टच् [वर्तमानसूत्रेण टच् इति समासान्तप्रत्ययः] → लोहितायस् + अ [अकः सवर्णे दीर्घः (6.1.101) इति सवर्णदीर्घः] → लोहितायस ‘लोहितायसम्’ इति ताम्रस्य संज्ञा अस्ति । Red colored metal इत्याशयः । 7. मण्डूकानाम् सरः [षष्ठी (2.2.8) इति षष्ठीतत्पुरुषः] मण्डूक + सरस् + टच् [वर्तमानसूत्रेण टच् इति समासान्तप्रत्ययः] → मण्डूकसरस मण्डूकसरसम् इति सरसः काचन जातिः । A type of lake that contains lots of frogs इत्याशयः । 8. जलानाम् सरः → जल + सरस् + टच् [वर्तमानसूत्रेण टच् इति समासान्तप्रत्ययः] → जलसरस् + अ → जलसरस → जलसरस जलसरसम् इति काचन संज्ञा । A lake with lot of water इत्यर्थः । यत्र ‘जाति’ उत ‘संज्ञा’ इति अर्थः नास्ति तत्र अस्य सूत्रस्य प्रयोगः न भवति । यथा - ‘सतामनः सदनम्’ अत्र केवलम् ‘गृहम्’ इत्येव अर्थः अस्ति अतः अत्र टच् प्रत्ययः न भवति ।

Vasu English Summary

The affix टच् comes after 1. अनस् 2. अश्मन् 3. अयस् and 4. सरस् when at the end of a तत्-पुरुष समास it denotes a genus or a name.

Vasu English Translation

The affix टच् comes after 1. अनस् 2. अश्मन् 3. अयस् and 4. सरस् when at the end of a तत्-पुरुष समास it denotes a genus or a name. Thus उपानसम्, अमृताश्मः, कालायसम्, and मण्डूकसरसम् are examples of जाति words, while महानसम्, पिण्डाश्मः, लोहितायसम्, and जलसरसम् are examples of संज्ञा ॥

Why do we say “when meaning a jati or a sanjna ?” Observe, सदनः, सदश्माः, सत्सरः ॥

Kashika

अनस् अश्मन् अयस् सरस् इत्येवमन्तात् तत्पुरुषात् टच् प्रत्ययो भवति जातौ संज्ञायां च विषये। उपानसमिति जातिः। महानसमिति संज्ञा। अमृताश्म इति जातिः। पिण्डाश्म इति संज्ञा। कालायसमिति जातिः। लोहितायसमिति संज्ञा। मण्डूकसरसमिति जातिः। जलसरसमिति संज्ञा। जातिसंज्ञयोरिति किम् ? सदनः। सदश्मा। सत्सरः॥

Siddhanta Kaumudi

टच्स्याज्जातौ संज्ञायां च । उपानसम् । अमृताश्मः । कालायसम् । मण्डूकसरसमिति जातिः । महानसम् । पिण्डाश्मः । लोहितायसम् । जलसरसमिति संज्ञा ॥

Balamanorama

अनोऽश्मायस्सरसाम् जातिसंज्ञयोः - अनोऽश्यमायस् । उपानसमिति । उपगतमन इति प्रादिसमासः । अमृताश्म इति । अमृतोऽश्मेति विग्रहः । टचि टिलोपः । कालायसमिति । कालमय इति विग्रहः । टच् ।परवल्लिङ्ग॑मिति नपुंसकत्वम् । मण्डूकसरसमिति । षष्ठीसमासः । टच् । जातिविशेषा एते । महानसं, पिण्डाश्मः, लोहितायसं, जलसरसमिति संज्ञाविशेषाः ।

Padamanjari

जवन इत्यर्थ इत्यादि। विषयविशेषादियमर्थव्यवस्था श्वशब्दस्य ॥

Nyaas

उपानसम् इति। उपगतमन इति प्रादिसमासः। महानसम् इति। महदन इति सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः (2.1.61) इत्यादिना कर्मधारयसमासः। अमृताश्मः, पिण्डाश्मः इति। विशेषणसमासौ। एवं कालायसम् लोहितायसम् इति। मण्डूकसरसम्, जलसरसम् इति। षष्ठीसमासौ। सदनः इति। महानसवत्समासः॥

Prakriyasarvasvam

एतदन्तानां जातौ नाम्नि च टच् स्यात् । उपानसम्, अमृताश्मम्, कालायसम्, मण्डूकसरसमिति जातिः । महानसम्, पिण्डाश्मम्, लोहितायसम्, जलसरसमिति संज्ञा ।।