54090: उत्तमैकाभ्यां च¶
Padacheda: उत्तमैकाभ्याम् | S | 5 | 2 |
च | S | 0 | 0 |
Sutrartha¶
‘पुण्य’ शब्दस्य विषये तथा च ‘एक’ शब्दस्य विषये अहन् शब्दस्य अह्न-आदेशः न भवति ।
अह्नोऽह्न एतेभ्यः (5.4.88) इत्यनेन सूत्रेण तत्पुरुषसमासे उत्तरपदरूपेण विद्यमानस्य अहन्-शब्दस्य ‘अह्न’ इति आदेशः उक्तः अस्ति । अयमादेशः ‘पुण्य’ शब्दस्य विषये तथा ‘एक’ शब्दस्य विषये न भवति । अस्मिन् सूत्रे ‘उत्तम’ तथा ‘एक’ एतौ शब्दौ प्रयुक्तौ स्तः । द्वयोः प्रयोजनम् क्रमेण पश्यामः - [1] ‘उत्तम’शब्दस्य प्रयोजनम् - अह्नोऽह्न एतेभ्यः (5.4.88) अस्मिन् सूत्रे प्रयुक्तः ‘एतेभ्यः’ इति शब्दः अहस्सर्वैकदेशसंख्यातपुण्याच्च रात्रेः (5.4.87) इत्यस्मात् ‘अहस्सर्वैकदेशसंख्यातपुण्याच्च’ इत्यस्य अनुवृत्तिं कारयितुम् स्थापितः अस्ति । परन्तु अस्यां अनुवृत्तौ ‘उत्तम’शब्दस्य (= अन्तिमस्थाने विद्यमानस्य शब्दस्य) शब्दस्य अनुवृत्तिः न स्वीकरणीया - इति वर्तमानसूत्रेण स्पष्टीकर्तुम् वर्तमानसूत्रे ‘उत्तम’ इति शब्दः गृह्यते । The word उत्तम is used here in the meaning of ‘last’ । The last word of अहस्सर्वैकदेशसंख्यातपुण्याच्च, viz ‘पुण्य’ does not cause अहन् to be converted to अह्न - इति अत्र आशयः । यथा - पुण्यमहः [विशेषणं विशेष्येण बहुलम् (2.1.57) इति कर्मधारयसमासः] = पुण्य + अहन् + टच् [राजाहस्सखिभ्यष्टच् (5.4.91) इति टच्] → पुण्याहन् + अ [ अकः सवर्णे दीर्घः (6.1.101) इति सवर्णदीर्घः] → पुण्याह् + अ [नस्तद्धिते (6.4.144) इति टिलोपः] → पुण्याह पुण्यमहः पुण्याहम् । अत्र रात्राह्नाहाः पुंसि (2.4.29) इत्यनेन पुँस्त्वे प्राप्ते <!पुण्यसुदिनाभ्यामह्नः क्लीबता इष्टा!> इत्यनेन नपुंसकलिङ्गं विधीयते । विशेषः - अ) अस्मिन् सूत्रे ‘उत्तम’ इत्यस्य स्थाने ‘पुण्य’ इत्यस्यैव ग्रहणम् वस्तुतः समीचीनमस्ति, तेन सूत्रार्थज्ञाने सम्भ्रमः अपि न जायते । पाणिनिना ‘पुण्य’ इत्यस्य स्थाने ‘उत्तम’ इति कृतः प्रयोगः विचित्रः अस्तीति व्याख्यानैः स्पष्टीक्रियते । अतः कौमुदीकारः वदति - ‘पुण्यैकाभ्यामित्येव सूत्रयितुमुचितम्’ । आ) केचन पण्डिताः अस्मिन् सूत्रे निर्दिष्टस्य ‘उत्तम’ शब्दस्य अन्यत् एकम् प्रयोजनमस्तीति मन्यन्ते । तेषां मतेन अहस्सर्वैकदेशसंख्यातपुण्याच्च रात्रेः (5.4.87) इत्यस्मात् सूत्रात् ‘सङ्ख्यात’ शब्दस्य अह्नोऽह्न एतेभ्यः (5.4.88) इत्यत्र अनुवृत्तिः न करणीया - इति ज्ञापनार्थम् ‘उत्तम’शब्दः अत्र प्रयुक्तः अस्ति । According to some experts, the word ‘उत्तम’ in this sutra is used to block the अनुवृत्ति of संख्यात as well as पुण्य in the sutra अह्नोऽह्न एतेभ्यः (5.4.88) । अतः एतेषां मतेन ‘सङ्ख्यातमहः’ इत्यत्र अहन्-शब्दस्य अह्न-आदेशः न भवति, अतः ‘सङ्ख्याताहः’ इत्येव समस्तपदं सिद्ध्यति । [2] ‘एक’शब्दस्य प्रयोजनम् - यस्मिन् समस्तपदे ‘एक’ इति शब्दः पूर्वपदरूपेण तथा च ‘अहन्’ शब्दः उत्तरपदरूपेण विद्यते, तस्मात् राजाहस्सखिभ्यष्टच् (5.4.91) इत्यनेन टच्-प्रत्यये कृते अहन्-शब्दस्य अह्नोऽह्न एतेभ्यः (5.4.88) इत्यनेन प्राप्तः अह्न-आदेशः वर्तमानसूत्रेण निषिध्यते । यथा - एकमहः [पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे (2.2.1) इत्यनेन एकदेशिसमासः] = एक + अहन् + टच् [राजाहस्सखिभ्यष्टच् (5.4.91) इति टच्] → एकाहन् + अ [ अकः सवर्णे दीर्घः (6.1.101) इति सवर्णदीर्घः] → एकाह् + अ [नस्तद्धिते (6.4.144) इति टिलोपः] → एकाह
Vasu English Summary¶
And also after the word that stands last in the above list (i.e. पुण्य) and एक this substitution does not take place.
Vasu English Translation¶
And also after the word that stands last in the above list (i.e. पुण्य) and एक this substitution does not take place. The word उत्तम means ‘last’; and refers to पुण्य which is the last word in (5.4.87). The word उत्तम ‘last’ is used instead of पुण्य as a वैचित्र ॥ Thus पुण्याहः, एकाहः ॥ Some include the penultimate word संख्यात also in the prohibition. According to them संख्याताहः is the proper form and not संख्याताह्नः ॥
Kashika¶
उत्तमैकशब्दाभ्यां च परस्याह्न इत्ययमादेशो न भवति। उत्तमशब्दोऽन्त्यवचनः पुण्यशब्दमाचष्टे। पुण्यग्रहणमेव न कृतं वैचित्र्यार्थम्। पुण्याहः। एकाहः। केचित् तु उपोत्तमस्यापि प्रतिपत्त्यर्थं वर्णयन्ति। तेन संख्यातशब्दादपि परस्य न भवति — संख्याताह इति॥
Siddhanta Kaumudi¶
आभ्यामह्नादेशो न । उत्तमशब्दोऽन्त्यार्थः । पुण्यशब्दमाह । पुण्यैकाभ्यामित्येव सूत्रयितुमुचितम् । पुण्याहम् । सुदिनाहम् । सुदिनशब्दः प्रशस्तवाची । एकाहः । उत्तमग्रहणमुपान्त्यस्यापि संग्रहार्थमित्येके । संख्याताहः ॥
Balamanorama¶
उत्तमैकाभ्यां च - उत्तमैकाभ्यां च । ननु उत्तमशब्दात्परस्याऽहन्शब्दस्याऽह्नादेशाऽप्रसक्तेरुत्तमग्रहणं व्यर्थमित्यत आह — उत्तमशब्द इति । उत्तमशब्दोऽन्त्ये वर्तते । यथा द्वादशाहेउदयनीयातिरात्र उत्तममहः॑ इति अन्त्यमिति गम्यते ।अहःसर्वैकदेशसङ्ख्यातपुण्या॑दित्युपात्तेषु अन्त्यः पुण्यशब्दो विवक्षित इत्यर्थः । तर्हिपुण्यैकाभ्या॑मित्येव कुतो न सूत्रितमित्याशङ्क्य स्वतन्त्रेच्छत्वान्नमहर्षेरित्याह — पुण्यैकाभ्यामित्येवेति । पुण्याहमिति । पुण्यमहरिति विग्रहे विशेषणसमासः, टच्, टिलोपः ।पुण्यसुदिनाभ्यां चे॑ति नपुंसकत्वम् । एकाह इति । एकमहरिति विग्रहेपूर्वकालैके॑ति समासः । टच् टिलोपः । उपान्त्यस्यापीति ।लक्षणये॑ति शेषः । परुण्येत्यनुक्त्वा उत्तमग्रहणमेव लक्षणाबीजम् । उत्तमे च एकं चेति द्वन्द्वः, सौत्रं द्विवचनमिति भावः । सङ्ख्याताह इति । सङ्ख्यातमहरिति विग्रहे विशेषणसमासः, टच्, टिलोपः । ‘रात्राह्नाहा’ इति पुंस्त्वम् । उपान्त्यसङ्खातशब्दपूर्वकत्वान्नाऽह्नादेशः ।
Tattvabodhini¶
उत्तमैकाभ्यां च - पुण्याहमिति ।पुण्यसुदिनाभ्या॑मिति क्लीबत्वं वक्ष्यति । उपान्त्यस्यापीति । यथाप्रथमयो॑रिति प्रथमाद्वितीययोग्र्रहणं द्विवचननिर्देशात्, तथेहापि उत्तमग्रहणसामर्थ्यादन्त्ययोद्र्वयोग्र्रहणम् । उत्तमौ चैकश्चेति विग्रहे सौत्रं द्विवचनमिति तेषामाशयः ।
Padamanjari¶
केचितत्वित्यादि। यथा’प्रथमयोः’ इति प्रथमाद्वितीययोर्ग्रहणं द्विवचननिर्द्देशात्, तथैवात्राप्युतमग्रहणसामर्थ्यादुपोतमोतमयोर्द्वयोरपि ग्रहणमिति तेपामभिप्रायः। अत्र पक्षे उतमौ द्वावेकश्चापर इति बहुवचनप्रसङ्गात् सौत्रो द्विवचननिर्देशः। एकशब्दस्यापूर्वनिपातः ठल्पाच्तरम्ऽ इत्यस्यानित्यत्वज्ञापनार्थः ॥
Nyaas¶
पुण्याहम् [पुण्याहः - काशिका] इति। विशेषणम्? (2.1.56) इत्यादिना समासः। एकाहः इति। अत्रापि पूर्वकालैक (2.1.48) इत्यादिना। कथं पुनः उत्तमैकाभ्याम् पुण्यशब्दात्? प्रतिषेधो लभ्यते? इत्यत आह - उत्तमशब्दोऽन्त्यवचनः इत्यादि। अहःसर्वेकदेश (5.4.87) इत्यादौ सूत्रे पुण्यशखब्दस्यान्ते नदिष्टत्वात्। अग्त्यः इति। उत्तमशब्देऽपि प्रतिषेधार्थ इहान्त्यवचन उपात्तः। तस्मात्? पुण्यशब्दमाचष्टे। अथ पुण्यग्रहणमेव कस्मान्न कृतम्, लरघु ह्रेवं सूत्रं भवति? इत्याह - पुण्यग्रहणमेव इत्यादि। वैचित्र्यं हि सूत्रकृतेरिष्यते, तच्चोत्तमग्रहणे सति सम्पद्यते। यस्माद्वैचित्र्यार्थमुत्तमग्रहणं कृतम् न पुण्यग्रहणम्। केचि इत्यादि। पुण्यग्रहणे कर्तव्ये यदुत्तमग्रहणं कृतं तत्प्रयोजनम् - उत्तमशब्दस्यापि संखक्यातस्य प्रतिषेधप्रतिपत्तिर्यथा स्यादित्येवं केचिद्वर्णयन्ति। भवति तत्सामीप्यात्? ताच्छब्द्यम् - गङ्गायां घोष इत्यादि। तस्माच्छक्त उत्तमशब्दः सामीप्यादुपोत्तमशब्दमभिधातुमिति तेषामभिप्रायः। तेन इत्यादिना प्रतिषेधस्योपोत्तमशब्दप्रतिपत्तेः पलं दर्शयति॥
Praudhamanorama¶
(उत्तमैकाभ्यां च) ॥ उपान्त्यस्यापीति । यथा ‘प्रथमयोरि’ति प्रथमाद्वितीययोर्ग्रहणं, द्विवचननिर्देशात्, तथेहाऽपि उत्तमग्रहणसामर्थ्यादन्त्ययोर्द्वयोर्ग्रहणम् । ‘उत्तमौ च एकश्चे’ति विग्रहे सौत्रं द्विवचनमिति तेषामाशयः ।
Prakriyasarvasvam¶
उत्तमशब्दोऽन्त्यार्थः । अन्त्यात् पुण्यशब्दादेकाच्च परस्याह्नादेशो न । पुण्याहम् । एकाहः । सङ्ख्याताह इत्यपीष्टम् ।।