54090: उत्तमैकाभ्यां च ====================== **Padacheda:** उत्तमैकाभ्याम् | S | 5 | 2 | च | S | 0 | 0 | Sutrartha --------- **'पुण्य' शब्दस्य विषये तथा च 'एक' शब्दस्य विषये अहन् शब्दस्य अह्न-आदेशः न भवति ।** **अह्नोऽह्न एतेभ्यः** (5.4.88) इत्यनेन सूत्रेण तत्पुरुषसमासे उत्तरपदरूपेण विद्यमानस्य अहन्-शब्दस्य 'अह्न' इति आदेशः उक्तः अस्ति । अयमादेशः 'पुण्य' शब्दस्य विषये तथा 'एक' शब्दस्य विषये न भवति । अस्मिन् सूत्रे 'उत्तम' तथा 'एक' एतौ शब्दौ प्रयुक्तौ स्तः । द्वयोः प्रयोजनम् क्रमेण पश्यामः - [1] 'उत्तम'शब्दस्य प्रयोजनम् - **अह्नोऽह्न एतेभ्यः** (5.4.88) अस्मिन् सूत्रे प्रयुक्तः 'एतेभ्यः' इति शब्दः **अहस्सर्वैकदेशसंख्यातपुण्याच्च रात्रेः** (5.4.87) इत्यस्मात् 'अहस्सर्वैकदेशसंख्यातपुण्याच्च' इत्यस्य अनुवृत्तिं कारयितुम् स्थापितः अस्ति । परन्तु अस्यां अनुवृत्तौ 'उत्तम'शब्दस्य (= अन्तिमस्थाने विद्यमानस्य शब्दस्य) शब्दस्य अनुवृत्तिः न स्वीकरणीया - इति वर्तमानसूत्रेण स्पष्टीकर्तुम् वर्तमानसूत्रे 'उत्तम' इति शब्दः गृह्यते । The word उत्तम is used here in the meaning of 'last' । The last word of अहस्सर्वैकदेशसंख्यातपुण्याच्च, viz 'पुण्य' does not cause अहन् to be converted to अह्न - इति अत्र आशयः । यथा - पुण्यमहः [**विशेषणं विशेष्येण बहुलम्** (2.1.57) इति कर्मधारयसमासः] = पुण्य + अहन् + टच् [**राजाहस्सखिभ्यष्टच्** (5.4.91) इति टच्] → पुण्याहन् + अ [ **अकः सवर्णे दीर्घः** (6.1.101) इति सवर्णदीर्घः] → पुण्याह् + अ [**नस्तद्धिते** (6.4.144) इति टिलोपः] → पुण्याह पुण्यमहः पुण्याहम् । अत्र **रात्राह्नाहाः पुंसि** (2.4.29) इत्यनेन पुँस्त्वे प्राप्ते इत्यनेन नपुंसकलिङ्गं विधीयते । विशेषः - अ) अस्मिन् सूत्रे 'उत्तम' इत्यस्य स्थाने 'पुण्य' इत्यस्यैव ग्रहणम् वस्तुतः समीचीनमस्ति, तेन सूत्रार्थज्ञाने सम्भ्रमः अपि न जायते । पाणिनिना 'पुण्य' इत्यस्य स्थाने 'उत्तम' इति कृतः प्रयोगः विचित्रः अस्तीति व्याख्यानैः स्पष्टीक्रियते । अतः कौमुदीकारः वदति - 'पुण्यैकाभ्यामित्येव सूत्रयितुमुचितम्' । आ) केचन पण्डिताः अस्मिन् सूत्रे निर्दिष्टस्य 'उत्तम' शब्दस्य अन्यत् एकम् प्रयोजनमस्तीति मन्यन्ते । तेषां मतेन **अहस्सर्वैकदेशसंख्यातपुण्याच्च रात्रेः** (5.4.87) इत्यस्मात् सूत्रात् 'सङ्ख्यात' शब्दस्य **अह्नोऽह्न एतेभ्यः** (5.4.88) इत्यत्र अनुवृत्तिः न करणीया - इति ज्ञापनार्थम् 'उत्तम'शब्दः अत्र प्रयुक्तः अस्ति । According to some experts, the word 'उत्तम' in this sutra is used to block the अनुवृत्ति of संख्यात as well as पुण्य in the sutra **अह्नोऽह्न एतेभ्यः** (5.4.88) । अतः एतेषां मतेन 'सङ्ख्यातमहः' इत्यत्र अहन्-शब्दस्य अह्न-आदेशः न भवति, अतः 'सङ्ख्याताहः' इत्येव समस्तपदं सिद्ध्यति । [2] 'एक'शब्दस्य प्रयोजनम् - यस्मिन् समस्तपदे 'एक' इति शब्दः पूर्वपदरूपेण तथा च 'अहन्' शब्दः उत्तरपदरूपेण विद्यते, तस्मात् **राजाहस्सखिभ्यष्टच्** (5.4.91) इत्यनेन टच्-प्रत्यये कृते अहन्-शब्दस्य **अह्नोऽह्न एतेभ्यः** (5.4.88) इत्यनेन प्राप्तः अह्न-आदेशः वर्तमानसूत्रेण निषिध्यते । यथा - एकमहः [**पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे** (2.2.1) इत्यनेन एकदेशिसमासः] = एक + अहन् + टच् [**राजाहस्सखिभ्यष्टच्** (5.4.91) इति टच्] → एकाहन् + अ [ **अकः सवर्णे दीर्घः** (6.1.101) इति सवर्णदीर्घः] → एकाह् + अ [**नस्तद्धिते** (6.4.144) इति टिलोपः] → एकाह Vasu English Summary -------------------- And also after the word that stands last in the above list (i.e. पुण्य) and एक this substitution does not take place. Vasu English Translation ------------------------ And also after the word that stands last in the above list (i.e. पुण्य) and एक this substitution does not take place. The word उत्तम means 'last'; and refers to पुण्य which is the last word in (5.4.87). The word उत्तम 'last' is used instead of पुण्य as a वैचित्र ॥ Thus पुण्याहः, एकाहः ॥ Some include the penultimate word संख्यात also in the prohibition. According to them संख्याताहः is the proper form and not संख्याताह्नः ॥ Kashika ------- उत्तमैकशब्दाभ्यां च परस्याह्न इत्ययमादेशो न भवति। उत्तमशब्दोऽन्त्यवचनः पुण्यशब्दमाचष्टे। पुण्यग्रहणमेव न कृतं वैचित्र्यार्थम्। पुण्याहः। एकाहः। केचित् तु उपोत्तमस्यापि प्रतिपत्त्यर्थं वर्णयन्ति। तेन संख्यातशब्दादपि परस्य न भवति — संख्याताह इति॥ Siddhanta Kaumudi ----------------- आभ्यामह्नादेशो न । उत्तमशब्दोऽन्त्यार्थः । पुण्यशब्दमाह । पुण्यैकाभ्यामित्येव सूत्रयितुमुचितम् । पुण्याहम् । सुदिनाहम् । सुदिनशब्दः प्रशस्तवाची । एकाहः । उत्तमग्रहणमुपान्त्यस्यापि संग्रहार्थमित्येके । संख्याताहः ॥ Balamanorama ------------ **उत्तमैकाभ्यां च** - उत्तमैकाभ्यां च । ननु उत्तमशब्दात्परस्याऽहन्शब्दस्याऽह्नादेशाऽप्रसक्तेरुत्तमग्रहणं व्यर्थमित्यत आह — उत्तमशब्द इति । उत्तमशब्दोऽन्त्ये वर्तते । यथा द्वादशाहेउदयनीयातिरात्र उत्तममहः॑ इति अन्त्यमिति गम्यते ।अहःसर्वैकदेशसङ्ख्यातपुण्या॑दित्युपात्तेषु अन्त्यः पुण्यशब्दो विवक्षित इत्यर्थः । तर्हिपुण्यैकाभ्या॑मित्येव कुतो न सूत्रितमित्याशङ्क्य स्वतन्त्रेच्छत्वान्नमहर्षेरित्याह — पुण्यैकाभ्यामित्येवेति । पुण्याहमिति । पुण्यमहरिति विग्रहे विशेषणसमासः, टच्, टिलोपः ।पुण्यसुदिनाभ्यां चे॑ति नपुंसकत्वम् । एकाह इति । एकमहरिति विग्रहेपूर्वकालैके॑ति समासः । टच् टिलोपः । उपान्त्यस्यापीति ।लक्षणये॑ति शेषः । परुण्येत्यनुक्त्वा उत्तमग्रहणमेव लक्षणाबीजम् । उत्तमे च एकं चेति द्वन्द्वः, सौत्रं द्विवचनमिति भावः । सङ्ख्याताह इति । सङ्ख्यातमहरिति विग्रहे विशेषणसमासः, टच्, टिलोपः । 'रात्राह्नाहा' इति पुंस्त्वम् । उपान्त्यसङ्खातशब्दपूर्वकत्वान्नाऽह्नादेशः । Tattvabodhini ------------- **उत्तमैकाभ्यां च** - पुण्याहमिति ।पुण्यसुदिनाभ्या॑मिति क्लीबत्वं वक्ष्यति । उपान्त्यस्यापीति । यथाप्रथमयो॑रिति प्रथमाद्वितीययोग्र्रहणं द्विवचननिर्देशात्, तथेहापि उत्तमग्रहणसामर्थ्यादन्त्ययोद्र्वयोग्र्रहणम् । उत्तमौ चैकश्चेति विग्रहे सौत्रं द्विवचनमिति तेषामाशयः । Padamanjari ----------- केचितत्वित्यादि। यथा'प्रथमयोः' इति प्रथमाद्वितीययोर्ग्रहणं द्विवचननिर्द्देशात्, तथैवात्राप्युतमग्रहणसामर्थ्यादुपोतमोतमयोर्द्वयोरपि ग्रहणमिति तेपामभिप्रायः। अत्र पक्षे उतमौ द्वावेकश्चापर इति बहुवचनप्रसङ्गात् सौत्रो द्विवचननिर्देशः। एकशब्दस्यापूर्वनिपातः ठल्पाच्तरम्ऽ इत्यस्यानित्यत्वज्ञापनार्थः ॥ Nyaas ----- `पुण्याहम्` [`पुण्याहः` - काशिका] इति। विशेषणम्? (2.1.56) इत्यादिना समासः। `एकाहः` इति। अत्रापि `पूर्वकालैक` (2.1.48) इत्यादिना। कथं पुनः `उत्तमैकाभ्याम्` पुण्यशब्दात्? प्रतिषेधो लभ्यते? इत्यत आह - `उत्तमशब्दोऽन्त्यवचनः` इत्यादि। `अहःसर्वेकदेश` (5.4.87) इत्यादौ सूत्रे पुण्यशखब्दस्यान्ते नदिष्टत्वात्। `अग्त्यः` इति। उत्तमशब्देऽपि प्रतिषेधार्थ इहान्त्यवचन उपात्तः। तस्मात्? पुण्यशब्दमाचष्टे। अथ पुण्यग्रहणमेव कस्मान्न कृतम्, लरघु ह्रेवं सूत्रं भवति? इत्याह - `पुण्यग्रहणमेव` इत्यादि। वैचित्र्यं हि सूत्रकृतेरिष्यते, तच्चोत्तमग्रहणे सति सम्पद्यते। यस्माद्वैचित्र्यार्थमुत्तमग्रहणं कृतम् न पुण्यग्रहणम्। `केचि` इत्यादि। पुण्यग्रहणे कर्तव्ये यदुत्तमग्रहणं कृतं तत्प्रयोजनम् - उत्तमशब्दस्यापि संखक्यातस्य प्रतिषेधप्रतिपत्तिर्यथा स्यादित्येवं केचिद्वर्णयन्ति। भवति तत्सामीप्यात्? ताच्छब्द्यम् - गङ्गायां घोष इत्यादि। तस्माच्छक्त उत्तमशब्दः सामीप्यादुपोत्तमशब्दमभिधातुमिति तेषामभिप्रायः। `तेन` इत्यादिना प्रतिषेधस्योपोत्तमशब्दप्रतिपत्तेः पलं दर्शयति॥ Praudhamanorama --------------- (उत्तमैकाभ्यां च) ॥ **उपान्त्यस्यापीति ।** यथा ‘प्रथमयोरि’ति प्रथमाद्वितीययोर्ग्रहणं, द्विवचननिर्देशात्, तथेहाऽपि उत्तमग्रहणसामर्थ्यादन्त्ययोर्द्वयोर्ग्रहणम् । ‘उत्तमौ च एकश्चे’ति विग्रहे सौत्रं द्विवचनमिति तेषामाशयः । Prakriyasarvasvam ----------------- उत्तमशब्दोऽन्त्यार्थः । अन्त्यात् पुण्यशब्दादेकाच्च परस्याह्नादेशो न । पुण्याहम् । एकाहः । सङ्ख्याताह इत्यपीष्टम् ।।