54089: न संख्यादेः समाहारे

Padacheda: न | S | 0 | 0 |

सङ्ख्यादेः | S | 6 | 1 |

समाहारे | S | 7 | 1 |

Sutrartha

समाहारतत्पुरुषसमासस्य विषये अहन्-शब्दस्य ‘अह्न’ इति आदेशः न भवति ।

अह्नोऽह्न एतेभ्यः (5.4.88) इत्यनेन सूत्रेण तत्पुरुषसमासे उत्तरपदरूपेण विद्यमानस्य अहन्-शब्दस्य ‘अह्न’ इति आदेशः उक्तः अस्ति । अयमादेशः यद्यपि सङ्ख्यावाचकस्य पूर्वपदस्य उपस्थितौ भवितुमर्हति, तथापि समाहारस्य विषये अयमादेशः वर्तमानसूत्रेण निषिध्यते । यथा - द्वयोः अह्नोः समाहारः [तद्धितार्थोत्तरपदसमाहारे च (2.1.51) इति द्विगुसमासः] → द्वि + अहन् + टच् [राजाहस्सखिभ्यष्टच् (5.4.91) इति समासान्तः टच्-प्रत्ययः] → द्व्यहन् + अ [इको यणचि (6.1.77) इति यणादेशः] → द्व्यह् + अ [अह्नष्टखोरेव (6.4.145) इति टिलोपः] → द्व्यह [रात्राह्नाहाः पुंसि (2.4.39) इति पुंस्त्वम् ]

अहन्-शब्दस्य अह्नोऽह्न एतेभ्यः (5.4.88) इत्यनेन प्राप्तः अह्नादेशः नैव भवतीति प्रक्रियाविशेषः अत् स्मर्तव्यः ।

एवमेव - त्रयाणामह्नाम् समाहारः त्र्यहः । स्मर्तव्यम् - ‘द्वाभ्यां अहभ्यामागतः’ एतादृशेषु वाक्येषु द्विगुसमासान्तप्रातिपदिकात् विहितस्य अजादितद्धितप्रत्ययस्य द्विगोर्लुगनपत्ये (4.1.88) इत्यनेन लुक् भवति । यथा - द्वाभ्यां अहभ्यामागतः = द्वि + अहन् + अण् [ततः आगतः (4.3.74) अस्मिन् अर्थे औत्सर्गिकः अण्-प्रत्ययः । तद्धितार्थोत्तरपदसमाहारे च (2.1.51) इति द्विगुः] → द्वि + अहन् + टच् + अण् [राजाहस्सखिभ्यष्टच् (5.4.91) इति समासान्तः टच्-प्रत्ययः] → द्वि + अहन् + टच् [द्विगोर्लुगनपत्ये (4.1.88) इति तद्धितप्रत्ययस्य लुक्] → द्व्यहन् + अ [इको यणचि (6.1.77) इति यणादेशः] → द्व्यह् + अ [अह्नष्टखोरेव (6.4.145) इति टिलोपः] → द्व्यह [रात्राह्नाहाः पुंसि (2.4.39) इति पुंस्त्वम् ]

द्वाभ्यां अहभ्यामागतः द्व्यहः । एवमेव - द्वयोः अह्नोः भवः द्व्यहः ।

,

विशेषः - अस्मिन् सूत्रे ‘सङ्ख्यादेः’ इति पदम् वस्तुतः न आवश्यकम्, यतः तत्पुरुषसमासस्य विषये ‘समाहार’समासः सङ्ख्यादिः एव भवितुमर्हति । अतः केवलं ‘न समाहारे’ इत्येव उच्यते चेदपि पर्याप्तम् । अतएव कौमुद्यामुच्यते - ‘संख्यादेरिति स्पष्टार्थम्’ ।

Vasu English Summary

This substitution of अह्न for अहन् does not take place after a numeral when it forms a collective noun meaning a number of days taken as a unity.

Vasu English Translation

This substitution of अह्न for अहन् does not take place after a numeral when it forms a collective noun meaning a number of days taken as a unity. This substitution is prohibited in the case of Samahara-Tatpurusha. Thus द्वे अहनी समाहृते = द्व्यहः, so also त्र्यहः ॥ Here rule (5.4.9) applies.

Why do we say “when meaning a collective noun?” Observe द्वयोरह्नोर्भवो = द्व्यह्नः, त्र्यह्नः ॥ This is a Taddhitartha Dvigu compound formed by (1.1.5); the affix अण् denoting तत्र भवः (4.3.53) is elided by (4.1.88): and the final अन् of अहन् is elided by (6.1.145).

Kashika

संख्यादेस्तत्पुरुषस्य समाहारे वर्तमानस्याहःशब्दस्याह्नादेशो न भवति। पूर्वेण प्राप्तः प्रतिषिध्यते। द्वे अहनी समाहृते द्व्यहः। त्र्यहः। समाहार इति किम्? द्वयोरह्नोर्भवो द्व्यह्नः। त्र्यह्नः। तद्धितार्थो० (२.१.५१) इति समासे कृतेऽण आगतस्य द्विगोः० (४.१.८८) इति लुक्॥

Siddhanta Kaumudi

समाहारे वर्तमानस्य संख्यादेरह्नादेशो न स्यात् । संख्यादेरिति स्पष्टार्थम् । द्व्योरह्नोः समाहारो द्व्यहः । त्र्यहः ॥

Balamanorama

न संख्याऽऽदेः समाहारे - न सङ्ख्यादेः । अह्नादेश इति । ‘अह्नोऽह्नः’ इत्यतस्तदनुवृत्तेरिति भावः । ननु सङ्ख्यादिभिन्नस्य तत्पुरुषस्य समाहारेऽभावादेव सिद्धे सङ्ख्यादेरिति व्यर्थमित्यत आह — स्पष्टार्थमिति । द्व्यह इति । समाहारे द्विगुः । टच्,रात्राह्ने॑ति पुंस्त्वम् । सङ्ख्यादित्वात्प्राप्तस्याऽह्नादेशस्य निषेधः । त्र्यह इति । त्रयाणामह्नां समाहार इति विग्रहः । समासादि द्व्यहवत् ।

Padamanjari

‘सङ्खयादेः’ इति न वक्तव्यम्; अन्यस्य समाहारे वृत्यसम्भवात् ॥

Nyaas

द्व्यहः इति। अह्नष्टखोरेव (6.4.145) इति टिलोपः॥

Prakriyasarvasvam

इहाह्नादेशो न । द्वयोरह्नोः समाहारो द्व्यहः । त्र्यहः ।।