54089: न संख्यादेः समाहारे ========================== **Padacheda:** न | S | 0 | 0 | सङ्ख्यादेः | S | 6 | 1 | समाहारे | S | 7 | 1 | Sutrartha --------- **समाहारतत्पुरुषसमासस्य विषये अहन्-शब्दस्य 'अह्न' इति आदेशः न भवति ।** **अह्नोऽह्न एतेभ्यः** (5.4.88) इत्यनेन सूत्रेण तत्पुरुषसमासे उत्तरपदरूपेण विद्यमानस्य अहन्-शब्दस्य 'अह्न' इति आदेशः उक्तः अस्ति । अयमादेशः यद्यपि सङ्ख्यावाचकस्य पूर्वपदस्य उपस्थितौ भवितुमर्हति, तथापि समाहारस्य विषये अयमादेशः वर्तमानसूत्रेण निषिध्यते । यथा - द्वयोः अह्नोः समाहारः [**तद्धितार्थोत्तरपदसमाहारे च** (2.1.51) इति द्विगुसमासः] → द्वि + अहन् + टच् [**राजाहस्सखिभ्यष्टच्** (5.4.91) इति समासान्तः टच्-प्रत्ययः] → द्व्यहन् + अ [**इको यणचि** (6.1.77) इति यणादेशः] → द्व्यह् + अ [**अह्नष्टखोरेव** (6.4.145) इति टिलोपः] → द्व्यह [**रात्राह्नाहाः पुंसि** (2.4.39) इति पुंस्त्वम् ] अहन्-शब्दस्य **अह्नोऽह्न एतेभ्यः** (5.4.88) इत्यनेन प्राप्तः अह्नादेशः नैव भवतीति प्रक्रियाविशेषः अत् स्मर्तव्यः । एवमेव - त्रयाणामह्नाम् समाहारः त्र्यहः । स्मर्तव्यम् - 'द्वाभ्यां अहभ्यामागतः' एतादृशेषु वाक्येषु द्विगुसमासान्तप्रातिपदिकात् विहितस्य अजादितद्धितप्रत्ययस्य **द्विगोर्लुगनपत्ये** (4.1.88) इत्यनेन लुक् भवति । यथा - द्वाभ्यां अहभ्यामागतः = द्वि + अहन् + अण् [**ततः आगतः** (4.3.74) अस्मिन् अर्थे औत्सर्गिकः अण्-प्रत्ययः । **तद्धितार्थोत्तरपदसमाहारे च** (2.1.51) इति द्विगुः] → द्वि + अहन् + टच् + अण् [**राजाहस्सखिभ्यष्टच्** (5.4.91) इति समासान्तः टच्-प्रत्ययः] → द्वि + अहन् + टच् [**द्विगोर्लुगनपत्ये** (4.1.88) इति तद्धितप्रत्ययस्य लुक्] → द्व्यहन् + अ [**इको यणचि** (6.1.77) इति यणादेशः] → द्व्यह् + अ [**अह्नष्टखोरेव** (6.4.145) इति टिलोपः] → द्व्यह [**रात्राह्नाहाः पुंसि** (2.4.39) इति पुंस्त्वम् ] द्वाभ्यां अहभ्यामागतः द्व्यहः । एवमेव - द्वयोः अह्नोः भवः द्व्यहः । , विशेषः - अस्मिन् सूत्रे 'सङ्ख्यादेः' इति पदम् वस्तुतः न आवश्यकम्, यतः तत्पुरुषसमासस्य विषये 'समाहार'समासः सङ्ख्यादिः एव भवितुमर्हति । अतः केवलं 'न समाहारे' इत्येव उच्यते चेदपि पर्याप्तम् । अतएव कौमुद्यामुच्यते - 'संख्यादेरिति स्पष्टार्थम्' । Vasu English Summary -------------------- This substitution of अह्न for अहन् does not take place after a numeral when it forms a collective noun meaning a number of days taken as a unity. Vasu English Translation ------------------------ This substitution of अह्न for अहन् does not take place after a numeral when it forms a collective noun meaning a number of days taken as a unity. This substitution is prohibited in the case of *Samahara*-*Tatpurusha*. Thus द्वे अहनी समाहृते = द्व्यहः, so also त्र्यहः ॥ Here rule (5.4.9) applies. Why do we say "when meaning a collective noun?" Observe द्वयोरह्नोर्भवो = द्व्यह्नः, त्र्यह्नः ॥ This is a *Taddhitartha* *Dvigu* compound formed by (1.1.5); the affix अण् denoting तत्र भवः (4.3.53) is elided by (4.1.88): and the final अन् of अहन् is elided by (6.1.145). Kashika ------- संख्यादेस्तत्पुरुषस्य समाहारे वर्तमानस्याहःशब्दस्याह्नादेशो न भवति। पूर्वेण प्राप्तः प्रतिषिध्यते। द्वे अहनी समाहृते द्व्यहः। त्र्यहः। समाहार इति किम्? द्वयोरह्नोर्भवो द्व्यह्नः। त्र्यह्नः। **तद्धितार्थो०** (२.१.५१) इति समासे कृतेऽण आगतस्य **द्विगोः०** (४.१.८८) इति लुक्॥ Siddhanta Kaumudi ----------------- समाहारे वर्तमानस्य संख्यादेरह्नादेशो न स्यात् । संख्यादेरिति स्पष्टार्थम् । द्व्योरह्नोः समाहारो द्व्यहः । त्र्यहः ॥ Balamanorama ------------ **न संख्याऽऽदेः समाहारे** - न सङ्ख्यादेः । अह्नादेश इति । 'अह्नोऽह्नः' इत्यतस्तदनुवृत्तेरिति भावः । ननु सङ्ख्यादिभिन्नस्य तत्पुरुषस्य समाहारेऽभावादेव सिद्धे सङ्ख्यादेरिति व्यर्थमित्यत आह — स्पष्टार्थमिति । द्व्यह इति । समाहारे द्विगुः । टच्,रात्राह्ने॑ति पुंस्त्वम् । सङ्ख्यादित्वात्प्राप्तस्याऽह्नादेशस्य निषेधः । त्र्यह इति । त्रयाणामह्नां समाहार इति विग्रहः । समासादि द्व्यहवत् । Padamanjari ----------- 'सङ्खयादेः' इति न वक्तव्यम्; अन्यस्य समाहारे वृत्यसम्भवात् ॥ Nyaas ----- `द्व्यहः` इति। **अह्नष्टखोरेव** (6.4.145) इति टिलोपः॥ Prakriyasarvasvam ----------------- इहाह्नादेशो न । द्वयोरह्नोः समाहारो द्व्यहः । त्र्यहः ।।