54087: अहस्सर्वैकदेशसंख्यातपुण्याच्च रात्रेः

Padacheda: अहः-सर्व-एकदेश-सङ्ख्यात-पुण्यात् | S | 5 | 1 |

च | S | 0 | 0 |

रात्रेः | S | 5 | 1 |

Sutrartha

यस्य तत्पुरुषसमासस्य पूर्वपदम् ‘अहन्’, ‘सर्व’, ‘सङ्ख्यात’ तथा ‘पुण्य’ एतेषु कश्चन शब्दः , उत एकदेशवाचकः शब्दः / संख्यावाचकः शब्दः / अव्ययवाचकः शब्दः अस्ति, तथा च उत्तरपदम् ‘रात्रि’ इति शब्दः अस्ति, तस्मात् ‘अच्’ इति समासान्तप्रत्ययः भवति ।

अनेन सूत्रेण तत्पुरुषसमासस्य विषये ‘अच्’ इति समासान्तप्रत्ययः विधीयते । यस्मिन् तत्पुरुषसमासे पूर्वपदरूपेण ‘अहन्’ / ‘सर्व’ / ‘सङ्ख्यात’ / ‘पुण्य’ एतेषु कश्चन शब्दः , उत एकदेशवाचकः शब्दः / सङ्ख्यावाचकशब्दः / अव्ययवाचकः शब्दः विद्यते, तथा च उत्तरपदम् ‘रात्रि’ इति शब्दः अस्ति, तस्मात् अच् इति समासान्तप्रत्ययः भवति । उदाहरणानि एतानि - 1. अहश्च रात्रिश्च एतयोः समाहारः [चार्थे द्वन्द्वः (2.2.29) इति द्वन्द्वसमासः । यद्यप्यत्र तत्पुरुषसमासान्ताः प्रत्ययाः पाठ्यते तथापि अहन्-शब्दस्य रात्रि-शब्देन सह तत्पुरुषसमासः नैव भवितुमर्हति । अतः विधानसामर्थ्यात् द्वन्द्वसमासस्य ग्रहणमेव अत्र क्रियते ।] = अहन् + रात्रि + अच् [वर्तमानसूत्रेण अच् इति समासान्तप्रत्ययः।] → अहरुँ + रात्रि + अ [रोऽसुपि (8.2.69) इत्यत्र पाठितेन <!रूपरात्रिरथन्तरेषु रुत्वं वाच्यम्!> इत्यनेन वार्त्तिकेन अहन्-शब्दस्य नकारस्य रुँत्वं भवति ।] → अहर् + रात्रि + अ [उँकारस्य उपदेशेऽजनुनासिक इत (1.3.2) इति इत्संज्ञा । तस्य लोपः (1.3.9) इति लोपः] → अह उ + रात्रि + अ [रेफस्य हशि च (6.1.114) इति उकारः] → अहोरात्रि + अ [आद्गुणः (6.1.87) इति गुण-एकादेशः] → अहोरात्र् + अ [यस्येति च (6.4.148) इति इकारलोपः] → अहोरात्र [स नपुंसकम् (2.4.17) इत्यनेन प्राप्तं नपुंसकलिङ्गम् बाधित्वा रात्राह्नाहाः पुंसि (2.4.29) इत्यनेन पुंस्त्वम् ।] 2. सर्वा रात्रिः [पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन (2.1.48) इति तत्पुरुषसमासः] → सर्वा + रात्रि + अच् [वर्तमानसूत्रेण अच् इति समासान्तप्रत्ययः।] → सर्व + रात्रि + अच् [ <!सर्वनाम्नः वृत्तिमात्रे पुंवद्भावः!> इत्यनेन वार्त्तिकेन पुंवद्भावः] → सर्व + रात् र् + अ [यस्येति च (6.4.148) इति इकारलोपः] → सर्वरात्र [रात्राह्नाहाः पुंसि (2.4.29) इत्यनेन पुंस्त्वम् ।] 3. सङ्ख्याता (counted / measured) रात्रिः [विशेषणं विशेष्येण बहुलम् (2.1.57) इति कर्मधारयसमासः] = सङ्ख्याता + रात्रि + अच् [वर्तमानसूत्रेण अच् इति समासान्तप्रत्ययः] → सङ्ख्यात + रात्रि + अ [पुंवत् कर्मधारयजातीयदेशीयेषु (6.3.42) इति पुंवद्भावः] → सङ्ख्यात + रात् र्+ अ [यस्येति च (6.4.148) इति इकारलोपः] → सङ्ख्यातरात्र [स नपुंसकम् (2.4.17) इत्यनेन प्राप्तं नपुंसकलिङ्गम् बाधित्वा रात्राह्नाहाः पुंसि (2.4.29) इत्यनेन पुंस्त्वम् ।] 4. पुण्या रात्रिः [विशेषणं विशेष्येण बहुलम् (2.1.57) इति कर्मधारयसमासः] = पुण्या + रात्रि + अच् [वर्तमानसूत्रेण अच् इति समासान्तप्रत्ययः] → पुण्य + रात्रि + अ [पुंवत् कर्मधारयजातीयदेशीयेषु (6.3.42) इति पुंवद्भावः] → पुण्य + रात् र् + अ [यस्येति च (6.4.148) इति इकारलोपः] → पुण्यरात्र [स नपुंसकम् (2.4.17) इत्यनेन प्राप्तं नपुंसकलिङ्गम् बाधित्वा रात्राह्नाहाः पुंसि (2.4.29) इत्यनेन पुंस्त्वम् ।] 4. एकदेशवाचकशब्दः (= सः शब्दः येन एकस्य अवयवस्य निर्देशः भवति । A word that is used to indicate a part of a whole. यथा - मध्य, अर्ध, पूर्व, उत्तर, अपर - आदयः) - पूर्वम् रात्रेः [पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे (2.2.1) इति एकदेशिसमासः] = पूर्व + रात्रि + अच् [वर्तमानसूत्रेण अच् इति समासान्तप्रत्ययः] → पूर्व + रात् र् + अच् [यस्येति च (6.4.148) इति इकारलोपः] → पूर्वरात्र [रात्राह्नाहाः पुंसि (2.4.29) इत्यनेन पुंस्त्वम् ।] एवमेव - उत्तरात्रः, मध्यरात्रः, अपररात्रः आदयः शब्दाः अपि सिद्ध्यन्ति । 5. सङ्ख्यावाचकशब्दः - द्वयोः रात्र्योः समाहारः [तद्धितार्थोत्तरपदसमाहारे च (2.1.51) इति द्विगुः] → द्वि + रात्रि + अच् [वर्तमानसूत्रेण अच् इति समासान्तप्रत्ययः] → द्वि + रात् र् + अच् [यस्येति च (6.4.148) इति इकारलोपः] → द्विरात्र [रात्राह्नाहाः पुंसि (2.4.29) इत्यनेन पुंस्त्वम् इति काशिकाकारस्य पक्षः ; संख्यापूर्वा रात्रिः इत्यनेन लिङ्गानुशासनसूत्रेण (लिङ्गानुशासनम् १३२) अत्र नपुंसकम् भवेत् इति कौमुदीमतम् ।] एवमेव - नवरात्रः/नवरात्रम्, पञ्चरात्रः/पञ्चरात्रम् - एते शब्दाः सिद्ध्यन्ति । 6. अव्ययवाचकशब्दः - अतिक्रान्तः रात्रिम् [कुगतिप्रादयः (2.2.18) इत्यत्र पाठितेन <!अत्यादयः क्रान्ताद्यर्थे!> अनेन वार्त्तिकेन तत्पुरुषसमासः] → अति + रात्रि + अच् [वर्तमानसूत्रेण अच् इति समासान्तप्रत्ययः] → अति + रात् र् + अच् [यस्येति च (6.4.148) इति इकारलोपः] → अतिरात्र [रात्राह्नाहाः पुंसि (2.4.29) इत्यनेन पुंस्त्वम् ।] एवमेव - नीरात्रः अयमपि शब्दः सिद्ध्यति ।

Vasu English Summary

The affix अच् comes after the word रात्रि when preceded by अहन् or सर्व or a word denoting a portion of night, or संख्यात or पुण्य when the compound is a तत्-पुरुष as well as when a numeral or an indeclinable precedes रात्रि।

Vasu English Translation

The affix अच् comes after the word रात्रि when preceded by अहन् or सर्व or a word denoting a portion of night, or संख्यात or पुण्य when the compound is a तत्-पुरुष as well as when a numeral or an indeclinable precedes रात्रि। The anuvritti of संख्याव्ययादेः is drawn in to this sutra by force of the word च् “and” of the sutra. The word अहन् forms a Dvandva compound as अहश्च रात्रिश्च = अहोरात्रः “day and night”. So also सर्वरात्रः, पूर्वरात्रः ‘the first part of night’ : अपररात्रः ‘the latter part of night’. These are formed by (2.2.1). So also संख्याता रात्रिः = संख्यातरात्रः ॥ This compound is formed by (2.1.57). So also पुण्या रात्रिः = पुण्यरात्रः । So also when compounded with a Numeral or an Indeclinable : as, द्वे रात्री समाहृते = द्विरात्रः, त्रिरात्रः, अतिक्रान्तो रात्रिम् = अतिरात्रः, नोरात्रः ॥

Bhashya

अहः सर्वैकदेशसंख्यातपुण्याच्च रात्रेः (2364) (5935 अहर्ग्रहणे विशेषार्थबोधककवार्तिकम्॥ 1 ॥) - अहर्ग्रहणं द्वन्द्वार्थम् - (भाष्यम्) अहर्ग्रहणं द्वन्द्वार्थं द्रष्टव्यम्॥ किमुच्यते द्वन्द्वार्थमिति, न पुनस्तत्पुरुषार्थमपि स्यात्? तत्पुरुषाभावात्। न हि रात्र्यन्तोऽहरादिस्तत्पुरुषोऽस्ति॥

Kashika

अहरादिभ्यः परो यो रात्रिशब्दः तदन्तस्य तत्पुरुषस्याच् प्रत्ययो भवति, चकारात् संख्यादेरव्ययादेश्च। अहर्ग्रहणं द्वन्द्वार्थम्। अहश्च रात्रिश्च अहोरात्रः। सर्वरात्रः। एकदेशे — पूर्वं रात्रेः पूर्वरात्रः। अपररात्रः। पूर्वापराधरो० (२.२.१) इति समासः। संख्याता रात्रिः संख्यातरात्रः। विशेषणं विशेष्येण० (२.१.५७) इति समासः। एवं पुण्या रात्रिः पुण्यरात्रः। संख्याव्ययादेः खल्वपि — द्वे रात्री समाहृते द्विरात्रः। त्रिरात्रः। अतिक्रान्तो रात्रिम् अतिरात्रः। नीरात्रः॥

Siddhanta Kaumudi

एभ्यो रात्रेरच् स्याच्चात्संख्याव्ययादेः ।<!अहर्ग्रहणं द्वन्द्वार्थम् !> (वार्तिकम्) ॥ अहश्च रात्रिश्चाहोरात्रः । सर्वा रात्रिः सर्वरात्रः । पूर्वं रात्रेः पूर्वरात्रः । संख्यातरात्रः । पुण्यरात्रः । द्वयोः रात्र्योः समाहारो द्विरात्रम् । अतिक्रान्तो रात्रिमतिरात्रः ॥

Laghu Siddhanta Kaumudi

एभ्यो रात्रेरच् स्याच्चात्संख्याव्ययादेः। अहर्ग्रहणं द्वन्द्वार्थम्॥

Balamanorama

अहस्सर्वैकदेशसंख्यातपुण्याच्च रात्रेः - अहःसर्वैकदेश । एभ्यो रात्रेरिति । अहन्, सर्व, एकदेश, सङ्ख्यात, पुण्य — एभ्यः परस्य रात्रिशब्दस्येत्यर्थः । अहन्नादिपूर्वपदकस्य रात्र्यन्तस्य तत्पुरुषस्येति यावत् । ननु अहरादी रात्र्यन्तस्तत्पुरुषो नास्त्येव, अह्नो रात्रिरिति वा, अहश्चासौ रात्रिश्चेति वा, असंभवादित्यत आह-अहग्र्रहणं द्वन्द्वार्थमिति । नच ब्राहृणो यदहस्तस्यावयवभूता या मानुषीरात्रिरिति षष्ठीतत्पुरुषः संभवतीति वाच्यम्,अहग्रहणं द्वन्द्वार्थ॑मिति भाष्यप्रामाण्येन एवंजातीयकतत्पुरुषस्य प्रयोगाऽभावोन्नयनात् । अहोरात्र इति । द्वन्द्वादच्, इलोपः,जातिरप्राणिना॑मित्येकवत्त्वम् ।स नपुंसक॑मिति बाधित्वारात्राह्नाहाः पुंसी॑ति पुंस्त्वम् । सर्वा रात्रिः सर्वरात्र इति । सर्वा रात्रिरिति विग्रहेपूर्वकालैके॑ति कर्मधारयः । अच् । इकारलोपः ।रात्राह्नाहा॑इति पुंस्त्वम् ।सर्वनाम्नो वृत्तिमात्रे॑ इति पुंवत्त्वम् । एकदेशेत्यर्थग्रहणमित्यभिप्रेत्योदाहरति — पूर्वमिति । पूर्वं रात्रेरिति विग्रहेपूर्वपराधरोत्तर॑मित्येकदेशिसमासः । अच्, इलोपः,रात्राह्ने॑ति पुंस्त्वम् । सङ्ख्यातरात्र इति । सङ्ख्याता रात्रिरिति विग्रहे कर्मधारायः ।पुंवत्कर्मधारये॑ति पुंवत्त्वम् । अच्, इलोपः ।रात्राह्ने॑ति पुंस्त्वम् । द्विरात्रमिति ।तद्धितार्थे॑ति द्विगुः । सङ्ख्यादित्वादच्, इलोपः ।सङ्ख्यापूर्वं रात्रं क्लीब॑मिति नपुंसकत्वम् । अतिरात्र इति ।अत्यादयः क्रान्ताद्यर्थे॑ इति समासः । अव्ययादित्वादच्, इलोपः,रात्राह्ने॑ति पुंस्त्वम् ।

Padamanjari

अहर्ग्रहणं द्वन्द्वार्थमिति। न तु तत्पुरुषार्थम्; मुख्यार्थवृतयोस्तत्पुरुषासम्भवात्। न ह्यस्ति सम्भवः- रात्रिश्चेति, नाप्यहोरात्रिरित्यस्ति। यदि तु रात्रिशब्देन तद्गुणमहरुच्यते अहः शब्देन तद्गुणा रात्रिः, ततः सम्भवेदपिविशेषणसमासः। गौणार्थता तु भवति। न च मुख्ये सम्भवति गौणस्य ग्रहणं युक्तम्, तस्मादहर्ग्रहणं द्वन्द्वार्थम्। तथा च -‘हेमन्तशिशिरावहोरात्रे च च्छन्दसि’ इति द्वन्द्वे समासान्तो निर्द्यिष्टः। अहोरात्र इति। समाहारद्वन्द्वः, रात्राह्नाहाः पंसिऽ, अह्नो रुत्वे रूपरात्रिरथन्तरेषुऽ इति नकारस्य रुत्वम्, तस्य’हशि च’ इत्युत्वम्। द्विरात्र इति। समाहारे द्विगुः। नीरात्र इति। प्रादिसमासः,’ढ्रलोपे पूर्वस्य दीर्घो’ णःऽ ॥

Nyaas

अहग्र्रहणं द्वान्द्वार्थम् इति। इष्टिरियम्। न तत्पुरुषार्थम्; मुख्यार्थे तत्पुरुषस्यासम्भवात्। द्वन्द्वार्थे पदार्थं प्रत्याश्रयः। तथा हि - यद्यहर्गुणा रात्रिरहः शब्देनीच्यते, रात्रिगुणं वाहो रात्रिशब्देन गौण्या कल्पनया, तदाहश्च रात्रिश्चेति समानाधिकरणस्तत्पुरुषः सम्भवत्येव। तस्मादिष्टिरियम्। एतावदुक्तं स्यात् - द्वन्द्व इष्यत इति। अत्र च ज्ञापकम् - हेमन्तशिशिरावहोरात्रे च च्छन्दसि (2.4.28) इति द्वन्द्वे समासन्तस्य रात्रिशब्दस्य निपातनम्। अहोरात्रः इति। रात्राह्नाहाः पुंसि (2.4.29) इति पुंल्लिङ्गता। अहन् (8.2.68) इति रूपरात्रिरथन्तरेषूपसंख्यानम् (वा। 924) इति नकारस्य रुत्वाद्गुणः। सर्वरात्रः इति। पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन (2.1.49) इत्यादिना समानाधिकरणस्तत्पुरुषः। द्विरात्रः इति तद्धितार्थोत्तरपदसमाहारे च (2.1.51) इत्यादिना समाहारे द्विगुः, द्विगुश्च (2.1.23) इति तत्पुरुषसंज्ञा। अतिरात्रः इति। अत्यध्वमित्यनेन तुल्यमेत्। नीरात्रः इति। रोरि (8.3.14) इति रेफलोपः। ढ्रलोपे पूर्वस्य दीर्घोऽणः (6.3.111) इति दीर्घः॥

Praudhamanorama

(अहस्सर्वैकदेशसंख्यातपुण्याच्च रात्रेः) ॥ द्वन्द्वार्थमिति । तत्पुरुषस्याऽसम्भवादिति भावः । ननु अहश्चाऽसौ रात्रिश्चेति कर्मधारयोऽस्तु । पूर्वोत्तरपदयोरन्यतरस्य गौणत्वसम्भवादिति चेत् न । मुख्यसम्भवे गौणग्रहणाऽयोगात् । ‘हेमन्तशिशिरावहोरात्रे च च्छन्दसी’ति सूत्रे द्वन्द्वे समासाऽन्तदर्शनाच्च । अहोरात्र इति । ‘जातिरप्राणिनामि’ ति समाहारद्वन्द्वः । ‘रात्राह्नाहा’ इति पुंस्त्वम् । यत्तु प्राचोक्तम् एकवद्भावात्क्लीबता’ इति । तन्न । ‘स नपुंसकमि’- त्यस्य रात्राह्नाहा” इति पुंस्त्वेन परत्वाद्बाध इति वक्ष्यमाणत्वात् । आकरविरोधाच्च । द्विरात्रमिति । सङ्ख्यापूर्वं रात्रं क्लीबमिति वक्ष्यते ।

Prakriyasarvasvam

एभ्यो रात्रेरच् स्यात् । चकारात् सङ्ख्याव्ययादेश्च ।।

Vartika

अहर्ग्रहणं द्वन्द्वार्थम् ।

Sutra Prayogas

  • पश्चिमरात्रिगोचरात् (किरातार्जुनीयम्): अहःसर्वैकदेशसंख्यातपुण्याच्च रात्रेः इति सूत्रेण अत्र समासान्तो न भवति।

  • सर्वरात्रम् (शिशुपालवधम्): अहःसर्वैकदेशसंख्यातपुण्याच्च रात्रेः इति समासान्तः।

  • सर्व-रात्र-कल्यान्यः (भट्टिकाव्यम्): अहः सर्व इत्यादिना अच्।