54087: अहस्सर्वैकदेशसंख्यातपुण्याच्च रात्रेः ============================================ **Padacheda:** अहः-सर्व-एकदेश-सङ्ख्यात-पुण्यात् | S | 5 | 1 | च | S | 0 | 0 | रात्रेः | S | 5 | 1 | Sutrartha --------- **यस्य तत्पुरुषसमासस्य पूर्वपदम् 'अहन्', 'सर्व', 'सङ्ख्यात' तथा 'पुण्य' एतेषु कश्चन शब्दः , उत एकदेशवाचकः शब्दः / संख्यावाचकः शब्दः / अव्ययवाचकः शब्दः अस्ति, तथा च उत्तरपदम् 'रात्रि' इति शब्दः अस्ति, तस्मात् 'अच्' इति समासान्तप्रत्ययः भवति ।** अनेन सूत्रेण तत्पुरुषसमासस्य विषये 'अच्' इति समासान्तप्रत्ययः विधीयते । यस्मिन् तत्पुरुषसमासे पूर्वपदरूपेण 'अहन्' / 'सर्व' / 'सङ्ख्यात' / 'पुण्य' एतेषु कश्चन शब्दः , उत एकदेशवाचकः शब्दः / सङ्ख्यावाचकशब्दः / अव्ययवाचकः शब्दः विद्यते, तथा च उत्तरपदम् 'रात्रि' इति शब्दः अस्ति, तस्मात् अच् इति समासान्तप्रत्ययः भवति । उदाहरणानि एतानि - 1. अहश्च रात्रिश्च एतयोः समाहारः [**चार्थे द्वन्द्वः** (2.2.29) इति द्वन्द्वसमासः । यद्यप्यत्र तत्पुरुषसमासान्ताः प्रत्ययाः पाठ्यते तथापि अहन्-शब्दस्य रात्रि-शब्देन सह तत्पुरुषसमासः नैव भवितुमर्हति । अतः विधानसामर्थ्यात् द्वन्द्वसमासस्य ग्रहणमेव अत्र क्रियते ।] = अहन् + रात्रि + अच् [वर्तमानसूत्रेण अच् इति समासान्तप्रत्ययः।] → अहरुँ + रात्रि + अ [**रोऽसुपि** (8.2.69) इत्यत्र पाठितेन इत्यनेन वार्त्तिकेन अहन्-शब्दस्य नकारस्य रुँत्वं भवति ।] → अहर् + रात्रि + अ [उँकारस्य **उपदेशेऽजनुनासिक इत** (1.3.2) इति इत्संज्ञा । **तस्य लोपः** (1.3.9) इति लोपः] → अह उ + रात्रि + अ [रेफस्य **हशि च** (6.1.114) इति उकारः] → अहोरात्रि + अ [**आद्गुणः** (6.1.87) इति गुण-एकादेशः] → अहोरात्र् + अ [**यस्येति च** (6.4.148) इति इकारलोपः] → अहोरात्र [**स नपुंसकम्** (2.4.17) इत्यनेन प्राप्तं नपुंसकलिङ्गम् बाधित्वा **रात्राह्नाहाः पुंसि** (2.4.29) इत्यनेन पुंस्त्वम् ।] 2. सर्वा रात्रिः [**पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन** (2.1.48) इति तत्पुरुषसमासः] → सर्वा + रात्रि + अच् [वर्तमानसूत्रेण अच् इति समासान्तप्रत्ययः।] → सर्व + रात्रि + अच् [ इत्यनेन वार्त्तिकेन पुंवद्भावः] → सर्व + रात् र् + अ [**यस्येति च** (6.4.148) इति इकारलोपः] → सर्वरात्र [**रात्राह्नाहाः पुंसि** (2.4.29) इत्यनेन पुंस्त्वम् ।] 3. सङ्ख्याता (counted / measured) रात्रिः [**विशेषणं विशेष्येण बहुलम्** (2.1.57) इति कर्मधारयसमासः] = सङ्ख्याता + रात्रि + अच् [वर्तमानसूत्रेण अच् इति समासान्तप्रत्ययः] → सङ्ख्यात + रात्रि + अ [**पुंवत् कर्मधारयजातीयदेशीयेषु** (6.3.42) इति पुंवद्भावः] → सङ्ख्यात + रात् र्+ अ [**यस्येति च** (6.4.148) इति इकारलोपः] → सङ्ख्यातरात्र [**स नपुंसकम्** (2.4.17) इत्यनेन प्राप्तं नपुंसकलिङ्गम् बाधित्वा **रात्राह्नाहाः पुंसि** (2.4.29) इत्यनेन पुंस्त्वम् ।] 4. पुण्या रात्रिः [**विशेषणं विशेष्येण बहुलम्** (2.1.57) इति कर्मधारयसमासः] = पुण्या + रात्रि + अच् [वर्तमानसूत्रेण अच् इति समासान्तप्रत्ययः] → पुण्य + रात्रि + अ [**पुंवत् कर्मधारयजातीयदेशीयेषु** (6.3.42) इति पुंवद्भावः] → पुण्य + रात् र् + अ [**यस्येति च** (6.4.148) इति इकारलोपः] → पुण्यरात्र [**स नपुंसकम्** (2.4.17) इत्यनेन प्राप्तं नपुंसकलिङ्गम् बाधित्वा **रात्राह्नाहाः पुंसि** (2.4.29) इत्यनेन पुंस्त्वम् ।] 4. एकदेशवाचकशब्दः (= सः शब्दः येन एकस्य अवयवस्य निर्देशः भवति । A word that is used to indicate a part of a whole. यथा - मध्य, अर्ध, पूर्व, उत्तर, अपर - आदयः) - पूर्वम् रात्रेः [**पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे** (2.2.1) इति एकदेशिसमासः] = पूर्व + रात्रि + अच् [वर्तमानसूत्रेण अच् इति समासान्तप्रत्ययः] → पूर्व + रात् र् + अच् [**यस्येति च** (6.4.148) इति इकारलोपः] → पूर्वरात्र [**रात्राह्नाहाः पुंसि** (2.4.29) इत्यनेन पुंस्त्वम् ।] एवमेव - उत्तरात्रः, मध्यरात्रः, अपररात्रः आदयः शब्दाः अपि सिद्ध्यन्ति । 5. सङ्ख्यावाचकशब्दः - द्वयोः रात्र्योः समाहारः [**तद्धितार्थोत्तरपदसमाहारे च** (2.1.51) इति द्विगुः] → द्वि + रात्रि + अच् [वर्तमानसूत्रेण अच् इति समासान्तप्रत्ययः] → द्वि + रात् र् + अच् [**यस्येति च** (6.4.148) इति इकारलोपः] → द्विरात्र [**रात्राह्नाहाः पुंसि** (2.4.29) इत्यनेन पुंस्त्वम् इति काशिकाकारस्य पक्षः ; **संख्यापूर्वा रात्रिः** इत्यनेन लिङ्गानुशासनसूत्रेण (लिङ्गानुशासनम् १३२) अत्र नपुंसकम् भवेत् इति कौमुदीमतम् ।] एवमेव - नवरात्रः/नवरात्रम्, पञ्चरात्रः/पञ्चरात्रम् - एते शब्दाः सिद्ध्यन्ति । 6. अव्ययवाचकशब्दः - अतिक्रान्तः रात्रिम् [**कुगतिप्रादयः** (2.2.18) इत्यत्र पाठितेन अनेन वार्त्तिकेन तत्पुरुषसमासः] → अति + रात्रि + अच् [वर्तमानसूत्रेण अच् इति समासान्तप्रत्ययः] → अति + रात् र् + अच् [**यस्येति च** (6.4.148) इति इकारलोपः] → अतिरात्र [**रात्राह्नाहाः पुंसि** (2.4.29) इत्यनेन पुंस्त्वम् ।] एवमेव - नीरात्रः अयमपि शब्दः सिद्ध्यति । Vasu English Summary -------------------- The affix अच् comes after the word रात्रि when preceded by अहन् or सर्व or a word denoting a portion of night, or संख्यात or पुण्य when the compound is a तत्-पुरुष as well as when a numeral or an indeclinable precedes रात्रि। Vasu English Translation ------------------------ The affix अच् comes after the word रात्रि when preceded by अहन् or सर्व or a word denoting a portion of night, or संख्यात or पुण्य when the compound is a तत्-पुरुष as well as when a numeral or an indeclinable precedes रात्रि। The *anuvritti* of संख्याव्ययादेः is drawn in to this *sutra* by force of the word च् "and" of the *sutra*. The word अहन् forms a *Dvandva* compound as अहश्च रात्रिश्च = अहोरात्रः "day and night". So also सर्वरात्रः, पूर्वरात्रः 'the first part of night' : अपररात्रः 'the latter part of night'. These are formed by (2.2.1). So also संख्याता रात्रिः = संख्यातरात्रः ॥ This compound is formed by (2.1.57). So also पुण्या रात्रिः = पुण्यरात्रः । So also when compounded with a Numeral or an Indeclinable : as, द्वे रात्री समाहृते = द्विरात्रः, त्रिरात्रः, अतिक्रान्तो रात्रिम् = अतिरात्रः, नोरात्रः ॥ Bhashya ------- अहः सर्वैकदेशसंख्यातपुण्याच्च रात्रेः (2364) (5935 अहर्ग्रहणे विशेषार्थबोधककवार्तिकम्॥ 1 ॥) - अहर्ग्रहणं द्वन्द्वार्थम् - (भाष्यम्) अहर्ग्रहणं द्वन्द्वार्थं द्रष्टव्यम्॥ किमुच्यते द्वन्द्वार्थमिति, न पुनस्तत्पुरुषार्थमपि स्यात्? तत्पुरुषाभावात्। न हि रात्र्यन्तोऽहरादिस्तत्पुरुषोऽस्ति॥ Kashika ------- अहरादिभ्यः परो यो रात्रिशब्दः तदन्तस्य तत्पुरुषस्याच् प्रत्ययो भवति, चकारात् संख्यादेरव्ययादेश्च। अहर्ग्रहणं द्वन्द्वार्थम्। अहश्च रात्रिश्च अहोरात्रः। सर्वरात्रः। एकदेशे — पूर्वं रात्रेः पूर्वरात्रः। अपररात्रः। **पूर्वापराधरो०** (२.२.१) इति समासः। संख्याता रात्रिः संख्यातरात्रः। **विशेषणं विशेष्येण०** (२.१.५७) इति समासः। एवं पुण्या रात्रिः पुण्यरात्रः। संख्याव्ययादेः खल्वपि — द्वे रात्री समाहृते द्विरात्रः। त्रिरात्रः। अतिक्रान्तो रात्रिम् अतिरात्रः। नीरात्रः॥ Siddhanta Kaumudi ----------------- एभ्यो रात्रेरच् स्याच्चात्संख्याव्ययादेः । (वार्तिकम्) ॥ अहश्च रात्रिश्चाहोरात्रः । सर्वा रात्रिः सर्वरात्रः । पूर्वं रात्रेः पूर्वरात्रः । संख्यातरात्रः । पुण्यरात्रः । द्वयोः रात्र्योः समाहारो द्विरात्रम् । अतिक्रान्तो रात्रिमतिरात्रः ॥ Laghu Siddhanta Kaumudi ----------------------- एभ्यो रात्रेरच् स्याच्चात्संख्याव्ययादेः। अहर्ग्रहणं द्वन्द्वार्थम्॥ Balamanorama ------------ **अहस्सर्वैकदेशसंख्यातपुण्याच्च रात्रेः** - अहःसर्वैकदेश । एभ्यो रात्रेरिति । अहन्, सर्व, एकदेश, सङ्ख्यात, पुण्य — एभ्यः परस्य रात्रिशब्दस्येत्यर्थः । अहन्नादिपूर्वपदकस्य रात्र्यन्तस्य तत्पुरुषस्येति यावत् । ननु अहरादी रात्र्यन्तस्तत्पुरुषो नास्त्येव, अह्नो रात्रिरिति वा, अहश्चासौ रात्रिश्चेति वा, असंभवादित्यत आह-अहग्र्रहणं द्वन्द्वार्थमिति । नच ब्राहृणो यदहस्तस्यावयवभूता या मानुषीरात्रिरिति षष्ठीतत्पुरुषः संभवतीति वाच्यम्,अहग्रहणं द्वन्द्वार्थ॑मिति भाष्यप्रामाण्येन एवंजातीयकतत्पुरुषस्य प्रयोगाऽभावोन्नयनात् । अहोरात्र इति । द्वन्द्वादच्, इलोपः,जातिरप्राणिना॑मित्येकवत्त्वम् ।स नपुंसक॑मिति बाधित्वारात्राह्नाहाः पुंसी॑ति पुंस्त्वम् । सर्वा रात्रिः सर्वरात्र इति । सर्वा रात्रिरिति विग्रहेपूर्वकालैके॑ति कर्मधारयः । अच् । इकारलोपः ।रात्राह्नाहा॑इति पुंस्त्वम् ।सर्वनाम्नो वृत्तिमात्रे॑ इति पुंवत्त्वम् । एकदेशेत्यर्थग्रहणमित्यभिप्रेत्योदाहरति — पूर्वमिति । पूर्वं रात्रेरिति विग्रहेपूर्वपराधरोत्तर॑मित्येकदेशिसमासः । अच्, इलोपः,रात्राह्ने॑ति पुंस्त्वम् । सङ्ख्यातरात्र इति । सङ्ख्याता रात्रिरिति विग्रहे कर्मधारायः ।पुंवत्कर्मधारये॑ति पुंवत्त्वम् । अच्, इलोपः ।रात्राह्ने॑ति पुंस्त्वम् । द्विरात्रमिति ।तद्धितार्थे॑ति द्विगुः । सङ्ख्यादित्वादच्, इलोपः ।सङ्ख्यापूर्वं रात्रं क्लीब॑मिति नपुंसकत्वम् । अतिरात्र इति ।अत्यादयः क्रान्ताद्यर्थे॑ इति समासः । अव्ययादित्वादच्, इलोपः,रात्राह्ने॑ति पुंस्त्वम् । Padamanjari ----------- अहर्ग्रहणं द्वन्द्वार्थमिति। न तु तत्पुरुषार्थम्; मुख्यार्थवृतयोस्तत्पुरुषासम्भवात्। न ह्यस्ति सम्भवः- रात्रिश्चेति, नाप्यहोरात्रिरित्यस्ति। यदि तु रात्रिशब्देन तद्गुणमहरुच्यते अहः शब्देन तद्गुणा रात्रिः, ततः सम्भवेदपिविशेषणसमासः। गौणार्थता तु भवति। न च मुख्ये सम्भवति गौणस्य ग्रहणं युक्तम्, तस्मादहर्ग्रहणं द्वन्द्वार्थम्। तथा च -'हेमन्तशिशिरावहोरात्रे च च्छन्दसि' इति द्वन्द्वे समासान्तो निर्द्यिष्टः। अहोरात्र इति। समाहारद्वन्द्वः, रात्राह्नाहाः पंसिऽ, अह्नो रुत्वे रूपरात्रिरथन्तरेषुऽ इति नकारस्य रुत्वम्, तस्य'हशि च' इत्युत्वम्। द्विरात्र इति। समाहारे द्विगुः। नीरात्र इति। प्रादिसमासः,'ढ्रलोपे पूर्वस्य दीर्घो' णःऽ ॥ Nyaas ----- `अहग्र्रहणं द्वान्द्वार्थम्` इति। इष्टिरियम्। न तत्पुरुषार्थम्; मुख्यार्थे तत्पुरुषस्यासम्भवात्। द्वन्द्वार्थे पदार्थं प्रत्याश्रयः। तथा हि - यद्यहर्गुणा रात्रिरहः शब्देनीच्यते, रात्रिगुणं वाहो रात्रिशब्देन गौण्या कल्पनया, तदाहश्च रात्रिश्चेति समानाधिकरणस्तत्पुरुषः सम्भवत्येव। तस्मादिष्टिरियम्। एतावदुक्तं स्यात् - द्वन्द्व इष्यत इति। अत्र च ज्ञापकम् - **हेमन्तशिशिरावहोरात्रे च च्छन्दसि** (2.4.28) इति द्वन्द्वे समासन्तस्य रात्रिशब्दस्य निपातनम्। `अहोरात्रः` इति। **रात्राह्नाहाः पुंसि** (2.4.29) इति पुंल्लिङ्गता। `अहन्` (8.2.68) इति `रूपरात्रिरथन्तरेषूपसंख्यानम्` (वा। 924) इति नकारस्य रुत्वाद्गुणः। `सर्वरात्रः` इति। **पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन** (2.1.49) इत्यादिना समानाधिकरणस्तत्पुरुषः। `द्विरात्रः` इति **तद्धितार्थोत्तरपदसमाहारे च** (2.1.51) इत्यादिना समाहारे द्विगुः, **द्विगुश्च** (2.1.23) इति तत्पुरुषसंज्ञा। `अतिरात्रः` इति। अत्यध्वमित्यनेन तुल्यमेत्। `नीरात्रः` इति। `रोरि` (8.3.14) इति रेफलोपः। **ढ्रलोपे पूर्वस्य दीर्घोऽणः** (6.3.111) इति दीर्घः॥ Praudhamanorama --------------- (अहस्सर्वैकदेशसंख्यातपुण्याच्च रात्रेः) ॥ **द्वन्द्वार्थमिति ।** तत्पुरुषस्याऽसम्भवादिति भावः । ननु अहश्चाऽसौ रात्रिश्चेति कर्मधारयोऽस्तु । पूर्वोत्तरपदयोरन्यतरस्य गौणत्वसम्भवादिति चेत् न । मुख्यसम्भवे गौणग्रहणाऽयोगात् । ‘हेमन्तशिशिरावहोरात्रे च च्छन्दसी’ति सूत्रे द्वन्द्वे समासाऽन्तदर्शनाच्च । **अहोरात्र इति ।** ‘जातिरप्राणिनामि’ ति समाहारद्वन्द्वः । ‘रात्राह्नाहा’ इति पुंस्त्वम् । यत्तु प्राचोक्तम् एकवद्भावात्क्लीबता’ इति । तन्न । ‘स नपुंसकमि’- त्यस्य रात्राह्नाहा” इति पुंस्त्वेन परत्वाद्बाध इति वक्ष्यमाणत्वात् । आकरविरोधाच्च । **द्विरात्रमिति ।** सङ्ख्यापूर्वं रात्रं क्लीबमिति वक्ष्यते । Prakriyasarvasvam ----------------- एभ्यो रात्रेरच् स्यात् । चकारात् सङ्ख्याव्ययादेश्च ।। Vartika ------- अहर्ग्रहणं द्वन्द्वार्थम् । Sutra Prayogas -------------- * **पश्चिमरात्रिगोचरात्** (किरातार्जुनीयम्): `अहःसर्वैकदेशसंख्यातपुण्याच्च रात्रेः` इति सूत्रेण अत्र समासान्तो न भवति। * **सर्वरात्रम्** (शिशुपालवधम्): `अहःसर्वैकदेशसंख्यातपुण्याच्च रात्रेः` इति समासान्तः। * **सर्व-रात्र-कल्यान्यः** (भट्टिकाव्यम्): `अहः सर्व` इत्यादिना अच्।