54086: तत्पुरुषस्याङ्गुलेः संख्याव्ययादेः¶
Padacheda: तत्पुरुषस्य | S | 6 | 1 |
अङ्गुलेः | S | 6 | 1 |
सङ्ख्या-अव्ययादेः | S | 6 | 1 |
Sutrartha¶
यस्मिन् तत्पुरुषसमासे पूर्वपदम् सङ्ख्यावाचकशब्दः उत अव्ययवाचकः शब्दः अस्ति, उत्तरपदम् च ‘अङ्गुलि’ इति शब्दः विद्यते, तस्मात् ‘अच्’ इति समासान्तप्रत्ययः विधीयते ।
यस्मिन् तत्पुरुषसमासे पूर्वपदरूपेण कश्चन सङ्ख्यावाचकः शब्दः अव्ययवाचकः वा शब्दः विद्यते, उत्तरपदरूपेण च ‘अङ्गुलि’ इति शब्दः विद्यते, तस्मात् ‘अच्’ इति समासान्तप्रत्ययः भवति । यथा - 1. द्वे अङ्गुली प्रमाणमस्य [तद्धितार्थोत्तरपदसमाहारे च (2.1.51) इति तत्पुरुषसमासः] → द्वि + अङ्गुलि + मात्रच् [प्रमाणे द्वयसज्दघ्नञ्मात्रचः (5.2.37) इत्यनेन ‘प्रमाणमस्य’ इत्यस्मिन् अर्थे मात्रच् प्रत्ययः भवति । अत्र विधानसामर्थ्यात् केवलम् मात्रच्-प्रत्ययः एव भवति, अन्यौ प्रत्ययौ न भवतः । ] → द्वि + अङ्गुलि [प्रमाणे द्वयसज्दघ्नञ्मात्रचः (5.2.37) इत्यत्र पाठितेन <!द्विगोर्नित्यम्!> इति वार्त्तिकेन मात्रच्-प्रत्ययस्य लुक् विधीयते ।] → द्वि + अङ्गुलि+ अच् [वर्तमानसूत्रेण समासान्तः अच्-प्रत्ययः] → द्व्यङ्गुलि + अ [इको यणचि (6.1.77) इति यणादेशः] → द्व्यङ्गुल् + अ [यस्येति च (6.4.148) इति इकारलोपः] → द्व्यङ्गुल
द्वे अङ्गुली प्रमाणमस्य द्व्यङ्गुलः स्तम्भः ।
एवमेव - त्रयः अङ्गुलयः प्रमाणमस्य सः त्र्यङ्गुलः । दश अङ्गुलयः प्रमाणमस्य सः दशाङ्गुलः । 2. निर्गतमङ्गुलिभ्यः इति [<!निरादयो गताद्यर्थे पञ्चम्या!> इति वार्त्तिकेन तत्पुरुषसमासः] → निर् + अङ्गुलि + अच् [वर्तमानसूत्रेण अच् इति समासान्तप्रत्ययः] → निरङ्गुल् + अच् [यस्येति च (6.4.148) इति इकारलोपः] → निरङ्गुल अङ्गुलिभ्यः निर्गतम् तत् निरङ्गुलम् । एवमेव - अतिगता अङ्गुलिः तत् अत्यङ्गुलम् । स्मर्तव्यम् - अस्य सूत्रस्य प्रसक्तिः केवलम् तत्पुरुषसमासस्य विषये एव विद्यते । अतः - द्वे अङ्गुुली अस्य / पञ्च अङ्गुलयः यस्य / अतिगताः अङ्गुल्यः यस्य’- इत्यत्र अच्-प्रत्ययः न भवति, अपितु केवलम् पूर्वपद-उत्तरपदयोः मेलनेनैव समासः जायते । यथा - द्वे अङ्गुली अस्य सः द्व्यङ्गुलिः ।
Vasu English Summary¶
The affix अच् comes after a तत्-पुरुष समास ending in the word अङ्गुलि when a numeral or an indeclinable precedes it.
Vasu English Translation¶
The affix अच् comes after a तत्-पुरुष समास ending in the word अङ्गुलि when a numeral or an indeclinable precedes it. Thus द्वे अंगुलो प्रमाणमस्य = द्व्यंगुलम्, त्र्यंगुलम् ॥ This compounding takes place by (2.1.51). This is a Tadhitartha compound, the taddhita affix मात्रच् being elided by the Vartika प्रमाणे लो द्विगोर्नित्यम् “there is always the elision of the affix मात्रच् denoting measure when a Dvigu compound is formed”. See (5.2.37) Vart.)). So also when an Indeclinable precedes it: as निर्गामंगुलिभ्यो = निरंगुलम्, अत्यंगुलिः पुरुषः ॥ Why do we say when a Tatpurusha compound? Observe पंचांगुलिः, अत्यंगुलिः पुरुषः ॥ The word “Tatpurusha” is understood in all the subsequent sutras up to (5.4.106).
Kashika¶
अङ्गुलिशब्दान्तस्य तत्पुरुषस्य संख्यादेरव्ययादेश्चाच् प्रत्ययो भवति। द्वे अङ्गुली प्रमाणमस्य द्व्यङ्गुलम्। त्र्यङ्गुलम्। तद्धितार्थो० (२.१.५१) इति समासः। प्रमाणे लो द्विगोर्नित्यम् (वा०५.२.३७) इति मात्रचो लोपः। अव्ययादेः — निर्गतमङ्गुलिभ्यो निरङ्गुलम्। अत्यङ्गुलम्। तत्पुरुषस्येति किम् ? पञ्चाङ्गुलिः। अत्यङ्गुलिः पुरुषः। तत्पुरुषाधिकारश्च द्वन्द्वाच्चुदषहान्ताद्० (५.४.१०६) इति यावत्॥
Siddhanta Kaumudi¶
संख्याव्ययादेरङ्गुल्यन्तस्य तत्पुरुषस्य समासान्तोऽच् स्यात् । द्वे अङ्गुली प्रमाणमस्य द्व्यङ्गुलं दारु । निर्गतमङ्गुलिभ्यो निरङ्गुलम् ॥
Laghu Siddhanta Kaumudi¶
संख्याव्ययादेरङ्गुल्यन्तस्य समासान्तोऽच् स्यात्। द्वे अङ्गुली प्रमाणमस्य द्व्यङ्गुलम्। निर्गतमङ्गुल्यो निरङ्गुलम्॥
Tattvabodhini¶
तत्पुरुषस्याङ्गुलेः संख्याऽव्ययादेः - तत्पुरुषस्येति । अलोन्त्यविधिं बाधित्वाप्रत्ययः॑परश्चे॑ति परत्वात्तत्पुरुषस्याऽङ्गुले॑रिति तु समासान्तापेक्षया अवयवषष्ठीत्याहुः । व्द्यङ्गुलमिति ।तद्धितार्थ॑इति समासः ।द्विगोर्नित्य॑मिति मात्रचो लोप इति वृत्तिकृत् । मनोरमायां तु द्वयसचो लुगिति स्थितम् ।अहग्र्रहणं द्वन्द्वर्थम् । द्वन्द्वार्थमिति ।अह्नो रात्रि॑रिति षष्ठीतत्पुरुषस्याऽसम्भवादिति भावः । नन्वहःशब्दस्याऽहस्तुल्यतायां, रात्रिशब्दस्य वा रात्रितुल्यतायां गौणत्वसम्भवादहश्चासौ रात्रिश्चेति कर्मधारयोऽस्त्विति चेन्न । मुक्यसम्भवे गौणग्रहणाऽयोगात् ।हेमन्तशिशिरावहोरात्रे चे॑त्यत्र द्वन्द्वे समासान्तदर्शनाच्च । अहोरात्र इति ।जातिरप्रणिना॑मित्येकवद्भावः ।स नपुंसक॑मित्येतद्बाधित्वा परत्वात्रात्राह्नाहाः॑इति पुस्त्वम् । एतेनैकवद्भावात् क्लीबतेति प्राचो ग्रन्थः परास्तः ।मासेन स्यादहोरत्रः॑ इत्यादिग्रन्थविरोधाच्च । सर्वरात्र इथि ।पूर्वकालैके॑ति समासः । पूर्वरात्र इति ।पूर्वापराधरोत्तर॑मित्येकदेशिसमासः । यदा तु रात्रिशब्दस्यैकदेसे लक्षणां स्वीकृत्य कर्मधारयोऽभ्युपगम्यते तदा पूर्वरात्रिरित्येव भवति । द्विरात्रमिति ।सङ्ख्यापूर्वं रात्रं क्लीब॑मिति वक्ष्यते । अह्नष्टखोरेव ।नस्त्द्धिते॑इत्येव सिद्धे नियमार्थमिदम् । एवकारस्त्वह्न एव टखयोरिति विपरीतनियमशङ्कानिरासार्थः ।आत्माध्वनौ खे॑इति प्रकृतिभावविधानेन तन्निरासे प्रतिपत्तिगौरवं स्यादिति भावः । टखोरेवेति किम् । अह्ना निर्बृत्तमाह्निकम् ।काला॑दित्यधिकारेतेन निर्वृत्त॑मिति ठञ् । टिलोपाऽभावात्अल्लोपोऽनः॑इत्यकारलोपः ।
Padamanjari¶
अङ्गुलिशब्दान्तस्येत्यादि। सर्वत्र समासान्तसम्बन्धे षष्ठी ॥
Nyaas¶
मात्रचो लोपः इति। प्रमाणे द्वयसच् (5.2.37) इत्यादिना विहितस्य। निरङ्गुलम् इति। निरध्वमित्यनेन तुल्यमेतत्। अत्यङ्गुलम् इति। एतदप्यत्यध्वमित्यनेन तुल्यम्। पञ्चाङ्गुलिः इति बहुव्रीहिः॥
Praudhamanorama¶
तत्पुरुषस्याङ्गुलेः ॥ समासाऽन्ताऽपेक्षयाऽत्रयवषष्ठी । द्व्यङ्गुलमिति । ‘द्विगोर्नित्यमि’ति द्वयसचो लुक् ।
Prakriyasarvasvam¶
सङ्ख्याव्ययोदरङ्गुल्यन्तस्य तत्पुरुषस्याच् प्रत्ययः स्यात् । यस्य—’ (६-४- १४८) इति लोपः । द्वयोरङ्गुल्योस्समाहारो द्व्यङ्गुलम् । अयं सङ्ख्यापूर्वत्वाद् द्विगुसंज्ञः ।।